________________
. 353 उत्तराध्ययन व्याख्या-पिण्डावग्रहप्रतिमासु आहारग्रहणविषयाभिग्रहरूपासु संसृष्टाद्यासु पूर्वोक्तासु सप्तखिति योगः, तथा भयस्थानेषु इहलोकादिषु सप्तसु, उक्तं च-"इह १ परलोआ २ दाण ३ मकम्हा ४ ऽऽजीय ५ मरण ६ मसिलोए ७ ति” यो भिक्षुर्यतते पालनाऽकरणाभ्याम् ॥९॥ मूलम्-मएसु बंभगुत्तीसु, भिक्खुधम्ममि दसविहे।जे भिक्खू जयई निच्चं, से न अच्छह मंडले १०
व्याख्या-मदेषु जातिमदादिषु अष्टसु “जाई १ कुल २ बल ३ रूवे ४ तव ५ इस्सरिए ६ सुए ७ लाभे ८ इत्येवंरूपेषु, प्रतीतत्वाचेहान्यत्र च सूत्रे संख्यानभिधानम् । ब्रह्म ब्रह्मचर्य तस्य गुप्तिषु नवसु षसत्यादिषु, यदाहु:-"वसहि १ कह २ निसिजि ३ दिअ ४ कुइंतर ५ पुषकीलिय ६ पणीए ७ । अइमायाहार ८ विभूसणा य ९ नव बंभचेरगुसीओ ॥१॥" भिक्षुधर्मे दशविधे क्षान्त्यादिके, उक्तं च-"खंती १ महव २ अजव ३ मुत्ती ४ तव ५ संजमे ६ अबोधके । सचं ७ सोनं ८ अफिचणं ९ च मं १० च जइधम्मो ॥१॥त्ति" यो मिचर्यतते परिहारादिना ॥१०॥ मूलम्-उवासगाणं पडिमासु, भिक्खूणं पडिमासु ।जे भिक्खू जयई निच्चं, से न अच्छइ मंडले११॥
व्याख्या-उपासकानां श्रायकाणां प्रतिमाखभिग्रहविशेषरूपासु दर्शनादिषु एकादशसु, यदुक्तं-“दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सञ्चित्ते ७। आरंभ ८ पेस ९ उद्दिष्ट १० बजए समणुभूए ११ य ॥१॥" इह या प्रतिमा यावत्संख्या स्यात्सा उत्कर्पतस्तावन्मासमाना यायदेकादशी एकादशमासप्रमाणा, जघन्यतस्तु सर्वा अप्येकाहादिमानाः स्युस्तत्प्रतिपत्तेरनन्तरमेकादिभिर्दिनैः संयमप्रतिपत्त्या जीवितक्षयाद्वा । प्रथमोक्तं चानुष्ठानमप्रेतनायां सर्व कार्य यावदेकादश्यां पूर्वप्रतिमादशकोक्तमपि । तत्राद्यायां निर्दोष प्रशमादिगुणालङ्कतं कुमहाग्रहविनाकृतं सम्यक्त्वं धर्त्तव्यम् ॥ १॥ द्वितीयायां निरतिचाराणि अणुप्रतादीनि सर्वप्रतानि पालनीयानि ॥२॥ तृतीयायामवश्यमुभयसन्ध्यं सामायिक कार्यम् ॥ ३ ॥ चतुर्थ्यां चतुर्दश्यष्टम्यादिपर्वसु प्रतिपूर्णः पौपधो निरतिचारः कार्यः ॥ ४ ॥ पञ्चम्यामष्टम्यादितिथिपु पौपधमध्ये रात्रौ कायोत्सर्गः कार्यः, शेषदिनेषु च दिन एवं भोक्तव्यं न रात्रौ, दिवापि प्रकाशे एव भोक्तव्यं, अवद्धकच्छत्वं, दिवा ब्रह्मचर्य च धार्य, रात्री स्त्रीणां तद्भोगानां च प्रमाणं कार्य, कायोत्सर्गे च जिनगुणाः कामादिदोपपरिहारोपायाश्च ध्येयाः ॥ ५॥ षष्ठ्यामब्रह्मचर्य शृङ्गारकामकथादि च सर्वथा त्याज्यम् ॥ ६ ॥ सप्तम्यां सचित्ताहारस्त्याज्यः ॥ ७ ॥ अष्टम्यां स्वयमारम्भोऽपि न कार्यः॥८॥ नवम्यामन्येनाप्यारम्भो न कारणीयः ॥९॥ दशम्यां खार्थमुद्दिश्य कृतं भक्तादि त्याज्यं, तदा च क्षुरमुण्डेन शिखाधारिणा वा भाव्यम् ॥ १०॥ एकादश्यां प्रतिग्रहादिसाधूपकरणं धृत्वा लोचं क्षुरमुण्डं वा कारयित्वा श्रमणवत्सर्वमनुष्ठानं कुर्वता 'प्रतिमाप्रतिपन्नाय श्रमणोपासकाय भिक्षां दत्त' इतिभाषमाणेन प्रामादिषु मासकल्पादिविधिना विहर्त्तव्यम् ॥ ११ ॥ तथा भिक्षूणां प्रतिमासु मासिक्यादिपु द्वादशसु, आह च-"मासाई सत्ता ७ पढमा ८
तइअ १० सत्तराइदिणा । अहराइ ११ एगराई १२ भिक्खुपडिमाण बारसगं" अत्र प्रथमा एकमासिकी यावत्सप्तमी सप्तमासिकी, तदनु तिस्रः सप्तरात्रिक्यः १०, अहोरात्रिकी ११, एकरात्रिकी १२, च ॥१॥ “पडिवजइ एआओ, संघयणी धिइजुओ महासत्तो । पडिमाओ भाविअप्पा, सम्मं गुरुणा अणुण्णाओ॥" संहननं वज्रऋषभनाराचादेरन्यतरत्, धृतिर्मनःखास्थ्यं तद्युक्तः, महासत्त्व उपसर्गादौ, भावितात्मा, प्रतिमायोग्यानुष्ठानेन गुरुणाऽनुज्ञातः, अथ चेद्गुरुरेव प्रतिपत्ता तदा स्थानाचार्येण गच्छेन वाऽनुज्ञायते ॥ २॥ “गच्छेच्चिअ निम्माओ, जा पुवा दस भवे असंपुण्णा । नवमस्स तइअवत्थु, होइ जहन्नो सुआभिगमो” प्रतिपत्ता गच्छे एव तिष्ठन निर्मातः आहारादिविपये प्रतिमायोग्यपरिकर्मणि निष्ठितः, सप्तसु यावत्परिमाणा तस्यास्तत्परिमाणमेव परिकर्म । तथा न वर्षाखेताः प्रतिपद्यते, न च परिकर्म करोति । आसु चादिमं द्वयं एकत्रैव वर्षे, द्वितीयमेकैकवर्षे, अन्यास्तिस्रः अन्यान्यवर्षे, अन्यत्र वर्षे परिकर्मान्यत्र च प्रतिपत्तिः, तदेवं नवभिर्वराद्याः सप्त समाप्यन्ते । अस्य च श्रुतं जघन्यतो नवमपूर्वतृतीयवस्तुयावत् , उत्कर्पतस्तु किञ्चिदूनानि दश पूर्वाणि । सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मोपदेशेन भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमा न प्रतिपद्यते । न च पूर्वगतश्रुतं विना एताः प्रतिपद्यते, निरतिशयित्वात्कालादि न जानातीति ॥ ३॥ “वोसट्ट चत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । एसणअभिग्गहीआ, भत्तं च अलेवडं तस्स" व्युत्सृष्टः परिकर्माभावेन त्यक्तश्च ममत्वाभावे देहो येन स तथा, यथैव जिनकल्पी