________________
303
उत्तराध्ययन
प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः । अनेन कायमन सोस्तदेकाप्रमुक्तं, संयत ईर्ष्या रीयेतेति सूत्रपञ्चकार्थः ॥ ८ ॥ भाषासमितिमाह
मूलम् - कोहे माणे अ मायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव य ॥ ९ ॥ - क्रोधे माने मायायां लोभे चोपयुक्तता एकाग्रता, हास्ये भयमौखर्ये विकथासु तथैव चोपयुक्तता ॥९॥ मूलम् -- एआई अड ठाणाई, परिवजित्तु संजये | असावज मिअं काले, भासं भासिजपण्णवं ॥ १०॥
व्याख्या
व्याख्या --- क्रोधाद्युपयुक्ततायां हि प्रायः शुभा भाषा न सम्भवतीति एतान्यनन्तरोक्तानि क्रोधादिन्यष्टस्थानानि परिवर्ज्य संयतः असावद्यां निर्दोषां, मितां परिमितां, काले प्रस्तावे इति सूत्रद्वयार्थः ॥ १० ॥ एपणासमितिमाह -
मूलम् - गवेसणाए गहणे अ, परिभोगेसणा य जा । आहारोवहिसेजाए, एए तिण्णिवि सोहए ॥११॥
व्याख्या -- गवेपणायामन्वेषणायां ग्रहणे स्वीकारे उभयत्र एपणेति सम्बध्यते, ततो गवेपणायामेपणा, ग्रहणे च एपणा, परिभोगेपणा च या, 'आहारोव हिसेज्जाए सि' वचनव्ययादाहारोपधिशय्यासु 'एएत्ति' लिङ्गव्यत्ययादेतास्तित्र एपणा विशोधयेनिर्दोषाः कुर्यात् ॥ ११ ॥ कथं विशोधयेदित्याह -
मूलम् - उग्गमुप्पायणं पढमे, बीए सोहिज्ज एसणं । परिभोगंमि चउक्कं, विसोहिज्ज जयं जई ॥ १२ ॥
व्याख्या-‘उग्गमुध्पायणंति' उद्गमोत्पादनादोषान् 'पढमेति' प्रथमायां गवेषणायां शोधयेदिति योगः । तत्रो - मदोषा आधाकर्मादयः षोडश, उत्पादनादोषा अपि धात्र्यादयस्तावन्त एवेति । 'वीएत्ति' द्वितीयायां ग्रहणैषणायां शोधयेत्, 'एसणंति' एपणादोषान् शङ्कितादीन् दश, 'परिभोगंमित्ति' परिभोगैषणायां चतुष्कं संयोजनाप्रमांणांगारैधूमकरणरूपं, अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात्, विशोधयेत् 'जयंति' यतमानो यतिः । पुनः क्रियाभिधानमतिशयसूचकमिति सूत्रद्वयार्थः ॥ १२ ॥ आदाननिक्षेपसमितिमाहमूलम् - ओहोवहोवग्गहिअं, भंडगं दुविहं मुणी । गिण्हंतो निक्खिवंतो अ,
परंजिज्ज इमं विहिं ॥ १३॥
व्याख्या- 'ओहो होवग्गहिअंति' इहोपधिशब्दो मध्यनिर्दिष्टो डमरुकमणिन्यायेनोभयत्रापि सम्बध्यते, तत ओघोपधिं औपग्रहिकोपधिं च, भाण्डकमुपकरणं यथाक्रमं रजोहरणादि दण्डकादि च, द्विविधं उक्तभेदतो द्विभेद, मुनिः गृह्णन्निक्षिपंश्च प्रयुञ्जीत इमं वक्ष्यमाणं विधिम् ॥ १३ ॥ तमेवाह
मूलम् - चक्खुसा पडिलेहित्ता, पमजिज्ज जयं जई। आइए निक्खिवेज वा, दुहओवि समिए सया १४
व्याख्या -- चक्षुषा प्रत्युपेक्ष्याऽवलोक्य प्रमार्जयेत् रजोहरणादिना यतमानो यतिः, तदनु आददीत निक्षिपेद्वा 'दुहओवित्ति' द्वापि प्रक्रमादौघिकौपग्रहिकोपधी, समित उपयुक्तः सदेति सूत्रद्वयार्थः ॥ १४ ॥ परिष्ठापनासमितिमाह
मूलम् — उच्चारं पासवणं, खेलं सिंघाण जल्लिअं । आहारं उबहिं देहं, अन्नं वावि तहाविहं ॥ १५ ॥
व्याख्या - उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलं मुखश्लेष्माणं, सिङ्घाणं नासिकाश्लेष्माणं, 'जल्लिअंति' जलं मलं, आहारमुपधिं देहं, अन्यद्वा कारणगृहीतं गोमयादि, अपिः पूत, तथाविधं परिष्ठापनाई स्थण्डिले व्युत्सृजेदित्युत्तरेण योगः ॥ १५ ॥ स्थण्डिलं च दशविशेषणपद विशिष्टमिति तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदस्थशब्दद्वयस्य
भङ्गकरचनामाह-
मूलम् - अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ॥ १६ ॥
व्याख्या - न विद्यते आपातः खपरोभयपक्षसमीपागमनरूपो यत्र तदनापातं स्थण्डिलमिति गम्यं, 'असंलोएत्ति' नास्ति संलोको दूरस्यापि स्वपक्षादेरालोको यत्र तत्तथेत्येको भङ्गः ॥ १ ॥ अनापातं चैव भवति संलोकं, यत्रापातो नास्ति संलोकश्वास्तीति द्वितीयो भङ्गः ॥ २ ॥ आपातमसंलोकं, यत्रापातोऽस्ति न तु संलोक इति तृतीयः ॥ ३ ॥