________________
उत्तराध्ययन
310
परितापक मुष्ट्याद्यभिघातः, आरम्भः प्राणिवधात्मकस्तेषु प्रवर्त्तमानं कार्यं निवर्त्तयेदिति सूत्रषट्कार्थः ॥ २५ ॥ अथ समितिगुत्योर्मिथो विशेषमाह-
मूलम् - आओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती निअत्तणे वुत्ता, असुभत्थेसु सब सो ॥ २६ ॥
व्याख्या - एताः पञ्च समितयश्चरणं चारित्रं सचेष्टेत्यर्थः तस्य प्रवर्त्तने प्राप्यचशब्दस्य एवार्थस्येह योगात्प्रवर्त्तन एव उक्ता इति योगः, सचेष्टासु प्रवृत्तावेव समितयो व्याप्रियन्त इति भावः । 'गुत्तित्ति' गुप्तयो निवर्त्तनेप्युक्ताः, 'असुमत्थेसुति' अशुभमनोयोगादिभ्यः 'सबसोत्ति' सर्वेभ्यः, अपिशब्दाचरणप्रवर्त्तनेपीति सूत्रार्थः ॥ २६ ॥ अध्ययनार्थसुपसंहरन्नेतदाचरणे फलमाह -
मूलम् - एआओ पवयणमायाओ, जे सम्मं आयरे मुणी । से खीप्पं सबसंसारा, विप्पमुञ्चइ पंडिएत्ति बेमि व्याख्या- 'आयरेत्ति' आचरेत् सेवेतेति सूत्रार्थः ॥ २७ ॥ इति ब्रवीमीति प्राग्वत् ॥
FHX••••+XXX++++XXXXXXXXXXXXXX
इति श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्विंशमध्ययनं सम्पूर्णम् ॥ २४ ॥
HXXXXXXXXXXX
॥ अथ पञ्चविंशमध्ययनम् ॥
-----
॥ ॐ ॥ उक्तं चतुर्विंशमध्ययनमथ यज्ञीयाख्यं पञ्चविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने प्रवचनमातर उक्तास्ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषविजयघोषचरितवर्णनद्वारा ब्रह्मगुणा इहोच्यन्ते, इति सम्बन्धस्यास्य प्रस्तावनार्थं जयघोषकथालेशो लिख्यते । तथा हि
वाराणस्यामभूतां द्वौ द्विजौ युग्मजसोदरी ॥ काश्यपौ जयघोषाख्य-विजयघोषसंज्ञकौ ॥ १ ॥ जयघोषोऽन्यदा स्नातुं, गतो गङ्गां व्यलोकत || सर्पमेकं मुखोपात - रटन्मण्डूकभक्षकम् ॥ २ ॥ गृहीत्वा स भुजङ्गोऽपि, क्षणात्कुररपक्षिणा ॥ उत्क्षिप्याधिक्षिति क्षिप्तः, प्रारेमे भक्षितुं द्रुतम् ॥ ३ ॥ तेन सन्दंशदेशीय - त्रोटित्रोटित विग्रहम् ॥ भक्ष्यमाणोऽप्यहिकं, रटन्तं तं जघास सः ॥ ४ ॥ तं च प्रेक्ष्य मिथोप्रासं, जयधोपो व्यचिन्तयत् ॥ अहो ! भवस्य काप्येपा, स्थितिरस्थितसुस्थता ॥ ५ ॥ यो हि यस्मै प्रभवति, प्रसते तं स मीनवत् ॥ न तु गोपायति स्वीयशक्तिं कोऽपि नदीनवत् ॥ ६ ॥ कृतान्तस्तु महाशक्ति - रिति स प्रसतेऽखिलम् ॥ तदसारेऽत्र संसारे, का नामास्था
१ स तं प्रसति मीनवत् । इति "घ" पुस्तके ॥ २ रिति सर्वे प्रसत्य हो । इति "घ" पुस्तके ॥
मनीषिणाम् १ ॥ ७ ॥ किञ्चेह धर्म एवैकः, सर्वोपद्रवनाशकः ॥ श्रयामि तत्तमेवाहं, कामितार्थसुरद्रुमम् ॥ ८ ॥ इति चेतसि सम्प्रधार्य गङ्गा-परतीरं स गतो ददर्श साधून् || जिनधर्ममवेत्य तद्गिरा च व्रतमादाय ततो भुवि व्यहार्षीत् ॥ ९ ॥ इति तत्कथालेशः ॥ तच्छेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रं व्याख्यायते तच्चेदम्मूलम् - माहणकुलसंभूओ, आसि विप्पो महायसो। जायाई जमजण्णंसि, जयघोसेत्ति नामओ ॥१॥
व्याख्या - ब्राह्मणकुलसम्भूतोऽपि जननीजातेरन्यथात्वे ब्राह्मणो न स्यादत आह-विप्र इति, 'जायाइत्ति' यायजीति मुहुर्यज्ञं करोतीति यायाजी, केत्याह-यमाः पञ्च महाव्रतानि तान्येव भावपूजा रूपत्वाद्यज्ञो यमयज्ञस्तस्मिन् ॥१॥ मूलम् — इंदिअग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगामं रीअंतो, पत्तो वाणारसीं पुरीं ॥२॥ व्याख्या - इन्द्रियग्राम निग्राही, अत एव मार्गगामी मुक्तिपथयायी ॥ २ ॥
मूलम् - वाणारसीए बहिआ, उज्जाणंमि मणोरमे । फासुए सिजसंथारे, तत्थ वासमुवागए ॥ ३ ॥ व्याख्या – 'बहिअत्ति' बहिर्भागे, इति सूत्रत्रयावयवार्थः, शेषं व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥ ३ ॥ तदा च तस्यां पुरि यद्वर्त्तते यच्च यतिः कुरुते तदाह