Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
311 उत्तराध्ययन मूलम-भावसच्चेणं भंते ! जीवे किं जणयइ ? भावसच्चेणं भावविसोहिं जणयइ, भावविसोहिए
अ वट्टमाणे जीवे अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुढेइ, अरहंतपण्णनस्त
धम्मस्त आराहणयाए अब्भुठित्ता परलोअधम्मस्स आराहए भवइ ॥ ५० ॥ ५२ ॥ व्याख्या--भावसत्येन शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेनेत्यर्थः, भावविशुद्धिं अध्यवसायविशुद्धता जनयति । भावविशुद्धी च वर्तमानोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनायै आवर्जनाय अभ्युत्तिष्ठते उत्सहते, तस्यै चाभ्युत्थाय परलोके भवान्तरे धर्मः परलोकधर्मस्तस्याराधको भवति, प्रेत्य जिनधर्मावाप्त्या विशिष्टभवान्तरप्राप्त्या वेति भावः ॥ ५० ॥ ५२ ॥ भावसत्ये च सति करणसत्यं स्यादिति तदाहमुलम्-करणसच्चेणं भंते ! जीवे किं जणयइ ? करणसञ्चेणं करणसत्ति जणयइ, करणसच्चे अ वह
माणे जीवे जहावाई तहाकारी आवि भवइ ॥ ५१ ॥ ५३॥ ग्याख्या-करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियामुपयुक्तः कुरुते तेन करणशक्ति अपूर्षापूर्वशुभक्रियां कर. सामर्थ्यरूपां जनयति, करणसत्ये च वर्तमानो यथावादी तथाकारी चापि भवति, स हि सूत्रं पठन् यया क्रियाकलापबदनशीलः स्यात्तथैव करणशीलोपीति ॥ ५१ ॥ ५३ ॥ तस्स च मुनेर्योगसत्यमपि स्वादिति तदाह
मूलम्-जोगसञ्चेणं भंते ! जीवे किं जणयइ ? जोगसच्चेणं जोगे विसोहेइ॥ ५२ ॥ ५४॥ म्याख्या-योगसत्येन मनोयाकायसत्येन योगान् विशोधयति, लिष्टकर्मवन्धाभावानिर्दोषान् करोति ॥५१॥ ॥ ५४॥ योगसत्यं च गुप्तिमतः स्यादिति ता आहमूलम्-मणगुत्तयाए णं भंते ! जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगग्गं जणयइ, एगग्ग
चित्ते णं जीवे मणगुत्ते संजमाराहए भवइ ॥ ५३॥ ५५॥ पाख्या-मनोगुप्ततया मनोगुप्तिरूपया ऐकायं प्रस्तावाद्धमैकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो मनो गुप्तमशुभाध्यवसायेषु गच्छद्रक्षितं येनासौ मनोगुसः, क्तान्तस्य परनिपातः सूत्रत्वात् , संयमाराधको भवति ॥ ५३॥५५॥ मूलम्-वइगुत्तयाए णं भंते ! जीवे किं जणयइ ? वइगुत्तयाए णं निविआरतं जणयइ, निविकारे
णं जीवे वइगुत्ते अज्झप्पजोगसाहणजुत्ते आवि भवइ ॥ ५४ ॥ ५६ ॥ व्याख्या-वाग्गुप्ततया कुशलवागुदीरणरूपया निर्विकारत्वं विकथाधात्मकवाग्विकाराभावं जनयति, ततम निर्विकारो जीवो वाग्गुप्तः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान् अध्यात्म मनस्तस्य योगा व्यापारा धर्मध्यानादयस्तेषां साधनानि एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तश्चापि भवति, विशिष्टवाग्गुप्तिरहितो हि न पिरीकाप्रतादिमाग भवति ॥ ५४ ॥ ५६ ॥ मूलम्-कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं काय
गुत्ते पुणो पावासवनिरोहं करेइ ॥ ५५ ॥ ५७॥ व्याख्या-कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यस्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तन्निरोधं करोति ॥५५॥ ॥ ५७ ॥ गुसिभिश्च यथाक्रमं मनःसमाधारणादिसम्भव इति ता आहमूलम्-मणसमाहारणयाए णं भंते ! जीवे किं जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ,
एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं
विनिजरेइ ॥ ५६ ॥ ५८ ॥ व्याख्या-मनसः समिति सम्यक् आङिति आगमोक्तभावामिव्याप्त्या या धारणा व्यवसापना सा मनःसमा

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424