Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
348
उत्तराध्ययन
व्याख्या-अयमं न्यूनमुदरं यस्यासाववमोदरस्तस्य भावोऽवमौदर्य न्यूनोदरता पञ्चधा समासेन व्याख्यातं, द्रव्यतो द्रव्याद्धेतौ पञ्चमी, क्षेत्रं च कालश्च क्षेत्रकालं तेन, भावेन पर्यायैश्वोपाधिभूतैः ॥ १४ ॥ तत्र द्रव्यत आह
मूलम्-जो जस्स उ आहारो, तत्तो ओमं तु जो करे ।
जहण्णेणेगसित्थाइ, एवं दवेण ऊ भवे ॥ १५ ॥ व्याख्या-यो यस्य तुः पूत्तौं आहारो द्वात्रिंशत्कवलादिमानः, ततः साहारादवममूनं तुः पूतौ यः कुर्यात् मुजानः इति शेषः, अयं भावः-पुरुषस्य हि द्वात्रिंशत्कवलमान आहारः, स्त्रियानाष्टाविंशतिकवलमानः । कवलबेह पस्मिन् क्षिसे मुखस्य नातिविकृतत्वं स्यात्तावन्मानो ज्ञेयः । ततश्चैतन्मानादून यो भुते यत्तदोर्नित्याभिसम्बन्धात तस्य एवममुना प्रकारेण द्रव्येणोपाधिभूतेन भवेदिति सण्टकः, अवमौदर्यमिति प्रक्रमः, एतच जघन्येनैकसिक्य यत्रैकमेव सिक्यं भुज्यते तदादि, आदिशब्दासिक्थद्वयादारभ्य यावदेककवलभोजनम् । इत्थं चाल्पाहाराहमवमीदर्यमाश्रित्योच्यते, यत उपार्दादिपु त देषु कवलनवकादिमानमेव जघन्यं स्यात्तथा च सम्प्रदायः-"अप्पाहारोमोअरिआ जहण्णेणेगकवला. उक्कोसेणं अट्ट कवला. सेसा अजहन्नमणुकोसा। उवड्डाहारोमोअरिआ जहन्नेणं नव कवला, उक्कोसेणं वारस कवला, सेसा अजहन्नमणुकोसा" इत्यादि-एतद्भेदाचामी "अप्पाहार १ उबट्टा २, हुमाग ३ पत्ता ४ तहेव किंचूणा ५ ॥ अट्ठ १ दुवालस २ सोलस ३, चउवीस ४ तहेक्कतीसा ५ य ॥१॥" अत्राष्टादिभिः संख्याशब्दरल्पाहारादीनामूनोदरताभेदानां उत्कर्षतः कयलमानमुक्तम् ॥ १५ ॥ क्षेत्रावमौदर्यमाह
मूलम्-गामे नगरे तह रायहाणि निगमे अ आगरे पल्ली ।
खेडे कब्बड-दोणमुह-पट्टण-मडंब-संवाहे ॥ १६ ॥ व्याख्या-प्रामे नगरे च प्रतीते, राजधानी च राजावस्थानस्थान निगमच प्रभूततरपणिजां नियासोऽनयोः समाहार! राजधानीनिगमं तस्मिन् , आकरे स्वर्णाधुत्पत्तिस्थाने, पल्यां वृक्षगहनाघानितप्रान्तजननिवासरूपायर्या, खेटे पांशुषप्रपरिक्षिसे, कर्बर्ट कुनगरं, द्रोणमुखं जलस्थलपथनिर्गमप्रवेशं यथा भृगुकच्छं, पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च, तत्राद्यं जलमध्यवर्ति इतरन्निर्जलभूभागभावि, मडम्बं सर्वदिक्षु अर्द्धतृतीययोजनान्तर्घामान्तररहितं, सम्बाधः प्रभूतचातुर्वण्यनिवासः, कर्वटादीनां समाहारद्वन्दूस्तस्मिन् ॥ १६ ॥ मूलम्-आसमपए विहारे, सन्निवेसे समाय-घोसे अ। थलि-सेणा-खंधारे, सत्थे संबट-कोहे अ ___ व्याख्या-आश्रमपदे तापसावसथोपलक्षितस्थाने, विहारो देवगृहं भिक्षुनिवासो या तत्प्रधानो प्रामादिरपि विहारस्तस्मिन् , संनिवेशे यात्रादिसमायातजनावासे, समाजः पथिकसमूहो घोपो गोकुलमनयोः समाहारस्तस्मिन्, चः समुच्चये स्थली प्रोचभूभागः सेना चतुरङ्गवलसमूहः स्कन्धावारः स एव वणिजादिसर्वजनयुक्तः एषां समाहारस्तस्मिन् , सार्थे गणिमधरिमादिभृतशकटादिसङ्घाते, संवर्तो भयत्रस्तजनस्थान कोट्टः प्राकारोऽनयोः समाहारस्तस्मिन् , चः समुच्चये ॥ १७ ॥
मूलम्-वाडेसु वा रत्थासु व, घरेसु वा एवमेत्तिअं खेत्तं ।
कप्पइ उ एवमाई, एवं खेत्तेण ऊ भवे ॥१८॥ व्याख्या-पाटेपु पाटेपु वा वृत्तिवरण्डकादिवेष्टितगृहसमूहात्मकेपु, रथ्यासु सेरिकासु, गृहेषु, वा सर्वत्र विकपार्थः, एवमनेन प्रकारेण 'एत्तिअंति' एतावद्विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते मम भिक्षायै पर्यटितुमिति शेषः, तुः पूत्तौं, एवमादि आदिशब्दाद्गृहशालादिपरिग्रहः, एवममुना प्रकारेण क्षेत्रेणेति क्षेत्रहेतुकं तुः पूत्तौं भवेदवमौदर्यमिति प्रक्रमः ॥ १८ ॥ पुनरन्यथा क्षेत्रावमौदर्यमाहमूलम्-पेडा य अद्धपेडा, गोमुत्ति पयंगवीहिआ चेव । संबुक्कावट्टायय-गंतुंपञ्चागया छट्ठा ॥ १९ ॥
व्याख्या-तत्र पेटा मञ्जूपा तद्वत्संलग्नसर्वदिकस्थगृहाटने पेटा ॥१॥ अर्द्धपेटा तदर्द्धभ्रमणे ॥ २॥ गोमूत्रिका तदाकारेण वामदक्षिणतो भ्रमणे ॥३॥ पतङ्गवीथिका तिडवदन्तरा बहुगृहाणि मुक्त्वा मुक्त्वा भ्रमणे ॥४॥

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424