Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 335
________________ 330 उत्तराध्ययन मूलम्-खवित्ता पुवकम्माइं, संजमेण तवेण य। सवदुक्खप्पहीणठ्ठा, पक्कमंति महेसिणोत्ति बेमि ३६ व्याख्या-'सचदुक्खप्पहीणत्ति' सर्वैः दुःखैः प्रहीणः सर्वदुःखप्रहीणो मोक्षस्तमर्थयन्ति ये ते सर्वदुःखप्रहीणार्थाः, यद्वा प्रक्षीणानि सर्वदुःखानि अर्थाश्च कार्याणि येषां ते तथा प्रक्रामन्ति गच्छन्ति मुक्तिमिति शेषः 'महेसिणोत्ति' महर्पय इति सूत्रार्थः ॥ ३६ ॥ इति ब्रवीमीति प्राग्वत् ॥ MARRERARYAAVARARIAOACOOR.COMANORARIOMEONEDRIED म इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय टि या श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्यनसूत्रवृत्ती अष्टाविंशमध्ययनं सम्पूर्णम् ॥ २८ ॥ MS ॥ अथ एकोनत्रिंशमध्ययनम् ॥ अहं ॥ व्याख्यातमष्टाविंशमध्यनं, अथ सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशमारभ्यते । अस्स चायं सम्बन्धोऽनन्तराध्ययने मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽनेनाभिधीयते । इति सम्बन्धस्यास्पेदमादिसूत्रम्मूलम्-सुअं मे आउसं ! तेणं भगवया एवमक्खायं, इह खलु सम्मत्तपरक्कमे नामज्झयणे सम णेणं भगवया महावीरेणं कासवेणं पवेइए । जं सम्मं सहहित्ता पत्तिआइत्ता रोअइत्ता फासित्ता पालइत्ता तीरइत्ता किदृइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिझति बुझंति मुच्चंति परिनिवायंति सबदुःखाणमंतं करेंति ॥१॥ व्याख्या-श्रुतं मे मया आयुष्मन्निति शिष्यामंत्रणं, एतच सुधर्मखामी जम्बूखामिनमाह, तेन जगत्रयप्रतीतेन भगवता प्रक्रमात् श्रीमहावीरेण 'एवमिति' वक्ष्यमाणप्रकारेणाख्यातं, तमेव प्रकारमाह-इहास्मिन् प्रवचने खलु निश्चितं सम्यक्त्वे सति पराक्रम उत्तरोत्तरगुणप्रतिपत्या कर्मारिजयसामर्थ्यरूपोऽर्थाजीवस्य वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रमं नामाध्ययनमस्तीति शेषः । तञ्च केन प्रणीतमित्याह-श्रमणेन भगवता महावीरेण काश्यपेन श्रीवर्द्धमानखामिनैव प्रवेदितं, स्वतोविदितमेव भगवता ममेदमाख्यातमिति भावः । अस्यैव माहात्म्यमाह-जंति' यत्प्रस्तुताध्ययनं सम्यक अवैपरीत्येन 'श्रद्धाय' शब्दार्थो भयरूपं सामान्येन प्रतिपद्य, 'प्रतीत्य' विशेषत इदमित्थमेवेति निश्चित्य, 'रोचयित्वा' तत्पठनादिविषयममिलापमात्मन उत्पाद्य, 'स्पृष्ट्वा' योगत्रिकेण तत्र मनसा सूत्रार्थयोश्चिन्तनेन वचसा वाचनादिना कायेन भङ्गकरचनादिना, 'पालयित्वा' परावर्तनादिनाऽभिरक्ष्य, 'तीरयित्वा' अध्ययनादिना परिसमाप्य, 'कीर्तयित्वा' गुरोविनयपूर्वकमिदमित्थं मयाधीतमिति निवेद्य, 'शोधयित्वा' गुरुवदनुभाषणादिना शुद्धं विधाय, 'आराध्य' उत्सूत्रप्ररूपणा परिहारेण उत्सर्गापवादकुशलतया वा यावजीवं तदर्थासेवनेन वा । मचेदं खवुध्या शुभावहमित्याह-आज्ञया गरुनियोगरूपयाऽनपाल्य सततमासेव्य बहवो जीवाः 'सिध्यन्ति इहै. वागमसिद्धत्वादिना 'बुध्यन्ते' घातिकर्मक्षयेण 'मुच्यन्ते भवोपग्राहिकर्मचतुष्कक्षयेण ततश्च 'परिनिर्वान्ति' सकलकर्मट नलोपशमेन अत एव सर्वदुःखानां शारीरमानसानां अन्तं पर्यन्तं कुर्वन्ति मुक्तिपदप्राप्त्येति सूत्रार्थः ॥१॥ अथ शिष्यानुग्रहार्थ सम्बन्धाभिधानपूर्वकं प्रस्तुताध्ययनार्थमाहमूलम्-तस्स णं अयम? एवमाहिजइ, तंजहा-संवेगे १, निवेए २, धम्मसद्धा ३, गुरुसाहम्मि यसुस्सूसणया ४, आलोअणया ५, निंदणया ६, गरिहणया ७, सामाइए ८, चउवीस

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424