________________
349
शम्बूकः शङ्खस्तद्वदावर्त्तो यस्यां सा शम्बूकावर्त्ता, सा द्विविधा, अभ्यन्तरशम्बूकावर्त्ता बहिश्शम्बूकावर्त्ता च तत्राद्या शङ्खनाfreeशाकारे क्षेत्रे मध्यादारभ्य बाह्यगृहं यावदटने, अन्या तु तद्विपर्यये ॥ ५ ॥ 'आययगंतुंपञ्चागयत्ति' आयतं दीर्घ प्राञ्जलमित्यर्थः, गत्वा प्रत्यागता पष्ठी, इयं ऋजुतयाऽग्रतो गत्वा वलमानस्याटने ॥ ६ ॥ नन्वत्र गोचररूपत्वात् भिक्षाचर्यात्वमेवासां तत्कथमिह क्षेत्रावमौदर्यरूपत्वमुच्यते १ उच्यते - अवमौदर्य ममास्त्वित्याशयेन क्रियमाणत्वादव मौदर्य व्यपदेशोऽप्यत्रादुष्ट एव दृश्यन्ते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्रादयोऽनेके व्यपदेशाः । एवं पूर्वत्र प्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं बाच्यम् ॥ १९ ॥ कालाष मौदर्यमाह
उतराध्ययन
मूलम् - दिवसस्स पोरिसीणं, चउण्हंपि उ जतिओ भवे कालो । एवं चरमाणो खलु, कालोमाणं मुणेअहं ॥ २० ॥
व्याख्या– दिवसस्य पौरुषीणां चतसृणामपि तुः पूत याषान् भवेत्कालोऽभिग्रह विषय इति शेषः, एवमिति एवंप्रकारेण प्रक्रमात्कालेन 'चरमाणोत्ति' सुव्यत्यया चरतो भिक्षार्थ भ्रमतः चतसृणां पौरुषीणां मध्येऽमुकस्मिन् काले भिक्षाचर्या करिष्यामीत्येवमभिगृह्य पर्यटतः खलु निश्वितं 'कालोमाणंति' कालेन हेतुनाऽयमत्वं प्रस्तावादुदरस्य काला मत्वं, कोऽर्थः १ कालावमौदर्य मुणितव्यं ज्ञातव्यम् ॥ २० ॥ एतदेव प्रकारान्तरेणाह -
मूलम् - अहवा तहआए पोरिसीए ऊणाए घासमेसंतो । चउभागूणाए वा, एवं काले ऊ भवे ॥२१॥
व्याख्या - अथवा तृतीयपौरुप्यामूनायां ग्रासमाहारं 'एसन्तोत्ति' एषयतः कियता भागेन न्यूनायामित्याह-तुर्भागोनायां, 'बा' शब्दात् पञ्चादिभागोनायां वा, एवममुना कालविपयाभिप्रहलक्षणेन प्रकारेण चरत इत्यनुवर्त्तते, कालेन तु भवेदषमौदर्यम् । औत्सर्गिकविधिविषयं चैतत्, उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ॥ २१ ॥ भावावमौदर्यमाह-
मूलम्-इत्थी वा पुरिसो वा अलंकिओ वाऽणलंकिओ वावि । अन्नयरवयत्थो वा, अन्नयरेणं वा वत्थेणं ॥ २२ ॥
मूलम् — अन्नेण विसेसेणं, वण्णेणं भावमणुमुअंते उ । एवं चरमाणो खलु, भावोमाणं मुणेअहं २३ ॥ व्याख्या - स्त्री वा पुरुषो वा, अलङ्कृतो वा अनलङ्कृतो या, अपिः पूर्वौ, अन्यतरस्मिन् वयसि तारुण्यादौ तिष्ठतीत्यन्यतरवयःस्थो वा अन्यतरेण पट्टसूत्रमयादिना वस्त्रेणोपलक्षितः ॥ २२ ॥ 'अन्नेणेत्यादि' - अन्येन विशेषेण कुपितहसितादिनाऽवस्थाभेदेन, वर्णेन कृष्णादिनोपलक्षितो भावमुक्तरूपमेवालङ्कृतत्वादिकं 'अणुमुअंते उत्ति' अमुचन्नेष यदि दाता दास्यति तदाहं ग्रहीष्ये नान्यथेत्युपस्कारः एवं 'चरमाणोत्ति' चरतः खलु 'भावोमाणंति' भावावमौदर्य मुणितव्यम् ॥ २३ ॥ पर्यवावमौदर्यमाह
मूलम् - दवे खित्ते काले, भावंमि अ आहिआ उ जे भावा । एएहिं ओमचरओ, पज्जवचरओ भवे भिक्खू ॥ २४ ॥
व्याख्या - द्रव्येऽशनादौ, क्षेत्रे प्रामादौ, काले पौरुष्यादौ, भावे च स्त्रीत्वादौ आख्याताः कथिताः तुः पूत ये भावाः पर्याया एकसिक्थोनत्वादयः एतैः सर्वैरपि अवममुपलक्षणत्वादवमौदर्य चरतीत्यवमचरकः पर्यवचरको भवेद्भिः । इह पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तं, एवं क्षेत्रावमौदर्यादीन्यपि क्षेत्रादिप्राधान्यविवक्षया ज्ञेयानि, तत्त्वतो हि तेष्वपि द्रव्यावमौदर्यस्य सम्भवात् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनता मपेक्ष्याव मौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः ॥ २४ ॥ भिक्षाचर्यामाह - मूलम् - अट्ठविहगोअरग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अन्ने, भिक्खायरिअमाहिआ ॥२५॥
व्याख्या- 'अट्टविहगो अरग्गंति' प्राकृतत्वादष्टविधः अग्रः प्रधानोऽकल्पपरिहारेण स चासौ गोचरश्च उच्चावचकुलेवविशेषेण भ्रमणमष्टविधाप्रगोचरः, तुः पूत्त । तथा सप्तैव एपणा अभिग्रहाश्च येऽन्ये तदतिरिक्तास्ते किमित्याह- 'भिक्खायरिअमाहिअत्ति' भिक्षाचर्या वृत्तिसंक्षेपापरनामिका आख्याता कथिता । अत्राष्टौ अग्रगोचरभेदाः पेटादय एव, तेषु शम्बूकावर्त्ताया द्वैविध्यस्य पार्थक्याश्रयणात्, आयतायाश्च गमनेऽपि वलमानत्वे इव पृथग्ग्रहणात् तेषामष्टविधत्वं ज्ञेयं । ससैपणाश्वेमाः - " संसट्टमसंसट्टा २, उद्धड ३ तह अप्पलेविआ चेव ४ । उग्गहिआ ५ पग्ग