Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
325 उत्तराध्ययन आभिनिवोधिकं मतिज्ञानं, अवधिज्ञानं तृतीयं, 'मणनाणंति' मनःपर्यायज्ञानं, चः समुच्चये भिन्नक्रमस्ततः केवलं चेति । आह-नन्द्यादौ मतिज्ञानानन्तरं श्रुतमुक्तं तदिहादौ कुतः श्रुतोपादानं ? उच्यते । शेषज्ञानानामपि खरूपज्ञानं प्रायः श्रुताधीनमिति तस्य प्राधान्यख्यापनार्थ पूर्व तदुपादानमिति सूत्रार्थः ॥ ४ ॥ अथ ज्ञानस्य विषयमाह-- मूलम्-एअं पंचविहं नाणं, दवाण य गुणाण य । पजवाणं च सवेसिं, नाणं नाणीहिं देसि ॥ ५॥
व्याख्या-एतत्पञ्चविधं ज्ञानं द्रव्याणां च जीवादीनां, गुणानां च सहभाविनां रूपादीनां, पर्यवाणां च क्रमभाविना नवत्वपुराणत्वादीनां द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलज्ञानापेक्षया चेह सर्वशब्दोपादानं, शेषज्ञानानां प्रतिनियतपर्यायग्राहित्वात् । 'नाणंति' ज्ञायतेऽनेनेति ज्ञानं अवबोधकं ज्ञानिभिरर्थात्केवलिभिर्देशितं कथितम् ॥ ५ ॥ अनेन द्रव्यादिकं ज्ञानस्य विषय इत्युक्तं तत्र द्रव्यादिः किं लक्षणमित्याहमूलम्-गुणाणमासओ दवं, एगदवस्सिआ गुणा । लक्खणं पज्जवाणं तु, उभओ अस्सिआ भवे॥६॥
व्याख्या-गुणानामाश्रयो द्रव्यं, अनेन रूपादय एव वस्तु न तद्यतिरिक्तमन्यदस्तीति सुगतमतमपास्तं । तथा एकस्मिन् द्रव्ये आधारभूते आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन तु ये द्रव्यमेवेच्छन्ति न तद्यतिरिक्तान् रूपादींस्तन्मतमवमतं । लक्षणं पर्यवाणां तु पुनः उभयोईयोः प्रक्रमाव्यगुणयोराश्रिताः भवेत्ति' भवेयुः ॥६॥ गुणानामाश्रयो द्रव्यमित्युक्तं तत्र द्रव्यं कतिभेदमित्याह
मूलम्-धम्मो अहम्मो औगासं, कालो पोग्गल-जंतवो।
एस लोगुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ॥७॥ व्याख्या-धर्मो धर्मास्तिकायः, अधर्मोऽधर्मास्तिकायः, आकाशमाकाशास्तिकायः, कालो अद्धा समयाद्यात्मकः, पुद्गलजन्तवः इति पुद्गलास्तिकायो जीवास्तिकायश्व, एतानि द्रव्याणि ज्ञेयानीयध्याहारः । अत्र प्रसङ्गालोकखरूपमप्याह-एपोऽनन्तरोक्तद्रव्यसमूहो लोक इति प्रज्ञप्तो जिनैरदर्शिभिः ॥ ७ ॥ धर्मादीन्येव द्रव्याणि भेदत आह-- मूलम्-धम्मो अहम्मो आगासं, दवं इकिकमाहि । अणंताणि अदवाणि, कालो पुग्गलजंतवो॥८॥ ___ व्याख्या-धर्मः अधर्म आकाशं द्रव्यमेकैकमाख्यातं जिनैरिति शेषः, अनन्तानि च पुनम्याणि कालः पुगलजन्तवश्च । कालस्य चानन्त्यमतीतानागतापेक्षयेति ॥ ८॥ द्रव्याणां लक्षणान्याहमूलम्-गइलक्खणो उ धम्मो, अहम्मो ठाणलक्षणोभायणं सवदवाणं, नहं ओगाहलक्खणं ॥९॥ ___ व्याख्या-गतिर्देशान्तरप्राप्तिः सा लक्षणमस्येति गतिलक्षणः, तुः पूत्तौं, धर्मो धर्मास्तिकायः। अधर्मोऽधर्मास्तिकायः स्थानं स्थितिस्तलक्षणः । अयं भावः-खत एव गमनं प्रति प्रवृत्तानां जीवपुद्गलानां गत्युपष्टम्भकारी धर्मास्तिकायः, स्थितिपरिणतानां तु तेषां स्थितिक्रियोपकारी अधर्मास्तिकाय इति । भाजनमाधारः, सर्वद्रव्याणां नमः आकाशं, अवगाहोऽवकाशस्तलक्षणं । जीवादीनामवगाढं प्रवृत्तानां अवकाशदमाकाशमिति भावः ॥९॥
मूलम्-वत्तणालक्खणो कालो, जीवो उवओगलक्खणो।
नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ १० ॥ व्याख्या-वर्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्तना, सा लक्षणमस्येति वर्तनालक्षणः कालो द्रुमादिपुष्पोझेदादिनयत्यहेतुः । जीवो जन्तुरुपयोगो मतिज्ञानादिलक्षणमस्येत्युपयोगलक्षणः, अत एव ज्ञानेन विशेपग्राहिणा दर्शनेन च सामान्यविषयण सुखेन दुःखेन च लक्ष्यत इति गम्यते ॥१०॥ अथ शिष्याणां दृढतरसंस्कारार्थमुक्तं लक्षणमनुद्य लक्षणान्तरमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरिअं उवओगो अ, एअंजीवस्स लक्खणं॥११॥
व्याख्या-वीरिअंति' वीर्य सामर्थ्य, उपयोगो अवहितत्वं, एतत् जीवस्य लक्षणं । अनेन हि जीवोऽनन्यसाधारणतया लक्ष्यते ॥ ११ ॥ अथ पुद्गललक्षणमाह

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424