________________
322
उत्तराध्ययन
॥ अथ सप्तविंशमध्ययनम् ॥
॥ अहम् ॥ उक्तं पविशमध्ययनं, सम्प्रति खलुकीयाख्यं सप्तविंशमारभ्यते । अस्स चायं सम्बन्धोऽनन्तराध्ययने सामाचारी प्रोक्ता, सा चाशठतयैव पालयितुं शक्या, सापि तद्विपक्षभूतशठतात्यागेनैव स्यादितीह दृष्टान्तद्वारा शठसाखरूपं निरूप्यते । इतिसम्बन्धस्यास्येदमादि सूत्रम् ॥ मूलम्-थेरे गणहरे गग्गे, मुणी आसि विसारए । आइण्णे गणिभावमि, समाहिं पडिसंधए ॥१॥ _ व्याख्या-धर्मे अस्थिरान् स्थिरीकरोतीति स्थविरः, गणं गुणसमूहं धारयतीति गणधरो गर्गो गर्गनामा, मुणति प्रतिजानीते सर्वसावद्यविरतिमिति मुनिः, आसीदभूत्, विशारदः सर्वशास्त्रेषु कुशलः, आकीर्ण आचार्यगुणैर्व्याप्तः, गणिभावे आचार्यत्वे स्थित इति शेषः । स समाधि चित्तसमाधानरूपं प्रतिसन्धत्ते कुशिष्यैस्त्रोटितमपि सचटयत्यात्मन इति गम्यमिति सूत्रार्थः ॥ १॥ स च समाधि सन्दधत् यत् परिभावयति तदाह-- मूलम्-वहणे वहमाणस्स, कतारं अइवत्तइ । जोए वहमाणस्स, संसारं अइवत्तइ ॥२॥ __व्याख्या-वहने शकटादौ 'वहमाणस्सत्ति' अन्तर्भावितणिगर्थतया बाहयमानस्य पुरुषस्य उत्तरत्र खलुक्कग्रहणादिह विनीतगवादिमिति गम्यते, कान्तारमतिवर्त्तते सुखातिवर्त्यतया खयमेवातिक्रामतीति । दृष्टान्तोपनयमाहयोगे संयमव्यापारे वाहयमानस्य प्रवर्त्तयतः आचार्यादेः सुशिप्यानिति गम्यते, संसारोऽतिवर्त्तते खयमेवातिक्रामति। तद्विनीतत्वदर्शनादात्मनो विशेषतः समाधिसम्भवादिति भावः ॥२॥ एवमात्मनः समाधिसन्धानाय विनीतखरूपं परिभाव्य स एवाऽविनीतखरूपं यथा परिभावयति तथाहमूलम्--खलुंके जो उ जोएइ, विहम्माणो किलिस्सइ।असमाहिं च वेदेति, तोत्तओ से य भजइ ॥३॥
व्याख्या-खलुङ्कान् गलिवृषभान् यः, तुर्विशेषणे, योजयति पहने इति प्रक्रमः, स किमित्याह-विहम्माणोत्ति' विध्यमानस्ताडयन क्लिश्यते, अत एवासमाधि वेदयति, तोत्रकः प्राजनकः से तस्य खलुकयोजयितुर्भज्यते ॥३॥ ततश्चातिरुष्टः सन् स यत्करोति तदाहमूलम् –एगं डसइ पुच्छंमि, एगं विधइ भिक्खणं । एगो भंजइ समिलं, एगो उप्पहपहिओ ॥ ४॥
व्याख्या--एक दशति दशनैर्भक्षयति पुच्छे, एकं विध्यत्सारथा तुदति अभीक्ष्णं पुनः पुनः, ततस्ते किं कुर्वन्तीत्याह-एको भनक्ति समिलां युगरन्ध्रकीलिका, एक उत्पथप्रस्थितो भवतीति शेषः ॥ ४ ॥ मूलम्-एगो पडइ पासेणं, निवेसइ निवज्जइ । उकुदइ उप्फिडइ, सढे बालगवी वए ॥ ५॥
व्याख्या--एकः पतति पार्थेन गात्रैकविभागेन, निविशति उपविशति, 'निवजइत्ति' शेते, उत्कूर्दति ऊई गच्छति, 'उप्फिडइत्ति' मण्डूकवत् प्लयते, शठो बालगवीमवृद्धां धेनुं 'वएत्ति' व्रजेत्तदभिमुखं धावेत, एक इति सर्वत्र गम्यते ॥५॥ मूलम्-माई मुद्धेण पडइ, कुद्धे गच्छइ पडिपहं । मयलक्खेंण चिट्ठाइ, वेगेण य पहावइ ॥६॥ __ व्याख्या-अन्यस्तु मायी मूर्धा मस्तकेन पतति निःसत्त्वमिव खं दर्शयन् , क्रुद्धः सन् गच्छति प्रतिपथं पश्चादूलत इत्यर्थः, मृतलक्षेण मृतव्याजेन तिष्ठति, कथञ्चित्सजितस्तु वेगेन प्रधावति, यथा द्वितीयो गौर्गन्तुं न शक्नोति तथा याति इत्यर्थः ॥ ६॥ मूलम्-छिण्णाले छिण्णई सल्लिं, दुईते भंजई जुगं।सेवि अ सुस्सुआइत्ता, उजहित्ता पलायइ ॥७॥ व्याख्या-छिन्नालस्तथाविधदुष्टजात्तिः कश्चिच्छिनत्ति 'सलिंत्ति' रचु, दुर्दान्तो भनक्ति युगं, सोऽपि च युगं
सत्कारान कृत्वा 'उजहित्तत्ति' प्रेर्य स्वामिनमिति शेषः, पलायते अन्यतो धावतीति सूत्रषट्कार्थः ॥ ७ ॥ इत्थं दृष्टान्तं परिभाव्य दार्टान्तिकं यथाऽसौ परिभावयति तथाह
मूलम्-खलंका जारिसा जोजा, दुस्सीसाऽवि हु तारिसा ।
जोइआ धम्मजाणम्मि, भज्जति धिइदुब्बला ॥८॥