Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
327
उतराध्ययन
यक्ष 'रोएर उत्ति' रोचते एव श्रद्दधात्येव अन्यस्मादश्रुत्वापि जातिस्मरणादिनाधिगतान् जीवादीनिति गम्यते, 'निसग्गोत्ति' स निसर्गरुचिज्ञेयः ॥ १७ ॥ अमुमेवार्थ स्पष्टतरमाह
मूलम् — जो जिणदिट्ठे भावे, चउबिहे सद्दहइ सयमेव । एमेव नन्नहत्ति अ, निस्सग्गरुइत्ति नायवो ॥ १८ ॥
व्याख्या - यो जिनदृष्टान् भावान् चतुर्विधान् द्रव्य क्षेत्रका लभाव भेदैर्नामादिभेदैर्वा श्रद्दधाति स्वयमेव परोपदेशं विना, कथं श्रद्धातीत्याह - एवमेवैतद्यथा जिनैर्दृष्टं जीवादि नान्यथेति भावः, चः समुच्चये, स निसर्गरुचिरिति ज्ञेयः ॥ १८ ॥ उपदेशरुचिमाह -
मूलम् - एए चेव उ भावे, उवइट्ठे जो परेण सद्दहई । छउमत्थेण जिणेण व, उवएसरुइत्ति नायबो १९
व्याख्या - एतांश्चैवानन्तरोक्तान् भावान् जीवादीन् तुः पूरणे उपदिष्टान् यः परेणान्येन श्रद्दधाति कीदृशेन परेणेत्याह-छद्मस्थेनानुत्पन्न केवलज्ञानेन जिनेन वा सआत केवलेन, स उपदेशरुचिरिति ज्ञातव्यः ॥ १९ ॥ अथ आज्ञारुचिमाह -
मूलम् - रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । आणाए रोअंतो, सो खलु आणा रुई नाम २०
व्याख्या - रागो द्वेषो मोहः शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्यापगतं भवति, सर्वथा चास्य रागद्वेषाद्यपगमासम्भवाद्देशत इति गम्यते, एतदपगमाच 'आणाएत्ति' आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः कापि कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो मापतुपादिवत् स खलु निश्चितमाज्ञारुचिर्नामेत्यभ्युपगन्तव्यः॥२०॥ सूत्ररुचिमाह
मूलम् - जो सुत्तम हिजंतो, सुरण ओगाहई उ सम्मत्तं । अंगेण वाहिरेण व, सो सुत्तरुइति नायवो २१
व्याख्या - यः सूत्रमधीयानः पठन् श्रुतेनाधीयमानेनावगाहते प्राप्नोति तुः पूर्त्तं सम्यक्त्वं, अङ्गेनाचारादिना बाह्येन चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ॥ २१ ॥ बीजरुचिमाहमूलम् - एगेण अणेगाई, पयाईं जो पसरई उ सम्मत्तं । उदए व तिलबिंदू, सो बीअरुइत्ति नायवो ॥ २२ ॥
व्याख्या – एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाई पयाइंति' विभक्तिव्यत्ययादनेकेषु पदेषु अजीवादिषु यः प्रसरति 'सम्मत्तंति' सम्यक्त्ववानात्मा, इह सम्यक्त्वशब्देन तदभिन्नस्य सम्यक्त्ववतो जीवस्य ग्रहणात्, उदक इव तैलबिन्दु:, यथोदकैकदेशगतोऽपि तैलविन्दुः समग्रमुदकमाक्रामति तथैकदेशोत्पन्नरुचिर्यो जीवस्तथाविधक्षयोपशमादशेषतत्वेषु रुचिमान् भवति, स एवंविधो वीजरुचिरिति ज्ञातव्यः ॥ २२ ॥ अभिगमरुचिमाह -
मूलम् - सो होई अभिगमरुई, सुअनाणं जेण अत्थओ दिहं ।
एक्कारसअंगाई, पइण्णगं दिट्टिवाओ अ ॥ २३ ॥
व्याख्या—स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थतो दृष्टमुपलब्धं, किं तत् श्रुतज्ञानमित्याह - एकादशाङ्गानि, प्रकीर्णकमिति जातावेकवचनं ततः प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादो द्वादशमनं च शब्दादुपाङ्गानि च उपपातिकादीनि ॥ २३ ॥ विस्ताररुचिमाह -
मूलम् — दव्वाणं सवभावा, सबपमाणेहिं जस्स उवलद्धा। सङ्घाहिं नयविहिहि अ, वित्थाररुइत्ति नायवो२४ व्याख्या-द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वादयोऽशेषपर्यायाः सर्वप्रमाणैः प्रत्यक्षादिभिर्यस्योपलब्धाः, प्रत्यक्षादीनां मध्ये यत्र यस्य व्यापारस्तेनैव प्रमाणेन ज्ञाता भवन्ति, 'सङ्घाहिंति' सर्वैर्नयविधिभिर्नैगमादिनयभेदैः, चः समुच्चये, स विस्ताररुचिर्ज्ञातव्यः ॥ २४ ॥ क्रियारुचिमाह—
मूलम् — दंसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु ।
जो किरिआ भावरुई, सो खलु किरिआरुई नाम ॥ २५ ॥ व्याख्या — दर्शनज्ञानचरित्रे तपोविनये सत्याश्चताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः,

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424