________________
319
उत्तराध्ययन
व्याख्या -- प्रतिलेखनां कुर्वन् मिथः कथां करोति, जनपदकथां वा, ख्यादिकथोपलक्षणमेतत् ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति परं, स्वयं प्रतीच्छति वा आलापादिकं गृह्णाति य इति शेषः ॥ २९ ॥ स किमित्याहमूलम् -- पुढवि आउक्काए, तेउ वाऊ वणस्लइ तसाणं । पडिलेहणापमत्तो, छहंपि विराहओ होई ॥३०॥
व्याख्या- 'पडिलहेणापमत्तोत्ति' मिथः कथादिना प्रतिलेखनायां प्रमत्तोऽनवधानः, षण्णामपि विराधको भवति । कथमिति चेदुच्यते-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत्, ततस्तज्जलेन मृदमित्री कुन्थ्वादयः प्लाव्यन्ते यत्र चाभिस्तत्रावश्यं वायुरिति वण्णामपि विराधना । तदेवं प्रतिलेखनाकाले हिंसाहेतुत्वान्मथः कथादीनि याज्यानि इति भावः ॥ ३० ॥
मूलम् -- पुढवी- आऊकाए, तेऊ वाऊ- वणस्सइतसाणं । पडिलेहणा आउत्तो, छपहंपि आराहओ होइ ॥ ३१ ॥ व्याख्या - [ प्रतिलेखनाय आयुक्तः सावधानोऽप्रमादी साधु पृथिव्यादीनां पण्णामपि कायानां आराधको भवति ॥ ३१ ॥ ] इत्थं प्रथमपौरुषीकृत्यमुक्तं, द्वितीय पौरुषीकृत्यं तु 'बीइअं झाणं झिआग्रह' इत्यनेनेोक्तमेत्र, उभयं वेदमवश्यं कर्त्तव्यं । अथ तृतीय पौरुषीकृत्यमपि किमेवमवश्यं कार्यमुत कारण एवोत्पन्ने ? इत्याशङ्का पोहार्थमाहमूलम् -- तइआए पोरिसीए, भत्तपाणं गवेसए । छण्हमन्नयरागंमि कारणम्मि समुट्ठिए ॥ ३२ ॥
:
१ एवागाथा "घ" संज्ञकपुस्तके न दृश्यते ॥
व्याख्या - स्पष्टं नवरमौत्सर्गिकमेवेदं तृतीयपौरुषीभक्तपानगवेपणं, अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगत्रेपणं । यदाहुः - "सइ काले चरे भिक्खू, कुज्जा पुरिसकारिअं ॥ अलाभुत्ति न सोइज्जा, तत्ति अहिआसए १ ति" । छण्हमित्यादि- पण्णामन्यतरस्मिन् कारणे समुपस्थिते, न तु कारणं विनेति भावः ॥ ३२ ॥ कारणपङ्कमेवाह
मूलम् - अण - आवच्चे, इरिअडाए अ संजमट्ठाए। तह पाणवत्तिआए, छट्टं पुण धम्मचिंताए ॥ ३३ ॥
व्याख्या- ' वे अणत्ति' वेदनाशब्दस्योपलक्षणत्वात् क्षुत्पिपासावेदनाच्छेदनार्थ १ । 'वे आवश्चेत्ति' क्षुत्रादिवाधितो वैयावृत्त्यं कर्त्तुं क्षमो न स्यादिति वैयावृत्त्याय २ । तथा ईर्यासमितिः सैवार्थस्तस्मै, चः समुचये, क्षुत्तृषाकुलस्य हि चक्षुर्थ्यामपश्यतोऽसौ दुष्करेति ३ । तथा संयमार्थाय संयमपालनं व यथा स्यादिति, आहारादिकमन्तरा हि कच्छमहाकादीनामित्र संयमो दुरनुपालः स्यादिति ४ । तथा प्राणप्रत्ययं प्राणत्राणहेतवे, अविधिना ह्यात्मनोऽपि प्राणप्रक्रमे हिंसा स्यात् ५ । षष्ठं पुनरिदं कारणं यदुत धर्मचिन्तायै धर्मध्याननिमित्तं क्षुत्तृपाक्षामस्य हि दुर्ष्यानोपगतस्य क धर्मचिन्तेति तदर्थं भक्तपानं गवेषयेदिति सर्वत्रानुवर्त्यते ॥ ३३ ॥ अथ यैः कारणैर्भक्तादिग्रहणं न कुर्यात्तानि निर्देष्टुमाह-
मूलम् - निग्गंथो धिइमंतो, निग्गंधी वि न करिज छहिं चेव । ठाणेहिं तु इमेहिं, अणतिकमणा य से होई ॥ ३४ ॥
व्याख्या -- निर्ग्रन्थो धृतिमान् धर्मचरणं प्रति स्थैर्यवान्, निर्ग्रन्थी साध्वी सापि, न कुर्याद्भक्तादिगवेपणमिति प्रक्रमः । पइभिरेव स्थानैः, तुः पुनरर्थे एभिर्वक्ष्यमाणैः कुतः ? इत्याह- 'अणइकमणायत्ति' अनतिक्रमणं संयमयोगानामनुलंघनं चशब्दो यस्मादर्थे, ततो यस्मात् 'से' तस्य निर्ग्रन्थादेर्भवति, अन्यथा हि तदतिक्रमसम्भवः ॥ ३४ ॥ स्थानकपट्कमाह
मूलम् - आयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीसु । पाणिदया तवहेडं, सरीरवोच्छेअणट्टाए ॥३५॥
व्याख्या -- आतङ्के ज्वरादौ १ । उपसर्गे दिव्यादौ, व्रतमोक्षाय खजनादिकृते वा २ । उभयत्र तन्निवारणार्थमिति गम्यते । तथा तितिक्षा सहनं तथा, केत्याह - ब्रह्मचर्यगुप्तिषु विषये, ता हि मनोविप्लवोत्पत्तौ नान्यथा सोढुं शक्या इति ३ । तथा 'पाणिदयातवहेडंति' प्राणिदया हेतोर्पर्यादी अपकायादिजीवरक्षायै ४ । तपश्चतुर्थादि तद्धेतोव ५ । शरीरव्यवच्छेदार्थ, उचितकालेऽनशनं कुर्वन् ६ । भक्तपानगवेषणं न कुर्यादिति योज्यम् ॥ ३५ ॥ भक्तादिश्च न विधिना कियत्क्षेत्रं पर्यटेदित्याह-