________________
309
उत्तराध्ययन
आपातं चैव संलोकं, यत्रोभयमपि स्यादिति तुर्यः ॥ ४ ॥ इहापातं संलोकं चेति स्थण्डिलविशेषणं मत्वर्थीये अचि सिद्धम् ॥ १६ ॥ दशविशेषणपदज्ञापनार्थमुच्चारादि यादृशे स्थण्डिले व्युत्सृजेत्तदाह
मूलम् - अणावायमसंलोए १ परस्सऽणुवधाइए २ ।
समे ३ असिरे ४ आवि, अचिरकालकयंमि अ ५ ॥ १७ ॥ विच्छिण्णे ६ दूरमोगाढे ७, नासन्ने ८ बिलवज्जिए ९ । तसपाणबीअरहिए १०, उच्चाराईणि वोसिरे ॥ १८ ॥
व्याख्या - अनापाते असंलोके, कस्येत्याह- परस्य खपरपक्षादः ॥ १ ॥ तथा अनुपघातके, संयमात्मप्रवचनोपधातरहिते ॥ २ ॥ समे, निम्नोन्नतत्वहीने ॥ ३ ॥ अशुषिरे, तृणपर्णाद्यनाकीर्णे ॥ ४ ॥ अचिरकालकृते, दाहादिना खल्पकालकृते, चिरकृते हि पुनः संमूर्च्छन्त्येव पृथिव्यादयः ॥ ५ ॥ विच्छिण्णेत्ति' विस्तीर्णे, जघन्यतोऽपि हस्त मात्रे ॥ ६ ॥ दूरमवगाढे, जघन्यतोऽप्यधस्ताचतुरङ्गुलमचित्तीभूते ॥ ७ ॥ नासन्ने, ग्रामारामादेर्दूरस्थे ॥ ८ ॥ बिलवर्जिते, मूषकादिविलरहिते ॥ ९ त्रसप्राणा द्वीन्द्रियाद्याः, बीजानि शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत्तैः रहते सप्राणत्रीजरहिते ॥ १० ॥ एषां च पदानामेकद्विकत्रिकादिसयोगैश्चतुर्विंशं सहस्रं [ १०२४ ] भङ्गाः स्युः । तत्रान्त्यो दशपदनिष्पन्नो भङ्गको मुख्यवृत्या शुद्ध इतीदृशे स्थण्डिले उच्चारादीनि व्युत्सृजेत् परिष्ठापयेत् । पुनरुच्चारादि कथनं विस्मरणशीलानुग्रहार्थमिति सूत्रचतुष्कार्थः ॥ १७ ॥ १८ ॥ अथोक्तार्थोपसंहारपूर्व वक्ष्यमाणार्थसम्बन्धार्थमाहमूलम् -- एआओ पञ्च समिईओ, समासेण विआहिआ । इत्तो य तओ गुत्ती, वोच्छामि अणुपुवसो १९
व्याख्या -- 'विआहिअत्ति' व्याख्याताः 'इत्तो अत्ति' इतश्च 'तओत्ति' तिस्रः 'अणुपुवसोत्ति' आनुपूर्व्येति सूत्रार्थः
॥ १९ ॥ तत्राद्यामाह
मूलम् - सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असैंच्चमोसा अ, मणगुत्ती चउत्रिहा ॥२०॥
व्याख्या - सत्पदार्थचिन्तनरूपो मनोयोगः सत्यः, तद्विपया मनोगुप्तिरप्युपचारात् सत्या । एवमन्या अपि ॥२०॥ अस्या एव स्वरूपं निरूपयन्नुपदेष्टुमाह
मूलम् -- संरंभसमारंभे, आरंभंमि तहेव य । मणं पवत्तमाणं तु, निअत्तिज्ज जयं जई ॥ २१ ॥
व्याख्या - संरम्भः सङ्कल्पः, स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः । समारम्भः परपीडाकरोच्चाटनादिनिमित्तं ध्यानं, अनयोः समाहारस्तस्मिन् । आरम्भे परमारणक्षमाशुभध्यानरूपे, चः समुच्चये, तथैव तेनैवागमोक्तप्रकारेण मनः प्रवर्त्तमानं, तुर्विशेषणे, निवर्त्तयेत् यतमानो यतिः । विशेषश्चायं - शुभसङ्कल्पेषु मनः प्रवर्त्तयेदिति ॥ २१ ॥ वाग्गुप्तिमाह
मूलम् - सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असच्चमोसा उ, वयगुत्ती चउबीहा ॥ २२ ॥
व्याख्या -सत्या यथास्थितार्थप्रतिपादिका, असत्या तद्विपरीता, सत्यामृषा गोवृषभस गाव ऐवेता इत्यादिका, असत्यामृषा स्वाध्यायं विधेहीत्यादिका ॥ २२ ॥
मूलम् -- संरंभसमारंभे, आरभंमि तहेव य । वयं पवत्तमाणं तु, निअतिज जयं जई ॥ २३ ॥ व्याख्या ——– वाचिकः संरम्भः परव्यापादनक्षममंत्रादिपरावर्त्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन्, समारम्भः परपीडाकरमंत्रादिपरावर्त्तनं, आरम्भ: परमारणकारणमंत्रादिजयनमिति ॥ २३ ॥ कायगुप्तिमाहमूलम् — ठाणे निसीअणे चेव, तहेव य तुअट्टणे । उल्लंघणपल्लंघण, इंदिआणं च जुंजणे ॥ २४ ॥
व्याख्या —— स्थाने ऊर्द्धस्थाने, निपीदने उपवेशने चैव पूत, तथैव च त्वग्वर्त्तने शयने, उल्लङ्घने ताशहेतोर्गर्त्तादेरुत्क्रमणे, प्रलङ्घने सातत्येन गमने, उभयत्र सूत्रत्वाद्विभक्तिलोपः, इन्द्रियाणां च 'जुंजणेत्ति' योजने शब्दादिषु व्यापारणे, सर्वत्रापि वर्त्तमान इति शेषः ॥ २४ ॥
मूलम् - संरंभसमारंभे, आरंभंमि तहेव य । कार्यं पवत्तमाणं तु, निअतिज्ज जयं जई ॥ २५ ॥ व्याख्या —–संरम्भोऽभिघाताय दृष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः