________________
उत्तराध्ययन
350 हिआ ६, उज्झिअधम्मा य ७ सत्तमिआ ॥ १॥” संसृष्टाभ्यां हस्तपात्राभ्यां भिक्षां गृह्णतः प्रथमा ॥ १॥ असंसृष्टाभ्यां तु ताभ्यां गृह्णतो द्वितीया ॥ २ ॥ पाकस्थानात् यत् स्थाल्यादौ खार्थ भोजनायोद्धृतं ततो गृह्णतः उद्धृताख्या तृतीया ॥ ३॥ निर्लेपं पृथुकादिगृहृतोऽल्पलेपा चतुर्थी ४ । उद्गृहीता नाम भोजनकाले भोक्तुकामस्य परिवेपयितुं दर्वीशरावादिना यदुपहृतं भोजनजातं तत एवाददानस्य पञ्चमी ॥ ५॥ प्रगृहीता नाम भोजनकाले भोक्तकामाय दातमुद्यतेन भोक्रा वा यत्करादिना गृहीतं तत एव गृह्णतः पष्ठी ॥६॥ उज्झितधर्मा तु यत्परि
जनजातं यदन्ये द्विपदादयो नायकांक्षन्ति तद त्यक्तं वा गृह्णतः ससमी ॥७॥ अभिग्रहाच द्रव्य १ क्षेत्र २ काल ३ भाव ४ विषयाः। तत्र द्रव्याभिग्रहाः कुन्ताग्रादिसंस्थितं मण्डकादि प्रहीष्यामीत्यादयः॥१॥ क्षेत्राभिग्रहा देहली जल्योर्मध्ये कृत्वा यदि दास्यति तदा प्रायमित्याद्याः ॥२॥ कालाभिग्रहाः सकलभिक्षुकोपरमकाले मया भ्रमितव्यमितिमुख्याः ॥३॥ भावाभिग्रहास्तु हसन्नाक्रन्दन् बद्धो वा यदि दाता दास्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः ॥ ४ ॥ इति सूत्रार्थः ॥ २५ ॥ रसत्यागमाहमूलम्-खीरदहिसप्पिमाई, पणीअं पाणभोअणं । परिवजणं रसाणं तु, भणि रसविवजणं ॥२६॥
१ संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यामिति “घ” पुस्तके ॥ व्याख्या-क्षीरदधिसर्पिरादि, आदिशब्दागुडपक्वान्नादिग्रहणं, प्रणीतमतिबृहकं पानं च खर्जुररसादि भोजनं च गलस्नेहविन्दुकमोदनादि पानभोजनं, सूत्रस्य सोपस्कारत्वादेषां परिवर्जनं रसानां तुः पूत्तौं भणितं रसविवर्जनमिति सूत्रार्थः ॥ २६ ॥ कायक्लेशमाहमूलम्-ठाणा वीरासणाईआ, जीवस्स उ सुहावहा। उग्गा जहा धरिजंति, कायकिलेस तमाहिअं२७
व्याख्या--स्थानानि देहावस्थानभेदाः, वीरासनं यत्र वामोऽधिदक्षिणोरूर्द्ध दक्षिणश्च वामोरूई क्रियते तदादीनि, आदिशब्दागोदोहिकादिग्रहणं, लोचाधुपलक्षणं चैतत् , जीवस्य तुरवधारणे भिन्नक्रमश्च ततः सुखावहान्येव मुक्तिहेतुत्वात् शुभावहान्येव उग्राणि दुष्करतयोत्कटानि यथा येन प्रकारेण धार्यन्ते सेव्यन्ते कायक्लेशः स आख्यातः कथितस्तथैवेति शेष इति सूत्रार्थः ॥ २७ ॥ संलीनतामाहमूलम्-ए-तमणावाए, इत्थीपसुविवजिए । सयणासणसेवणया, विवित्तसयणासणं ॥ २८ ॥
व्याख्या-'एगंतत्ति' सुव्यत्ययादेकान्ते जनानाकुले, अनापाते ख्याधापातरहिते, स्त्रीपशुविवर्जिते तत्रैवावस्थितस्यादिवियुक्ते शून्यागारादावित्यर्थः, 'सयणासणसेवणयत्ति' शयनासनसेवनं विविक्तशयनासनं नाम बावं तप उच्यते, उपलक्षणं चैतदेपणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्याख्या संलीनतोक्ता, शेषसंलीनतोपल. क्षणमेपा, यतश्चतुर्विधेयमुक्ता, तथा हि-"इंदिअ १ कसाय २ जोगे ३, पडुच संलीणया मुणेअबा । तह जा विवित्तचरिआ ४, पणत्ता वीअरागेहिं ॥१॥" तत्रेन्द्रियसंलीनता मनोज्ञामनोज्ञेषु शब्दादिपु रागद्वेषाकरणात् ॥१॥ कपायसंलीनता तदुदयनिरोधादेः ॥ २॥ योगसंलीनता मनोवाकायानां शुभेपु प्रवृत्तेरशुभान्निवृत्तेश्च । ३ । इति सूत्रार्थः ॥ २८ ॥ उक्तमेवार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाहमूलम्-एसो बाहिरगतवो, समासेण विआहिओ। अभितरं तवं एत्तो, वोच्छामि अणुपुत्वसो ॥२९॥
व्याख्या-स्पष्टम् ॥ २९ ॥ प्रतिज्ञातमेवाहमूलम्-पायछित्तं विणओ, वेआवच्चं तहेव सज्झाओ।झाणं च विउस्सग्गो, एसो अभितरो तवो ३० __ व्याख्या-अक्षरार्थः सुगमो भावार्थ तु सूत्रकृदेवाहमूलम्-आलोअणारिहाईअं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायछित्तं तमाहिअं ॥३१॥ ___ व्याख्या-आलोचनाहं यत्पापमालोचनात एव शुध्यति तदादिकं, आदिशब्दात् प्रतिक्रमणार्हादिग्रहणं, इह च विषयविषयिणोरभेदोपचारादेषंविधपापविशुद्धघुपायभूतानि आलोचनादीन्येव आलोचनार्दादिशब्दैरुक्तानि । प्रायश्चित्तं तुरेवकारार्थो मिन्नक्रमश्व, ततो दशविधमेव । दशविधत्वं चैवं-"आलोअण १ पडिक्कमणे २, मीस ३ विवेगे ४ तहा विउसग्गे ५ । १६ छेअ ७ मूल ८ अणवट्टयाय ९ पारंचिए १०चेव ॥१॥" तत्र आलोचना