________________
321
उत्तराध्ययन
कस्य कालं प्राभातिकं तुः पूत, 'पडिलेहएत्ति' प्रत्युपेक्षेत गृह्णीयाच्च । इह च साक्षात्प्रत्युपेक्षणस्यैव पुनः पुनः कथनं बहुतरविषयत्वात् । मध्यमक्रमापेक्षं चेह कालत्रयग्रहणमुक्तं, अन्यथा ह्युत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः कालाः, अपवादतश्चोत्कर्षेण द्वौ जघन्येन त्वेकोऽप्यनुज्ञात एवेति । कालग्रहणविधिश्वेहावश्यकवृत्तेरवसेयः ॥ ४६ ॥ मूलम् — आगए कायवुस्सग्गे, सवदुक्खविमोक्खणे । काउस्सगं तओ कुज्जा, सवदुक्खविमोक्खणं ॥ ४७ ॥
व्याख्या - आगते प्राप्ते कायभ्युत्सर्गे कायव्युत्सर्गसमये, शेषं स्पष्टम् । यच्चेह कायोत्सर्गस्य सर्वदुःखत्रिमोक्षण इति विशेषणं पुनः पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदुक्तं - " काउस्सग्गे जह सुट्ठिअस्स, भजंति अंगमंगाई || इअ भिंदंति मुणिवरा, अट्ठविहं कम्मसंघायं ॥ १ ॥ " तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशुद्धये कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रिकोऽतिचारश्चिन्त्यते ॥ ४७ ॥ तथा चाह
मूलम् — राइअं च अईआरं, चिंतिज्ज अणुपुवसो । नाणम्मि दंसणम्मि, चरित्तम्मि तबंमि य ॥ ४८ ॥
व्याख्या - रात्रौ भवं रात्रिकं, चः पूरणे, अतिचारं चिन्तयेत् 'अणुपुष्षसोत्ति' आनुपूर्व्या क्रमेण ज्ञाने दर्शने चारित्रे तपसि शब्दाद्वीर्ये च शेषकायोत्सर्गेषु तु चतुर्विंशतिस्तवचिन्तनं प्रतितमेवेति नोक्तम् ॥ ४८ ॥ ततश्च - मूलम् — पारिअ काउस्सग्गो, वंदिताण तओ गुरुं । राइअं तु अईआरं, आलोएज जहक्कमं ॥ ४९ ॥ पडिक्कमित्तु निस्सलो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सङ्घदुक्खविमोक्खणं ॥५०॥ व्याख्या - [ स्पष्टे नवरं ] 'वंदित्ताणत्ति' वन्दनकपूर्व क्षमयित्वा ततो वन्दित्वेति द्रष्टव्यम् ॥ ४९ ॥ ५० ॥ कायोत्सर्गस्थः किं कुर्यादित्याह -
मूलम् - किं तवं पडिवज्जामि, एवं तत्थ विचिंतए ।
काउस्सग्गं तु पारिता, वंदई उ तओ गुरुं ॥ ५१ ॥
व्याख्या - किं रूपं तपो नमस्कारसहितादि प्रतिपद्येऽहमेवं तत्रोत्सर्गे विचिन्तयेत् । वीरो हि भगवान् षण्मासान्निरशनो बितवान् तत्किमहमपि निरशनः शक्तोऽस्म्येतावन्तं कालं स्थातुमुत नेति १ एवं पञ्चमासाद्यपि यायनमस्कारसहितं तावत्परिभावयेत् ॥ ५१ ॥ पूर्वसूत्रोत्तराद्धक्तमर्थमनुवदन् सामाचारीशेषमाहमूलम् — पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवज्जित्ता, करिज सिद्धाण संथवं ॥ ५२ ॥ व्याख्या - तवमित्यादि - तपो यथाशक्ति चिन्तितं सम्प्रतिपद्य कुर्यात् सिद्धानां संस्तवं स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयमिति सार्द्धत्रयोदशसूत्रार्थः ॥ ५२ ॥ अथाध्यायनार्थोपसंहारमाह
मूलम् - एसा सामायारी, समासेण विहाइआ ।
जं चरिता बहू जीवा, तीण्णा संसारसागरंति बेमि ॥ ५३ ॥
व्याख्या- 'विआहिअत्ति' व्याख्याता कथिता यां चरित्वाऽऽसेव्येति सूत्रार्थः ॥ इति ब्रवीमीति प्राग्वत् ॥ ५३ ॥
Com X
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षड्विंशमध्ययनं सम्पूर्णम् ॥ २६ ॥
*----*----*****-**--
XXXXXXXXXXXX