________________
324
उत्तराध्ययन व्याख्या-यादृशाः मम शिष्याः तुः पूरणे तादृशा गलिगईभा यदि पर भवेयुरिति गम्यते, न त्वन्यः कोप्येषामोपम्यं लभते इति भावः, गईभग्रहणमतिकुत्साख्यापकं, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः । यतश्चैवमतो गलिगईभान् गलिगईभसन्निभान् दुश्शिष्यान् त्यक्त्वा दृढं बाढं प्रगृहाति गर्गाचार्यस्तपोऽनशनादीति ॥ १६ ॥ एतदेवाहमूलम्-मिउ महवसंपन्ने, गंभीरे सुसमाहिए । विहरइ महिं महप्पा, सीलभूएण अप्पणत्ति बेमि १७
व्याख्या-मृदुर्बहिर्वृत्या विनयवान् , माईवसम्पन्नो मनसापि तादृश एव, गम्भीरोऽलब्धमध्यः, सुसमाहितः सुहुसमाधिमान् , विहरति महीं महात्मा शीलं चारित्रं भूतः प्राप्तः शीलभूतस्तेनात्मना उपलक्षितो यतथैवं खलुकताऽऽ. त्मनो गुरूणां च इहैयासमाधिहेतुरतस्यां विहायाशठतैष सेवनीयेत्यध्ययनतत्त्वार्थः ॥ इति प्रबीमीति प्राग्वत् ॥ १७ ॥ ക്ടറുമായി
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभाषषिजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रसौ सप्तर्षिशमध्ययनं सम्पूर्णम् ॥ २७॥ न्हाळ्ळसळहळळळभन्न्न्
॥ अथ अष्टाविंशमध्ययनम् ॥
॥ अहम् ॥ उक्तं सप्तविंशमध्यवनमथ मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते । अस चार्य सम्बन्धोऽनन्तराभ्ययने शठतात्यागेनाशठता स्वीकार्येत्युक्तं, अशठेन च सुप्रापैष मोक्षमार्गगतिरिति तदमिधापकमिदं प्रस्तूयते, इति सम्ब. म्घस्सायेदमादि सूत्रम् ॥ मूलम्-मोक्खमग्गगई तचं, सुणेह जिणभासि । चउकारणसंजुतं, नाणदंसणलक्खणं ॥ १॥
व्याख्या-मोक्षः सकलकर्मक्षयः तस्य मार्गो ज्ञानादिरूपो मोक्षमार्गस्तेन गतिः सिद्धिगमनरूपा मोक्षमार्गगतिस्ता कथ्यमानामिति गम्यं, तथ्यां सत्यां शृणुत जिनभाषिताम् । चत्वारि कारणानि वक्ष्यमाणानि ज्ञानादीनि तैः संयुक्ता चतुष्कारणसंयुक्ता तां । ननु अमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं चतुष्कारणवतीत्वमस्याः १ उच्यते-व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात् । तथा ज्ञानदर्शने विशेषसामान्योपयोगरूपे लक्षणे यस्याः सा तथा तामिति सूत्रार्थः ॥ १॥ यदुक्तं मोक्षमार्गगतिं शृणुतेति, सत्र मोक्षमार्ग तावदाहमूलम्–णाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मग्गुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ॥२॥ ___ व्याख्या-ज्ञानं ज्ञानावरणीयकर्मक्षयक्षयोपशमाविर्भूतं सम्यक ज्ञानं मत्यादिभेदं, दर्शनं दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्थमर्हदुक्तजीवादितत्वरुचिरूपं क्षायिकादिभेदं, चारित्रं चारित्रमोहक्षयादिसम्भवं सामायिकादिभेदं सदसक्रियाप्रवृत्तिनिवृत्तिरूपं, तपो बाह्याभ्यन्तरभेदभिन्नं जिनोक्तमेव । सर्वत्र चकारस्तथेति च समुच्चये, समुच्चयश्चेह समुदितानामेषां मुक्तिमार्गवख्यापकः । एष मार्ग इति प्रज्ञतो जिनैर्वरदर्शिभिः। अत्र च चारित्रान्तर्गतत्वेऽपि तपसो भेदेनोपादानं अस्यैव कर्मक्षपणं प्रति परमकारणत्वसूचकमिति सूत्रार्थः ॥२॥ अथास्यैवानुवादद्वारेण फलं दर्शयितुमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा। एअं मग्गमणुपत्ता, जीवा गच्छंति सोग्गइं ॥३॥
व्याख्या-'एअंति' एतमनन्तरोक्तं मार्ग अनुप्रासा आश्रिता जीवा गच्छन्ति सुगति मुक्तिरूपामिति सूत्रार्थः ॥ ३ ॥ ज्ञानादीन्येव क्रमेणाभिधातुमाहमूलम्-तत्थ पंचविहं नाणं, सुअं आभिणिवोहि।ओहिणाणं च तइ, मणनाणं च केवलं ॥४॥ व्याख्या-तत्र तेषु ज्ञानादिषु मध्ये पञ्चविधं पञ्चप्रकारं ज्ञानं, के ते पञ्चप्रकाराः १ इत्याह-श्रुतं श्रुतज्ञानं,