________________
उत्तराध्ययन
352 ॥ अथैकत्रिंशमध्ययनम् ॥
॥ अहम् ॥ उक्तं त्रिंशत्तममध्ययनं अथैकत्रिंशं चरणविधिसंज्ञं व्याख्यायते, अस्य चायं सम्बन्धोऽनन्तराध्ययने तप उक्तं तच्चरणवत एव सफलमिति चरणमिहोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्मूलम्-चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । चरित्ता बहू जीवा, तिण्णा संसारसागरं ॥१॥
व्याख्या-चरणस्य विधिरागमोक्तन्यायश्चरणविधिस्तं प्रवक्ष्यामि जीवस्य तुरवधारणे भिन्नक्रमस्ततः सुखावहं तु सुखायहमेव, कथमित्याह-जमित्यादि स्पष्टमिति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाह एकोनविंशत्या सूत्रैः मूलम्-एगओ विरई कुजा, एगओ अ पवत्तणं ! असंजमे निअत्तिं च, संजमे अ पवत्तणं ॥ २॥
व्याख्या-एकत एकस्माद्विरतिं कुर्यात् , एकतश्च एकस्मिन् प्रवर्तनं कुर्यादिति योगः । एतदेवाह-असंयमात् हिंसादिरूपात्, पञ्चम्यर्थे सूत्रे सप्तमी, निवृत्तिं च, संयमे च प्रवर्तनं कुर्यादित्यनुवर्तते, चकारी समुच्चये ॥२॥ मूलम्-रागहोसे अ दो पावे, पावकम्मपवत्तणे।जे भिक्खू संभई निन्चं, से न अच्छइ मंडले ॥३॥
व्याख्या-रागद्वेषौ च द्वौ पापी पापप्रकृतिरूपत्वात्पापकर्मणां ज्ञानापरणादीनां प्रवर्तको यो भिक्षुः रुणति तिरस्कुरते नित्यं स नास्ते न तिष्ठति मण्डले संसारे । एवमुत्तरसूत्रेष्वपि नित्यमित्यादि व्याख्येयम् ॥ ३॥ मूलम्-दंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले॥४॥
व्याख्या-दण्डानां चारित्रसर्वखापहारिणां त्रिकं मनोवाकायदण्डरूपं, गौरवाणां च त्रिकं ऋद्धिरससातगी। रवरूपं, शल्यानां त्रिकं मायानिदानमिथ्यात्यशल्यलक्षणं, यो भिक्षुस्त्यजति ॥ ४॥ मूलम्-दिवे अ जे उवसग्गे, तहा तेरिच्छमाणुसे।जे भिक्खू सहई निचं, से न अच्छइ मंडले ॥५॥ - व्याख्या-दिव्यांश्च हास्य १ प्रद्वेष २ परीक्षा ३ पृथग्विमात्राभि ४ देवैः कृतानुपसर्गाननुकूलप्रतिकूलक्षोमहेतून् , अत्र पृथग्विमात्राशब्देन हास्यादीनां द्विकसंयोगादय उच्यन्ते, ततो यदि कोपि हास्यद्वेषाभ्यां समुदिताभ्यां, हास्यपरीक्षाभ्यां वा, द्वेपपरीक्षाभ्यां वा, हास्यद्वेषपरीक्षाभिर्वा समुदिताभिरुपसर्गान् करोति तदा पृथग्विमात्रयेत्युच्यते । तथा 'तेरिच्छत्ति' तिरश्चामेते भय १ प्रद्वेषा २ ऽऽहारहेत्व ३ पत्यलयनरक्षा ४ हेतोस्तैः क्रियमाणत्वात्तैरश्वाः, तथा 'माणुसेत्ति' मानुपाणामेते हास १ प्रद्वेष २ परीक्षा ३ कुशीलप्रतिसेवनाहेतो ४ स्तैर्विधीयमानत्यान्मानुपकाः, द्वन्द्वे तैरश्चमानुपकास्तानुपलक्षणत्वात् आत्मसंवेदनीयांश्च घट्टन १ प्रपतन २ स्तम्भन ३ संश्लेपणो ४ वान् , वात १ पित्त २ श्लेष्म ३ सन्निपातो ४ भवान् वा यो भिक्षुः सहते सम्यगध्यास्ते ॥५॥ मूलम्-विगहाकसायसण्णाणं, झाणाणं च दुअं तहा।जे भिक्खू वजई निचं, से न अच्छइ मंडले ६
व्याख्या-यिकथाकपायसंज्ञानां प्रतीतानां प्रत्येकं चतुष्कं, 'झाणाणं चत्ति' ध्यानयोश्च द्विकं आतरौद्ररूपं तथा यो भिक्षुर्वर्जयति । ध्यानस्य चेह प्रस्तावेऽभिधानं चतुर्विधत्वात् ॥ ६॥ मूलम्-वएसु इंदियत्थेसु, समिईसु किरियासु ॥जे भिक्खू जयई निच्चं, से न अच्छइ मंडले॥७॥
व्याख्या-व्रतेषु प्राणातिपातविरमणादिषु, इंद्रियार्थेषु शब्दादिविषयेषु, समितिषु ईर्यादिषु, क्रियासु च कायिक्याधिकरणिकी-प्रापिकी-पारितापनिकी-प्राणातिपातिकीरूपासु यो भिक्षुर्यतते । व्रतसमितिषु सम्यपालनेन, माध्यस्थ्यविधानेन चेन्द्रियार्थेषु, परिहाराच क्रियासु यत्नं कुरुते ॥ ७॥
मूलम्-लेसासु छसु काएसु, छक्के आहारकारणे ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥८॥ व्याख्या-लेश्यासु कृष्णादिषु षट्सु, षट्सु कायेषु पृथिव्यादिषु, षट्के षट्रपरिमाणे आहारकारणे पूर्वोक्ते यो मिथुर्यतते, यथायोगं निरोधोत्पादनरक्षानुरोधविधानेन यनं कुरुते ॥ ८॥ मूलम्-पिंडुग्गहपडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥९॥