SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 306 उत्तराध्ययन व्याख्या--शारीरमानसैदुःखैर्वाध्यमानानां पीड्यमानानांप्राणिना, क्षेमं व्याधिविरहात्, शिवं सर्वोपद्रवाभावात् , अनावाधं खाभाविकबाध्यापगमात् , स्थानमाश्रयं किं मन्यसेऽवबुध्यसे ? हे मुने ! ॥ ८० ॥ गौतमः प्राहमूलम्-अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरामन्नू, वाहिणो वेअणा तहा८१॥ ___ व्याख्या-'दुरारुहंति' दुःखेनारुह्यते इति दुरारोहं । वेदनाः शारीरमानसदुःखानुभवरूपाः । ततश्च ब्याध्यभावेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावेन चानाबाधत्वं, तस्येति ॥ ८१ ॥ मूलम्-ठाणे अ इइ के वुत्ते, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बी ॥८२॥ ___ व्याख्या-[प्राग्वत् ] ॥ ८२ ॥ मूलम्-निव्वाणंति अवाहंति, सिद्धिलोगग्गमेव य । खेमं सिवमणाबाहं, जं चरति महेसिणो ॥३॥ ___ व्याख्या-'निवाणंति' इतिशब्दः खरूपपरामर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः । ततो निर्वाणमिति, अबाधमिति, सिद्धिरिति, लोकाप्रमिति यदुच्यते इति शेषः । एवः पूत्तौं, चः समुच्चये, क्षेमं शिवमनाबाधमिति प्राग्वत् यवरन्ति गच्छन्ति महर्षयः ॥ ८३॥ मूलम्-तं ठाणं सासयंत्रासं, लोअग्गंमि दुरारुहं । जं संपत्ता न सोअंति, भवोहंतकरा मुणी ॥४॥ व्याख्या-तत्स्थानमुक्तमिति गम्यं, कीरशमित्याह-'सासयंवासंति' बिन्दोर्लोपे शाश्वतावासं नित्यावस्थितिकं । प्रसङ्गात्तन्महात्म्यमाह-जमित्यादि-यत्सम्प्राप्ता न शोचन्ति, भवाघो नारकादिभवप्रवाहस्तस्थान्तकरा भवौधान्तकरा मुनय इति सूत्रषट्रकार्थः ॥ ८४ ॥ ___ मूलम्--साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। नमो ते संसयातीत, सबसुत्तमहोदधी ! ॥ ८५॥ व्याख्या-इहोत्तरार्धन उपबृंहणागी स्तुतिमाह ॥ ८५ ॥ पुनस्तद्वक्तव्यतामाहमूलम्--एवं तु संसए छिन्ने, केसी घोरपरकमे । अभिवंदित्ता सिरसा, गोअमं तु महायसं ॥८६॥ व्याख्या--एवमनेनैव क्रमेण संशये छिन्ने इति जातावेकवचनम् ॥ ८६ ॥ मूलम्-पंचमहत्वयधम्म, पडिवजइ भावओ। पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ॥ ८७ ॥ ___ व्याख्या-'पुरिमस्सत्ति' पूर्वस्य प्रक्रमाजिनस्याभिमते पश्चिमे पश्चिमजिनसम्बन्धिनि मार्गे तीर्थे, तत्र प्रस्तुते शुभावहे कल्याणकारिणि पञ्चमहाव्रतधर्म प्रतिपद्यते इति सम्बन्धः इति सूत्रत्रयार्थः ॥ ८७ ॥ अथाध्ययनार्थोपसंहारव्याजेन महापुरुपसङ्गमफलमाहमूलम्-केसिगोअमओ णिचं,तम्मि आसि समागमे।सुअसीलसमुक्करिसो,महत्थत्थ विणिच्छओटा व्याख्या-केशिगौतमत इति केशिगौतमावाश्रित्य नित्यं तत्र पुर्यामवस्थानं यावत् , तस्मिन् समागमे मीलके श्रुतशीलसमुत्कर्पो ज्ञानचरणप्रकर्षः, तथा महार्था मुक्तिसाधकत्वेन महाप्रयोजना ये अर्थाः शिक्षाव्रतादयस्तेषां विनिश्चयो निर्णयो महार्थार्थविनिश्चयः, आसीत्तच्छिष्यापेक्षयेति गम्यते ॥ ८८ ॥ तथा मूलम्-तोसिआ परिसा सवा, सम्मग्गं समुवट्ठिया। संथुआ ते पसीअंतु, भयवं केसीगोअमत्ति बेमि ॥ ८९ ॥ व्याख्या-तोपिता पर्पत्सर्वा सन्मार्ग मुक्तिपथमनुष्ठातुमिति गम्यते, समुपस्थिता उद्यता । अनेन पर्षदः फलमाह । इत्थं तच्चरितवर्णनद्वारा तयोः स्तुतिमुक्त्वा प्रणिधानमाह-संस्तुतौ तौ प्रसीदतां भगवन्तौ केशिगौतमाविति सूत्रद्वयार्थः ॥ ८९ ॥ इति त्रयीमीति पूर्ववत् ॥ ജയിയായിയായ ഇയാ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय A श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोविंशमध्ययनं सम्पूर्णम् ॥ २३॥ லேலலைலலைலலைல
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy