Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 345
________________ 340 उत्तराध्ययन न्वागतो युक्तो विपुलतपसमितिसमन्वागतश्चापि भवति । पूर्वत्र समितीनां पूर्णत्वाभिधानेन सामस्त्यमुक्तमिह तु सर्वविषयव्यापित्वमिति न पौनरुक्त्यम् ॥ ४२ ॥ ४४ ॥ प्रतिरूपतायां वैयावृत्त्यादेवेष्टसिद्धिरिति तदाहमूलम्-आवञ्चेणं भंते ! जीवे किं जणयइ ? वेयावच्चेणं तित्थयरनामगो कम्मं निबंधइ ॥४३॥४५॥ व्याख्या-स्पष्टम् ॥ ४३ ॥ ४५ ॥ वैयावृत्त्येनार्हन्त्यप्राप्तिरुक्ता अहंश्च सर्वगुणसम्पन्नः स्यादिति तत्तामाहमूलम्-सत्वगुणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? सवगुणसंपन्नयाए णं अपुणरावत्तिं जण __यइ, अपुणरावत्तिपत्तए अ णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ॥४४॥ ४६॥ व्याख्या-सर्वे गुणा ज्ञानादयस्तैः सम्पन्नः सर्वगुणसम्पन्नस्तद्भावः सर्वगुणसम्पन्नता तया अपुनरावृत्तिं मुक्तिं जन च प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां नो भागी भवति, तत्कारणवपुर्मनसोरभावात् ॥ ४५ ॥ ४६ ॥ सर्वगुणवत्ता च वीतरागतायां स्यादिति तामाह-- मूलम्बीअरागयाए णं भंते ! जीवे किं जणयइ ? वीअरागयाए णं णेहाणुबंधणाणि तण्हाणु वंधणाणि अ वोच्छिदइमणुण्णामणुण्णेसु सद-फरिस-रूव-रस-गंधेसु विरजइ ॥४५॥४७॥ व्याख्या--धीतरागतया रागद्वेपापगमरूपतया नेहः पुत्रादिविषयम्तद्रूपाण्यनुवन्धनानि अनुकूलबन्धनानि स्नेहानुबन्धनानि, तृष्णालोभम्तद्रूपाण्यनुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्दादिपु विरज्यते, कपायप्रत्याख्यानेनैव गतत्वेऽपि वीतरागतायाः पृथगुपादानं रागस्यैव सकलानर्थमूलत्वख्यापनार्थम् ॥४५॥४७॥ वीतरागत्वस्य च क्षान्तिर्मूलमिति तामाह मूलम्-खंतीए णं भंते ! जीवे किं जणयइ ? खंतीए णं परीसहे जिणइ ॥ ४६ ॥४८॥ व्याख्या-क्षान्तिः क्रोधजयस्तया परीषहानद्वधादीन् जयति॥४६॥४८॥क्षान्तिश्च मुक्त्या दृढा स्यादिति तामाहमूलम-मुत्तीए णं भंते ! जीवे किं जणयइ ? मुत्तीए णं अकिंचणं जणयइ, अकिंचणे अ जीवे अत्थलोलाणं पुरिसाणं अपत्थणिज्जे हवइ ॥४७॥ ४९॥ व्याख्या-मुक्त्या निर्लोभतया 'अकिंचणंति' आकिञ्चन्यं निःपरिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थलोलानां पुरुषाणां चौरादीनामप्रार्थनीयः पीडयितुमनभिलपणीयो भवति ॥ ४७ ॥ ४९ ॥ लोभाभावे च मायाकरणकारणाभावात्तदभावोऽपि स्यादित्यार्जवमाहमूलम्-अजवयाए णं भंते ! जीवे किं जणयइ ? अजवयाए णं काउज्जुअयं भावुज्जुअयं भासु ज्जुअयं अविसंवायणं जणयइ, अविसंवायणसंपन्नयाए अ णं जीवे धम्मस्स आराहए भवइ ॥४८॥५०॥ व्याख्या-'अजययाएत्ति' आर्जयेन मायाभावेन कायर्जुकतां कुब्जादिवेपभ्रूविकाराद्यकरणाद्वपुःप्राजलतां, भावर्जुकतां यदन्यद्विचिन्तयन् लोकभक्त्यादिनिमित्तमन्यद्भापते करोति वा तत्परिहाररूपां, भाषर्जुकता यदुपहासादिहेतोरन्यदेशभापया भापणं तत्परित्यागात्मिका, तथा अविसंवादनं पराविप्रतारणं जनयति । अविसंवादनसम्पन्नतया उपलक्षणत्वात्कायर्जुकतादिसम्पन्नतया च जीवो धर्मस्याराधको भवति, भवान्तरेऽपि तदवाः ॥४९॥ ॥ ५० ॥ ईदृशगुणम्यापि विनयादेवेष्टमिद्धिः, स च मार्दवादेवेति तदाह मूलम-मद्दवयाए णंभंते!जीवे किं जणयइ ? मद्दवयाए णं मिउमद्दवसंपन्ने अट्टमयट्ठाणाई निट्ठवेइ ॥ ४९ ॥ ५१ ॥ . व्याख्या-माईवेन गम्यमानत्वादभ्यस्यमानेन मृदुर्द्रव्यतो भावतश्चावनमनशीलस्तस्य यन्माईवं सदा सौकुमार्य तेन सम्पन्नो मृदुमाईवसम्पन्नोऽष्टमदस्थानानि क्षपयति ॥ ४९ ॥५१॥ माईवं च तत्त्वतः सत्यस्थितस्यैव स्यात् तत्रापि भावमयं प्रधानमिति तदाह

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424