Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 347
________________ 342 उत्तराध्ययन धारणा तया ऐकायं जनयति, ऐकाम्यं जनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रुततत्त्वावबोधरूपान् जनयति, वा सम्यक्त्वं विशोधयति, तत्त्वज्ञानस्य शुद्धत्वे तत्त्वविषयश्रद्धाया अपि शद्धत्वभवनात. अत एवं मिथ्यात्वं निर्जरयति ॥ ५६ ॥ ५८ ॥ मूलम्व इसमाहारणायाए णं भंते ! जीवे कि जणयह ? वइसमाहारणयाए णं वइसाहारणदसण. पजवे विसोहेइ, वइसाहारणदंसणपजवे विसोहित्ता सुलहबोहितं निवत्तेइ, दुल्लहबोहितं निजरेइ ॥ ५७ ॥ ५९ ॥ व्याख्या-वाकसमाधारणया स्वाध्याय एव याविनिवेशात्मिकया पाचां साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः, ते चेह पदार्था एव, तद्विषयाच दर्शनपर्यवा अप्युपचारात्तथोक्ताः, ततच वाक्साधारणाश्च ते दर्शनपर्यवाश्च वाक्साधारणदर्शनपर्यवाः, प्रज्ञापनीयपदार्थविषयसम्यक्त्वविशेषा इत्यर्थः, तान् विशोधयति । द्रव्यानुयोगाभ्यासात्तद्विषयशङ्कादिमालिन्यापनयनेन विशुद्धान् करोति, शेषं स्पष्टम् ॥ ५७ ॥ ५९॥ मूलम्-कायसमाहारणयाए णं भंते ! जीवे किं जणय ? कायसमाधारणयाए णं चरित्तपजवे वि. सोहेइ, चरित्तपजवे विसोहित्ता अहक्खायचरितं विसोहेइ, अहक्खायचरितं विसोहिता चत्तारिकेबलीकम्मंसे खवेइ, तओ पच्छा सिज्झाइ बुज्झइ मुश्चइ परिनिवाइ सबदुक्खाणर्मतं करेइ ॥ ५८ ॥ ६॥ ब्याख्या-कायसमाधारणया संयमयोगेषु शरीरस्य सम्यग्व्यापारणरूपया चरित्रपर्यवान् चरित्रभेदान् क्षायोपशमिकानिति गम्यते विशोधयति, तांच पिशोध्य यथाख्यातचारित्रं विशोधयति, सर्वथा ससत उत्पस्यसम्भव इति पूर्वमपि कयश्चित्सदेव तचारित्रमोहोदयमलिनं तन्निर्जरणेन निर्मलीकुरुते, शेषं प्राग्मत् ॥ ५८ ॥६० ॥ इत्थं समा. धारणात्रयात् ज्ञानादित्रयस्य विशुद्धिरुक्ता, अथ तस्यैव फलमाहमूलम्--नाणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? नाणसंपन्नयाए थे सवभावाहिगमं जणयइ, नाणसंपन्ने अ णं जीवे चाउरंते संसारकंतारे न विणस्सइ, जहा सूई ससुत्ता पडिआवि न विणस्सइ तहा जीवे ससुत्ते संसारे न विणस्सइ, नाणविणयतवचरित्तजोगे संपाउणइ, ससमयपरसमयसंघायणिजे भवइ ॥ ५९ ॥ ६१ ॥ व्याख्या-ज्ञानमिह श्रुतज्ञानं तत्सम्पन्नतया सर्वभावाभिगम सर्वपदार्थावबोषं जनयति, ज्ञानसम्पन्नभ जीवश्चतुरन्ते संसारकान्तारे न विनश्यति न मुक्तिमार्गाद्विशेषेण दूरीभवति, अमुमेवा) दृष्टान्तद्वारा स्पष्टतरमाह-यथा सूची ससूत्रा दवरकयुक्ता पतितापि कचवरादौ न विनश्यति न दूरीभवति, तथा जीवः सह सूत्रेण श्रुतेन वर्तते यःस ससूत्रः संसारे न विनश्यति । अत एव ज्ञानं चावध्यादि- विनयश्च तपश्च चारित्रयोगाश्च चारित्रव्यापाराः ज्ञानवि. नयतपश्चारित्रयोगास्तान् सम्प्राप्नोति, तथा खसमयपरसमययोः सङ्घातनीयः प्रधानपुरुपतया मीलनीयः खसमयपरसमयसङ्घातनीयो भवति, खसमयपरसमयशब्दाभ्यां चेह तद्वेदिनो ग्राह्यास्तेष्वेव मीलनसम्भवात् ॥ ५९ ॥ ६१ ॥ मूलम्-दसणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? सणसंपन्नयाए णं भवमिच्छत्तच्छेअणं करेइ, परं न विजाइ, अणुत्तरेणं णाणेणं दंसणेणं अप्पाणं संजोएमाणे सम्म भावेमाणे विहरइ ॥६०॥ ६२॥ व्याख्या--दर्शनसम्पन्नतया क्षायोपशमिकसम्यक्त्वयुक्ततया मवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदनं क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः १ क्षायिकसम्यक्त्वमवाप्नोति । ततश्च परमित्युत्तरकालं उत्कृष्टतस्तस्मिन्नेव मषे मध्यमजघन्यापेक्षया तु तृतीये तुर्ये वा जन्मनि केवलज्ञानावाप्तौ न विध्यायति ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं न प्राप्नोति, किन्त्वनुत्तरेण क्षायिकत्वात्सर्वोत्तमेन ज्ञानदर्शनेन प्रतिसमयमपरापरोपयोगरूपतयोत्पद्यमानेन

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424