________________
उत्तराध्ययन
307 ॥ अथ चतुर्विंशमध्ययनम् ॥
॥ ॐ ॥ उक्तं त्रयोविंशमध्ययनमथ प्रवचनमातृसंज्ञं चतुशिमारभ्यते । अस्य चायं सम्बन्धः, पूर्वाभ्ययने परेपां मनोविलुतिः केशिगौतमवदपनेयेत्युक्तं, तदपनयनं च भापासमित्यात्मकेन वाग्योगेन स्याझाषासमितिश्च प्रषचनमातृणामन्तर्गतेति तत्स्वरूपमिहोच्यते, इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् ॥ मूलम्-अप्पवयणमायाओ, समिई गुत्ती तहेव यापंचेव य समीईओ, तओ गुत्तिओ आहिआ॥१॥
व्याख्या-'समिइत्ति' समितयः, गुत्तित्ति' गुरायः, आहिजत्ति' आण्याताः कथिताः ॥ १॥ ता एव नामत माहमूलम्-ईरिआ भासेसणादाणे, उच्चारे समिई इमणगुत्ती वयगुत्ती, कायगुत्ति अ अट्ठमा ॥२॥ __ व्याख्या-ईरणं गमनं ईर्या, भापणं भापा, एपणमन्नादिगवेषणमेपणा, आदानं पात्रादेग्रंहणं, निक्षेपोपलक्षणमैतत् , उचारे उच्चारादिपरिष्ठापनायां च समितिः सम्यक्प्रवृत्तिरिदं च प्रत्येकं योज्यं, । 'इअत्ति' इतिः समाप्ती, एतावत्य एव समितय इत्यर्थः । तथा मनसो गुप्तिः शुभे प्रवृत्तिः अशुभे निग्रहो मनोगुप्तिः, एवमप्रेऽपि ॥ २ ॥ निगमगमाहमूलम्-एआओ अह समिईओ, समासेण विआहिआ।दुवालसंगं जिणक्खायं,मायं जत्थ उ पवयणं॥ ___ व्याख्या-एता अष्ट समितयः, समिति सम्यग जिनवचनानुसारितया इतय आत्मनश्चेष्टाः समितय इत्यन्यर्थेन गुप्तीनामपि समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः । यत्तु भेदेनोपादानं तत्समितीनां प्रष्टत्तिरूपत्वेन गुप्तीनां तु प्रवृत्तिनिवत्तिरूपत्येन कथञ्चिद्भेद इति ख्यापनार्थम् । द्वादशाङ्गं जिनाख्यातं 'मायति' उत्तरतुशब्दस्यैवकारार्थस्येह योगान्मातमेव यत्र यासु प्रवचनं । तथा हि-सर्वा अप्येताश्चारित्ररूपाचारित्रं च ज्ञानदर्शनाविनाभावि, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमस्तीत्येतासु प्रवचनं मातमित्युच्यते । इति सूत्रत्रयार्थः, शेषं सुगमत्वान्न व्याख्यासमेवमप्रेऽपि ज्ञेयम् ॥ ३॥ तर्यासमिति खरूपमाहमूलम्-आलंबणेण कालेण, मग्गेण जयणाइ अ । चउकारणपरिद्धसुं, संजये इरिअं रिए ॥ ४॥
व्याख्या-आलम्बनेन कालेन मार्गेण यतनया च, एभिश्चतुर्भिः कारणैः परिशुद्धां संयत ईयाँ गति रीयेत कुर्यात् ॥ ४ ॥ आलम्बनादीन्येव व्याख्यातिमूलम्-तत्थ आलंवणं नाणं, दंसणं चरणं तहा । काले अ दिवसे वुत्ते, मग्गे उप्पहवजिए ॥५॥ ___ व्याख्या-तत्र तेष्वालम्बनादिपु मध्ये यदालम्ब्य गमनमनुज्ञायते तदालम्बनं ज्ञानादि । तत्र ज्ञानं सूत्रार्थोभयरूप आगमः, दर्शनं सम्यक्त्वं, चरणं चारित्रं । तथाशब्दो द्विव्यादिसंयोगभङ्गकसूचकस्ततः प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगेन या गमनमनुज्ञातं, ज्ञानाधालम्बनं विना तु तन्नानुज्ञातम् । कालश्च प्रस्तावादीयविपयो दिवस उक्तो जिनैः, रात्रौ हि चक्षुर्विषयताभावात्पुष्टालम्बनं विना गमनं नानुज्ञातम् । मार्ग इह सामान्येन पन्थाः, स चोत्पथेनोन्मार्गेण वर्जित उत्पथवर्जित उक्त इति योगः, उत्पथे हि व्रजत आत्मविराधनादयो दोपाः॥५॥ अथ यतनामाहमूलम्-दवओ खेत्तओ चेव, कालओभावओ तहा। जयणा चउबिहा वुत्ता, तं मे कित्तयओ सुण ॥६॥
व्याख्या-तं मेत्ति' तां यतनां मे मम कीर्तयतः शृणु हे शिष्य ! ॥६॥ मूलम्-दवओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ। कालओ जाव रीएजा, उवउत्ते अ भावओ॥७॥
व्याख्या--द्रव्यतो द्रव्यमाश्रित्येयं यतना, यच्चक्षुषा प्रेक्षेत जीवादिद्रव्यं । युगमात्रं च प्रस्तावात्क्षेत्रं प्रेक्षेत इति योग इयं क्षेत्रतो यतना । कालतो यतना यावन्तं कालं रीयेत गच्छेत्तावत्कालमानेति शेषः । उपयुक्तश्च सावधानो यद्रीयेत इयं भावतो यतना ॥७॥ उपयुक्ततामेव स्पष्टयतिमूलम्--इंदिअत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरकारे, संजए इरिअं रिए ॥ ८॥
व्याख्या--इन्द्रियार्थान् शब्दादीन् विवर्य खाध्यायं चैव पञ्चधा वाचनादिपञ्चभेदं विवयं तस्यापि गत्युपयोगघातित्वात् , तस्यामीर्यायामेव मूर्तिस्तनुराद्याप्रियमाणा यस्यासी तन्मूर्तिः, तामेव पुरस्करोति उपयुक्ततया