Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 329
________________ 324 उत्तराध्ययन व्याख्या-यादृशाः मम शिष्याः तुः पूरणे तादृशा गलिगईभा यदि पर भवेयुरिति गम्यते, न त्वन्यः कोप्येषामोपम्यं लभते इति भावः, गईभग्रहणमतिकुत्साख्यापकं, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः । यतश्चैवमतो गलिगईभान् गलिगईभसन्निभान् दुश्शिष्यान् त्यक्त्वा दृढं बाढं प्रगृहाति गर्गाचार्यस्तपोऽनशनादीति ॥ १६ ॥ एतदेवाहमूलम्-मिउ महवसंपन्ने, गंभीरे सुसमाहिए । विहरइ महिं महप्पा, सीलभूएण अप्पणत्ति बेमि १७ व्याख्या-मृदुर्बहिर्वृत्या विनयवान् , माईवसम्पन्नो मनसापि तादृश एव, गम्भीरोऽलब्धमध्यः, सुसमाहितः सुहुसमाधिमान् , विहरति महीं महात्मा शीलं चारित्रं भूतः प्राप्तः शीलभूतस्तेनात्मना उपलक्षितो यतथैवं खलुकताऽऽ. त्मनो गुरूणां च इहैयासमाधिहेतुरतस्यां विहायाशठतैष सेवनीयेत्यध्ययनतत्त्वार्थः ॥ इति प्रबीमीति प्राग्वत् ॥ १७ ॥ ക്ടറുമായി इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभाषषिजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रसौ सप्तर्षिशमध्ययनं सम्पूर्णम् ॥ २७॥ न्हाळ्ळसळहळळळभन्न्न् ॥ अथ अष्टाविंशमध्ययनम् ॥ ॥ अहम् ॥ उक्तं सप्तविंशमध्यवनमथ मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते । अस चार्य सम्बन्धोऽनन्तराभ्ययने शठतात्यागेनाशठता स्वीकार्येत्युक्तं, अशठेन च सुप्रापैष मोक्षमार्गगतिरिति तदमिधापकमिदं प्रस्तूयते, इति सम्ब. म्घस्सायेदमादि सूत्रम् ॥ मूलम्-मोक्खमग्गगई तचं, सुणेह जिणभासि । चउकारणसंजुतं, नाणदंसणलक्खणं ॥ १॥ व्याख्या-मोक्षः सकलकर्मक्षयः तस्य मार्गो ज्ञानादिरूपो मोक्षमार्गस्तेन गतिः सिद्धिगमनरूपा मोक्षमार्गगतिस्ता कथ्यमानामिति गम्यं, तथ्यां सत्यां शृणुत जिनभाषिताम् । चत्वारि कारणानि वक्ष्यमाणानि ज्ञानादीनि तैः संयुक्ता चतुष्कारणसंयुक्ता तां । ननु अमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं चतुष्कारणवतीत्वमस्याः १ उच्यते-व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात् । तथा ज्ञानदर्शने विशेषसामान्योपयोगरूपे लक्षणे यस्याः सा तथा तामिति सूत्रार्थः ॥ १॥ यदुक्तं मोक्षमार्गगतिं शृणुतेति, सत्र मोक्षमार्ग तावदाहमूलम्–णाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मग्गुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ॥२॥ ___ व्याख्या-ज्ञानं ज्ञानावरणीयकर्मक्षयक्षयोपशमाविर्भूतं सम्यक ज्ञानं मत्यादिभेदं, दर्शनं दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्थमर्हदुक्तजीवादितत्वरुचिरूपं क्षायिकादिभेदं, चारित्रं चारित्रमोहक्षयादिसम्भवं सामायिकादिभेदं सदसक्रियाप्रवृत्तिनिवृत्तिरूपं, तपो बाह्याभ्यन्तरभेदभिन्नं जिनोक्तमेव । सर्वत्र चकारस्तथेति च समुच्चये, समुच्चयश्चेह समुदितानामेषां मुक्तिमार्गवख्यापकः । एष मार्ग इति प्रज्ञतो जिनैर्वरदर्शिभिः। अत्र च चारित्रान्तर्गतत्वेऽपि तपसो भेदेनोपादानं अस्यैव कर्मक्षपणं प्रति परमकारणत्वसूचकमिति सूत्रार्थः ॥२॥ अथास्यैवानुवादद्वारेण फलं दर्शयितुमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा। एअं मग्गमणुपत्ता, जीवा गच्छंति सोग्गइं ॥३॥ व्याख्या-'एअंति' एतमनन्तरोक्तं मार्ग अनुप्रासा आश्रिता जीवा गच्छन्ति सुगति मुक्तिरूपामिति सूत्रार्थः ॥ ३ ॥ ज्ञानादीन्येव क्रमेणाभिधातुमाहमूलम्-तत्थ पंचविहं नाणं, सुअं आभिणिवोहि।ओहिणाणं च तइ, मणनाणं च केवलं ॥४॥ व्याख्या-तत्र तेषु ज्ञानादिषु मध्ये पञ्चविधं पञ्चप्रकारं ज्ञानं, के ते पञ्चप्रकाराः १ इत्याह-श्रुतं श्रुतज्ञानं,

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424