Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 356
________________ उत्तराध्ययन 351 गुरोः पुरो वचसा प्रकाशनं, तन्मात्रेणैव यत्पातकं शुध्यति तदालोचनाहम् ॥ १॥ प्रायश्चित्तं त्विहालोचनैव, एवमप्रेपि । प्रतिक्रमणं दोषान्निवृत्तिर्मिथ्यादुष्कृतदानमित्यर्थः, तन्मात्रेणैव यत्सहसात्कारजातं सावधवचनादिपापं शुध्यति न तु गुरुसमक्षमालोच्यते तत्प्रतिक्रमणाहम् ॥ २ ॥ तथा यत्र गुरुसमक्षमालोच्य तदाज्ञया मिथ्यादुष्कृतं दत्ते तदालोचनाप्रतिक्रमणाईत्वान्मिश्रम् ॥ ३॥ तथा विवेकः पृथकरणं, तन्मात्रेणैव यस्य शुद्धिस्तद्विवेकाहम् । जायते हि कथञ्चिदशुद्धाहारादिग्रहणे तत्त्यागमात्रेणैव शुद्धिरिति ॥ ४ ॥ व्युत्सर्गः कायोत्सर्गस्तेनैव यस्य शुद्धिस्तत्तदहम् । ५। तथा यत्र प्रतिसेविते निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोर्हम् ॥ ६॥ यत्र चासेविते पर्यायच्छेदः क्रियते तच्छेदाईम् ॥७॥ यत्र चापतिते सर्व पर्यायमुच्छेद्य मूलतो प्रतारोपः स्यात्तन्मूलाईम् ॥ ८॥ येन पुनः सेवितेन उपस्थापनाया अप्ययोग्यः सन् यावद्गुरूक्तं तपो न कुर्यात्तावद् प्रतेषु न स्थाप्यते, आचीर्णतपास्तु दोषोपरतो प्रतेपु स्थाप्यते तदनवस्थाप्यम् ॥९॥ यस्मिन् सेविते लिह-क्षेत्र-काल-तपसा पारमञ्चति तत्पाराञ्चितं, यहा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टप्रायश्चिताभावात् , अपराधानां ना पारमञ्चतीति पाराश्चितम् ॥ १० ॥ इत्येतद्दशविध यो भिक्षुर्वहत्यासेवते सम्यगवैपरीत्येन प्रायश्चित्तं तदाख्यातम् ॥ ३१॥ विनयमाहमूलम्-अब्भुटाणं अंजलिकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा विणओ एस विआहिओ ३२ व्याख्या-अभ्युत्थानमअलिकरणं तथेति समुच्चये, एवः पूत्तौं, 'आसणदायणंति' आसनदानं, गुरुभक्तिः, भावः अन्तःकरणं तेन शुश्रूषा तदादेशम्प्रति श्रोतुमिच्छा, पर्युपासना या, भावशुश्रूषा । विनय एप व्याख्यातः ॥ ३२ ॥ वैयावृत्त्यमाहमूलम्-आयरिअमाइअंमि, वेआवश्चमि दसविहे । आसेवणं जहाथाम, वेआवञ्चं तमाहि ॥ ३३ ॥ व्याख्या-'आयरिअमाइअंमित्ति' मकारोऽलाक्षणिकस्तत आचार्यादिके आचार्यादियिषये व्यावृत्तभावो वैयावृत्त्यमुचितविधिना आहारादिसम्पादनं, उक्तं च-"वेआवर्ष वावडभावो तह धम्मसाहणनिमित्तं । अनाहाण विहिणा, संपाडणमेस भावत्थो ॥१॥" तस्मिन् , दशविधे विषयविभागाद्दशप्रकारे, यदुक्तं-"आयरिअ १ उवज्झाए २, थेर ३ तबस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिअ ७ कुल ८ गण ९ संघ १० संगयं तमिह कायचं ॥१॥" आसेवनमेतद्विषयमनुष्ठानं यथास्थाम यथाशक्ति वैयावृत्त्यं तदाख्यातम् ॥ ३३ ॥ खाध्यायमाहमूलम्-वायणा १ पुच्छणा २ चेव, तहेव परिअट्टणा३।अणुप्पेहा ४ धम्मकहा ५,सज्झाओ पंचहा भवे॥ व्याख्या-वाचनादिभेदाः प्राग्न्याख्याताः ॥ ३४ ॥ ध्यानमाह-- मूलम्-अट्टरुदाणि वजित्ता, झाएज्जा सुसमाहिओ।धम्मसुक्काई झाणाइं, झाणं तं तु बुहा वए ॥३५॥ व्याख्या-ऋतं दुःखं तत्र भवमार्त्त, रुद्रस्य प्राणिवधादिपरिणतस्येदं कर्म रौद्रं आर्त च रौद्रं च आर्तरौद्रे पर्जयित्वा ध्यायेत्सुसमाहितः। किमित्याह-धर्मात् क्षमादिदशभेदादनपेतं धर्म्य, शुचं शोक क्लमयति निरस्वतीति शुक्लू, अनयोर्द्वन्द्वस्ततो धर्म्यशुक्ले ध्याने स्थिराध्यवसायरूपे, ध्यानं ध्यानाख्यं तपः तत्तु तदेव बुधा वदन्ति ॥३५॥ व्युत्सर्गमाहमूलम्-सयणासण ठाणे वा, जे उ भिक्खू न वावरे। कायस्स विउस्सग्गो, छहो सो परिकित्तिओ॥३६॥ __व्याख्या-शयने त्वग्वर्त्तने, आसने उपवेशने, स्थाने वीरासनादौ, वा विकल्पे, प्रत्येकं योज्यः, खसामथ्यापेक्षया स्थित इति गम्यते, यस्तु भिक्षुर्न 'वावरेत्ति' व्याप्रीयते न चलनादिक्रियां विधत्ते यत्तदोर्नित्याभिसम्बन्धात् तस्य भिक्षोः कायस्य देहस्य व्युत्सर्गश्चेष्टां प्रति त्यागरूपो यः षष्ठं तत्प्रक्रमादभ्यन्तरतपः परिकीर्तितं । शेषव्युत्सर्गोपलक्षणं चेतदनेकविधत्वात्तस्य । यदक्तं-"दवे भावे अ तहा दविहस्सग्गोचउविहो दवे गणदेहोवहिभत्ते, भावे कोहाइचाओत्ति ॥” इति सूत्रपकार्थः ॥३६॥ अथाध्ययनार्थमुपसंहरंस्तपस एव फलमाहमूलम्-एअंतवं तु दुविहं, जे सम्मं आयरे मुणी।से खिप्पं सवसंसारा, विप्पमुच्चइ पंडिएत्ति बेमि ३७ व्याख्या-स्पष्टम् ॥ ३७॥ A इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रिंशत्तममध्ययनं सम्पूर्णम् ॥३०॥ NAGARIKminKaKRIEKADAKATREATRAKAREK K ADAIKWAKHECKMAI KARAMAY anganaxxxKRTIXXXII-IIICHIKExnxTAPAIN

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424