________________
323
उत्तराध्ययन
व्याख्या——खलुका यादृशा योज्या दुःशिष्या अपि तादृशा एव, हुरेवकारार्थोऽत्र योज्यः । कुत इत्याह-यतो योजिता धर्मयाने भज्यन्ते, न सम्यक् प्रवर्त्तन्ते, 'धिइदुब्बलत्ति' आर्षत्वाद्दुर्बलधृतयः कृशस्थैर्या धर्मानुष्ठाने इति गम्यम् ॥ ८ ॥ धृतिदौर्बल्यमेव स्पष्टयितुमाह
मूलम् - इड्डीगारविए एगे, एगेऽस्थ रसगारवे । सायागारविए एगे, एगे सुचिरको ॥ ९ ॥
व्याख्या - ऋध्या गौरवं ऋद्धिमन्तः श्राद्धा मे वश्याः सम्पद्यते च चिन्तितमुपकरणादि इत्याद्यात्मबहुमानरूपं ऋद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविक एको नास्मन्नियोगे प्रवर्त्तते । एकोऽत्रेति कुशिष्याधिकारे, रसेषु मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोर्न प्रवर्त्तते । सातगौरविक एकः, सुखप्रतिबद्धो नाऽप्रतिबद्ध - विहारादौ प्रवर्त्तते । एकः सुचिरक्रोधनो दीर्घरोषतयैव कृत्येषु न प्रवर्त्तते ॥ ९ ॥
मूलम् - भिक्खालसीए एगे, एगे ओमाणभीरुए थद्धे । एगं च अणुसासम्मि, हेऊहिं कारणेहि अ ॥ १० ॥ व्याख्या - भिक्षालसिको मिक्षालस्यवानेको न गोचरात्रं गच्छति, एकोऽपमानभीरुर्भिक्षां भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमीहते, स्तब्धोऽहङ्कारवान्न निजकुग्रहान्नमयितुं शक्य एक इति शेषः, एकं च दुःशिष्यं 'अणुसासम्मित्ति' अनुशास्मि अहं हेतुभिः कारणैश्वोक्तरूपैः ॥ १० ॥
मूलम् - सोवि अंतरभासिलो, दोसमेव पकुवइ । आयरिआणं तं वयणं, पडिकूलेइ अभिक्खणं ॥११॥
व्याख्या - सोऽप्यनुशिष्यमाणः कुशिष्यः 'अंतरभासिलोत्ति' अन्तरभापावान् गुरुवाक्यान्तराल एव स्वाभिमतमाषको दोषमेवापराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि तद्विच्छेदमिति भावः । आचार्याणां सतामस्माकं तचनं शिक्षावचनं प्रतिकूलयति विपरीतं करोति कुयुक्तिभिरभीक्ष्णम् ॥ ११ ॥ कथमित्याह-
मूलम् — न सा ममं विआणाइ, नवि सा मज्झ दाहि ।
निग्या होहिई मन्ने, साहू अन्नोऽत्थ वञ्च ॥ १२ ॥
व्याख्या - न सा मां विजानाति, अयं भावः-अमुकस्याः श्राविकाया गृहात् ग्लानाद्यर्थं पथ्याद्यानीयतामिति कदाचिदस्माभिरुक्तोऽप्यसौ शाठ्येनोत्तरमाह - न सा मां प्रत्यभिजानाति, नापि सा महां दास्यति पथ्यादीति शेषः, यदि वा निर्गता गृहात्सा भविष्यतीति मन्ये, इति वक्ति । अथवा साधुरन्योऽत्रास्मिन् कार्ये व्रजतु, किमहमेवैकः साधुरस्मीत्यादि ब्रूते ॥ १२ ॥ अन्यश्च
मूलम् - पेसिआ पलिउंचंति, ते परियंति समंतओ। रायविट्ठि व मन्नंता, करिति भिउडिं मुहे ॥ १३ ॥
व्याख्या -- प्रेषिताः क्वचित्कार्ये 'पलिउंचतित्ति' तत्कार्य कुतो न कृतमिति पृष्टाः सन्तोऽपहवते, कदा वयमुक्ताः १ गता वा तत्र वयं न त्वसौ दृष्टेति । ते कुशिष्याः 'परियंति' पर्यटन्ति समन्ततः सर्वासु दिक्षु न त्वस्मत्पार्श्वे तिष्ठन्ति मा कदाचिदेषां किञ्चित्कृत्यं कर्त्तव्यं भविष्यतीति । कथञ्चित्कर्त्तुं प्रवर्त्तितास्तु राजवेष्टिमिव मन्यमानाः कुर्वन्ति भ्रकुटिं मुखे । सकलवपुर्विकारोपलक्षणमेतत् ॥ १३ ॥ अपरश्च
मूलम् - वाइआ संगहिआ चेव, भत्तपाणेण पोसिआ। जायपक्खा जहा हंसा, पक्कमंति दिसोदिसं ॥१४॥
व्याख्या - वाचिताः सूत्रं पाठिताः, उपलक्षणत्वात्तदर्थं च ग्राहिताः । सङ्गृहीताः परिगृहे कृताः, चशब्दादीक्षिताः स्वयमिति गम्यते, एवेति पूरणे । भक्तपानेन पोषिताः । तथापि जातपक्षाः यथा हंसास्तथैव प्रक्रामन्ति दिशो दिशं दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बहूनामभिधानं तदीदृशां बहुत्वख्यापनार्थमिति सूत्रपट्कार्थः ॥ १४ ॥ इत्थं कुशिष्यस्वरूपं विचिन्त्य तैरेवासमाधिं खेदं च प्रापितो यदसौ चक्रे तदाहमूलम् - अह सारही विचिंतेइ, खलुंकेहिं समागओ। किं मज्झ दुट्ठसीसेहिं, अप्पा मे अवसीअइ ॥ १५ ॥
व्याख्या -- अथेति पूर्वोक्तचिन्तानन्तरं सारथिरिव सारथिर्द्धर्मयानस्येति प्रक्रमः, गर्गाचार्यो विचिन्तयति, खलुकैः कुशिष्यैः समागतः संयुक्तः किं ? न किञ्चिदित्यर्थः, मम प्रयोजनं सिध्यतीति शेषः, दुष्टशिष्यैः प्रक्रमात्प्रेरितैः केवलमात्मा मे ममाऽवसीदति, एतत्प्रेरणाव्यग्रतया स्वकार्यहानेस्ततो वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः ॥ १५ ॥ अथ तत्प्रेरणान्तराले खकार्यमपि किं न क्रियते १ इत्याह
मूलम् - जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगद्दहे चइत्ताणं, दढं पगिण्हई तवं ॥ १६ ॥