________________
320 उत्तराध्ययन मूलम् अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोअणाओ, विहारं विहरए मुणी ॥३६ ॥ व्याख्या-अपगतशेषमपशेषं समग्रमित्यर्थः, भाण्डकमुपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति शेषः, ततः प्रतिलेखयेत्। तचादाय परमुत्कृष्टं अर्द्धयोजनादड़योजनमाश्रित्य, परतो हि मार्गातीतमशनादि स्यात्, विहरत्यस्मिन्प्रदेशे इति विहारः क्षेत्रं, तं विहरेन्मुनिः ॥३६॥ इत्थं विहृत्योपाश्रयं चागत्य गुर्गलोचनादिपूर्व भोजनादि कृत्वा यत्कुर्यात्तदाहमूलम्-चउत्थीए पोरिसीए, निक्खवित्ताण भायणं । सज्झायं च तओ कुज्जा, सवभावविभावणं॥३७॥ "व्याख्या-चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्व बवा भाजनं पात्रं, उपलक्षणत्वादुपधिं च प्रतिलिख्य, खाध्यायं ततः कुर्यात् , सर्वभावा जीवादयस्तेषां विमावनं प्रकाशकम् ॥ ३७॥ मूलम्-पोरिसीए चउम्भाए, वंदित्ताण तओ गुरुं। पडिक्कमित्ता कालस्स, सिजं तु पडिलेहए ॥३८॥
व्याख्या-पौरुष्याः प्रक्रमाच्चतुर्थ्याश्चतुर्भागे शेषे इति शेषः, 'सिजंति' शय्यां वसतिम् ॥ ३८ ॥ मूलम्-पासवणुचारभूमि च, पडिलेहिज जयं जई। काउस्सग्गं तओ कुज्जा, सबदुक्खविमोक्खणं॥३९॥
व्याख्या-'पासवणुचारभूमि चत्ति' प्रश्रवणभूमिमुच्चारभूमिं च प्रत्येकं द्वादशस्थण्डिलात्मिका, चशब्दात्कालभूमि च स्थण्डिलत्रयरूपां प्रतिलेखयेत्, यतमारम्भादुपरतं यथा स्यात्तथा यतिरिति सार्द्धसप्तदशसूत्रार्थः । इत्थं विशे. पादिनकृत्यमुक्त्वा रात्रिकृत्यं सार्द्धत्रयोदशसूत्रैराह । काउस्सग्गमित्यादि-'तओत्ति' ततः प्रश्रवणादिभूमिप्रतिले खनानन्तरम् ॥ ३९ ॥ कायोत्सर्गे स्थितश्च यत्कुर्यात्तदाहमूलम्-देसि च अईआरं, चिंतिज अणुपुत्वसो । नाणे अदंसणे चेव, चरित्तंमि तहेव य ॥ ४० ॥
व्याख्या-'देसिअंति' सूत्रत्वाद्देवसिकं, अतिचारं चिन्तयेदानुपूर्व्या क्रमेण प्रातः प्रतिक्रमणे प्रथममुखवत्रिकाप्रत्युपेक्षणादारभ्यामुं कायोत्सर्ग यावदित्यर्थः । किं विषयमतिचारं चिन्तयेदित्याह-ज्ञाने चेत्यादि ॥४०॥ मूलम्-पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । देसि तु अईआरं, आलोइज जहक्कम ॥४१॥
व्याख्या-पारितकायोत्सर्गो वन्दित्वा द्वादशावर्त्तवन्दनेन, तत इत्यतिचारचिन्तनानन्तरं गुरुं । दैवसिकं, तुः पूर्ती, अतिचारमालोचयेत् प्रकाशयेत् यथाक्रमम् ॥ ४१॥ मूलम्-पडिकमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुजा, सबदुक्खविमोक्खणं ४२ ___ व्याख्या प्रतिक्रम्यापराधस्थानेभ्यो निवर्त्य निःशल्यो मायाशल्यादिरहितः 'वंदित्ताणत्ति' सूचकत्वात्सूत्रस्य वन्दनकपूर्व क्षमयित्वा वन्दित्वा च गुरुवन्दनेन ततो गुरुं, कायोत्सर्ग चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयरूपं, जातावेकचनम् ॥ ४२॥ . मूलम्-पारिय काउस्सग्गो, वंदित्ताणं तओ गुरुं । इमंगलं च काउं, कालं संपडिलेहए ॥१३॥
व्याख्या-'थुइमंगलंति' स्तुतिमङ्गलं सिद्धस्तवरूपं स्तुतित्रयरूपं च कृत्वा कालं प्रादोपिकं सम्प्रत्युपेक्षते, कोऽर्थः १ प्रतिजागर्त्ति । उपलक्षणत्वाद्गलाति च ॥ ४३ ॥
मूलम्-पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ ।
तइआए निदमोक्खं तु, सज्झायं तु चउत्थीए ॥ ४४ ॥ व्याख्या-इदं व्याख्यातमेव पुनः कथनं त्वस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्याप. नार्थम् ॥ ४४ ॥ कथं पुनः चतुर्थपौरुष्यां स्वाध्यायं कुर्यादित्याहमूलम्-पोरिसीए चउत्थीए, कालं तु पडिलेहिआ। सज्झायं तु तओ कुज्जा, अबोहितो असंजए ४५
व्याख्या-'कालंति' वैरात्रिकं कालं, तुः पूरणे, प्रत्युपेक्ष्य प्रतिजागर्य गृहीत्वा च खाध्यायं ततः कुर्यादबो. धयन्ननुत्थापयन् असंयतान् ॥ ४५ ॥ मूलम्-पोरिसीए चउभाए, वंदित्ताण तओ गुरुं। पडिक्कमित्ता कालस्स, कालं तु पडिलेहए ॥ ४६ ॥ व्याख्या-पौरुष्याः प्रक्रमाचतुर्थ्याश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरुंप्रतिक्रम्य कालस्य वैरात्रि