________________
उत्तराध्ययन
351 गुरोः पुरो वचसा प्रकाशनं, तन्मात्रेणैव यत्पातकं शुध्यति तदालोचनाहम् ॥ १॥ प्रायश्चित्तं त्विहालोचनैव, एवमप्रेपि । प्रतिक्रमणं दोषान्निवृत्तिर्मिथ्यादुष्कृतदानमित्यर्थः, तन्मात्रेणैव यत्सहसात्कारजातं सावधवचनादिपापं शुध्यति न तु गुरुसमक्षमालोच्यते तत्प्रतिक्रमणाहम् ॥ २ ॥ तथा यत्र गुरुसमक्षमालोच्य तदाज्ञया मिथ्यादुष्कृतं दत्ते तदालोचनाप्रतिक्रमणाईत्वान्मिश्रम् ॥ ३॥ तथा विवेकः पृथकरणं, तन्मात्रेणैव यस्य शुद्धिस्तद्विवेकाहम् । जायते हि कथञ्चिदशुद्धाहारादिग्रहणे तत्त्यागमात्रेणैव शुद्धिरिति ॥ ४ ॥ व्युत्सर्गः कायोत्सर्गस्तेनैव यस्य शुद्धिस्तत्तदहम् । ५। तथा यत्र प्रतिसेविते निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोर्हम् ॥ ६॥ यत्र चासेविते पर्यायच्छेदः क्रियते तच्छेदाईम् ॥७॥ यत्र चापतिते सर्व पर्यायमुच्छेद्य मूलतो प्रतारोपः स्यात्तन्मूलाईम् ॥ ८॥ येन पुनः सेवितेन उपस्थापनाया अप्ययोग्यः सन् यावद्गुरूक्तं तपो न कुर्यात्तावद् प्रतेषु न स्थाप्यते, आचीर्णतपास्तु दोषोपरतो प्रतेपु स्थाप्यते तदनवस्थाप्यम् ॥९॥ यस्मिन् सेविते लिह-क्षेत्र-काल-तपसा पारमञ्चति तत्पाराञ्चितं, यहा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टप्रायश्चिताभावात् , अपराधानां ना पारमञ्चतीति पाराश्चितम् ॥ १० ॥ इत्येतद्दशविध यो भिक्षुर्वहत्यासेवते सम्यगवैपरीत्येन प्रायश्चित्तं तदाख्यातम् ॥ ३१॥ विनयमाहमूलम्-अब्भुटाणं अंजलिकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा विणओ एस विआहिओ ३२
व्याख्या-अभ्युत्थानमअलिकरणं तथेति समुच्चये, एवः पूत्तौं, 'आसणदायणंति' आसनदानं, गुरुभक्तिः, भावः अन्तःकरणं तेन शुश्रूषा तदादेशम्प्रति श्रोतुमिच्छा, पर्युपासना या, भावशुश्रूषा । विनय एप व्याख्यातः ॥ ३२ ॥ वैयावृत्त्यमाहमूलम्-आयरिअमाइअंमि, वेआवश्चमि दसविहे । आसेवणं जहाथाम, वेआवञ्चं तमाहि ॥ ३३ ॥
व्याख्या-'आयरिअमाइअंमित्ति' मकारोऽलाक्षणिकस्तत आचार्यादिके आचार्यादियिषये व्यावृत्तभावो वैयावृत्त्यमुचितविधिना आहारादिसम्पादनं, उक्तं च-"वेआवर्ष वावडभावो तह धम्मसाहणनिमित्तं । अनाहाण विहिणा, संपाडणमेस भावत्थो ॥१॥" तस्मिन् , दशविधे विषयविभागाद्दशप्रकारे, यदुक्तं-"आयरिअ १ उवज्झाए २, थेर ३ तबस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिअ ७ कुल ८ गण ९ संघ १० संगयं तमिह कायचं ॥१॥" आसेवनमेतद्विषयमनुष्ठानं यथास्थाम यथाशक्ति वैयावृत्त्यं तदाख्यातम् ॥ ३३ ॥ खाध्यायमाहमूलम्-वायणा १ पुच्छणा २ चेव, तहेव परिअट्टणा३।अणुप्पेहा ४ धम्मकहा ५,सज्झाओ पंचहा भवे॥
व्याख्या-वाचनादिभेदाः प्राग्न्याख्याताः ॥ ३४ ॥ ध्यानमाह-- मूलम्-अट्टरुदाणि वजित्ता, झाएज्जा सुसमाहिओ।धम्मसुक्काई झाणाइं, झाणं तं तु बुहा वए ॥३५॥
व्याख्या-ऋतं दुःखं तत्र भवमार्त्त, रुद्रस्य प्राणिवधादिपरिणतस्येदं कर्म रौद्रं आर्त च रौद्रं च आर्तरौद्रे पर्जयित्वा ध्यायेत्सुसमाहितः। किमित्याह-धर्मात् क्षमादिदशभेदादनपेतं धर्म्य, शुचं शोक क्लमयति निरस्वतीति शुक्लू, अनयोर्द्वन्द्वस्ततो धर्म्यशुक्ले ध्याने स्थिराध्यवसायरूपे, ध्यानं ध्यानाख्यं तपः तत्तु तदेव बुधा वदन्ति ॥३५॥ व्युत्सर्गमाहमूलम्-सयणासण ठाणे वा, जे उ भिक्खू न वावरे। कायस्स विउस्सग्गो, छहो सो परिकित्तिओ॥३६॥ __व्याख्या-शयने त्वग्वर्त्तने, आसने उपवेशने, स्थाने वीरासनादौ, वा विकल्पे, प्रत्येकं योज्यः, खसामथ्यापेक्षया स्थित इति गम्यते, यस्तु भिक्षुर्न 'वावरेत्ति' व्याप्रीयते न चलनादिक्रियां विधत्ते यत्तदोर्नित्याभिसम्बन्धात् तस्य भिक्षोः कायस्य देहस्य व्युत्सर्गश्चेष्टां प्रति त्यागरूपो यः षष्ठं तत्प्रक्रमादभ्यन्तरतपः परिकीर्तितं । शेषव्युत्सर्गोपलक्षणं चेतदनेकविधत्वात्तस्य । यदक्तं-"दवे भावे अ तहा दविहस्सग्गोचउविहो दवे गणदेहोवहिभत्ते, भावे कोहाइचाओत्ति ॥” इति सूत्रपकार्थः ॥३६॥ अथाध्ययनार्थमुपसंहरंस्तपस एव फलमाहमूलम्-एअंतवं तु दुविहं, जे सम्मं आयरे मुणी।से खिप्पं सवसंसारा, विप्पमुच्चइ पंडिएत्ति बेमि ३७ व्याख्या-स्पष्टम् ॥ ३७॥ A इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रिंशत्तममध्ययनं सम्पूर्णम् ॥३०॥
NAGARIKminKaKRIEKADAKATREATRAKAREK
K ADAIKWAKHECKMAI KARAMAY
anganaxxxKRTIXXXII-IIICHIKExnxTAPAIN