SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 318 उत्तराध्ययन पूर्वाः । नव खोटकाः, प्रस्फोटनरूपाः कर्त्तव्या इति शेषः । पासौ हस्ते प्राणिनां कुन्ध्यादीनां विशोधनं प्राणिविशोधनं, पाठान्तरे च प्राणिप्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिकत्रिकसंख्यं कर्त्तव्यम् ॥ २५ ॥ प्रतिलेखनादोषत्यागार्थमाह- मूलम् - आरभडा सम्मद्दा, वज्जेअवा य मोसली तइआ । पप्फोडणा चउत्थी, विक्खित्ता वेइआ छठ्ठा २६ व्याख्या -- 'आरभडा' विपरीतकरणं, त्वरितमन्यान्यवस्त्रग्रहणरूपा वा । यदुक्तं - "वितहकरणमारभडा, तुरिअं वा अन्नमन्नगहणेणंति” । संमर्द्दनं संमर्दा, रूढित्वात् स्त्रीलिङ्गता, संमर्दा नाम वस्त्रान्तकोणसंवलनं, उपधेर्वा उपरि उपवेशनं वर्जयितव्येति सर्वत्र योज्यं । चः पूर्ती, 'मोसलित्ति' तिर्यगूर्द्धमधो वा घट्टना, तृतीया । प्रस्फोटना प्रकर्षेण रेणुगुण्ठितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पञ्चमी, स्त्रीत्वं प्राग्वत्, सा च प्रत्युपेक्षितवस्त्रस्याप्रत्युपेक्षिते प्रक्षेपणं, प्रत्युपेक्ष्यमाणो वा वस्त्राञ्चलं यदूर्ध्व क्षिपति । वेदिका षष्ठी, सा च पञ्चविधा । यदाहु: - " वेइआ पंचविहा पणत्ता, तंजहा - उडवेइआ १ अहोवेइआ २ तिरिअवेद्दआ ३ दुहओ वेइआ ४ एगओ वेइआ ५ । तत्थ उहुवेइआ उवरि जाणुगाणं हत्थे काऊण पडिलेहेइ १ । अहोवेइआ अहो जाणुगाणं हत्थे काऊण पडिलेहेइ २ । तिरिअवेइआ संडासयाणं मज्झे हत्थे नेऊण पडिलेहेइ ३ । उभओ वेइआ बाहाणं अंतरे दोवि १ वस्त्रान्तकोणानां परस्परमेलनमिति दीपिकायाम् ॥ जाणुगा काऊण पडिले ४ । एगओ वेहआ एगं जाणुगं वाहाणमंतरे काऊण पडिलेहेइत्ति ५ ।” एवमेते षड् दोषाः त्याज्याः ॥ २६ ॥ तथा मूलम् — पसिढिल - पलंब-लोला, एगामोसा अणेगरूवधुणा । कुणइ पमाणि पमायं, संकिए गणणोवगं कुज्जा ॥ २७ ॥ 1 व्याख्या - प्रशिथिलं नाम दोषो यददृढमतिर्यगायतं वा वस्त्रं गृह्यते, प्रलम्बो यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं । लोलो यद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः । एकामर्शनमे कामर्शा, स्त्रीत्वं प्राग्वत्, मध्ये गृहित्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालमाकर्षणं । अनेकरूपा संख्यात्रयातिक्रमेण युगपदनेकग्रहणेन वा या धूनना वस्त्रकम्पना साऽनेकरूपधूनना । तथा करोति प्रमाणे प्रस्फोटना दिसंख्यारूपे प्रमादमनवधानं । यच शङ्किते प्रमादात्प्रमाणं प्रति शङ्कोत्पत्तौ गणनां कराङ्गुलिरेखास्पर्शनादिना एकद्वित्रिसंख्यारूपा 1 * वेदिकायाः पञ्चभेदाः । ऊर्द्धवेदिका १ अधोवेदिका २ तिर्यगूवेदिका १ उभयवेदिका ४ एकवेदिका ५ । ऊर्ध्ववेदिका सा यस्यां उमयोजन्वोरुपरि हस्तयो रक्षणम् १ । अधोवेदिका सा जान्वोरधः प्रचुरं हस्तयो रक्षणम् २ । तिर्यगवेदिका सा यस्यां तिर्यग् हस्तौ कृत्वा प्रतिलेखनम् ३ । उभयवेदिका सा यस्यां उभाभ्यां जानुभ्यां बाह्ये उभयोर्हस्तयो रक्षणम् ४ । एकवेदिका सा यस्यां एकं जानु हस्तमध्ये अपरं जानु बाह्ये रक्ष्यते ५ । इति दीपिकायाम् ॥ मुपगच्छतीति गणनोपगं यथा भवत्येवं प्रक्रमात्प्रस्फोटनादि कुर्यात्सोऽपि दोषः । सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योज्या । एवं चानन्तरोक्तदोवैर्युक्ता सदोषा प्रतिलेखना तैर्वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ॥ २७ ॥ साम्प्रतं त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्तुमाह मूलम् - अणूणाइरित्तपडिलेहा, अविवच्चासा तहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्था णि॥२८॥ व्याख्या – ऊना चासावतिरिक्ता च ऊनातिरिक्ता, न तथा अनूनातिरिक्ता, । इह च न्यूनताधिक्ये प्रस्फोटना प्रमार्जने, वेलां चाश्रित्य वक्तव्ये । 'अविवचासत्ति' अन्यत्यासा पुरुषोपधिविपर्यासरहिता, कार्येति शेषः । अत्र त्रिभिर्विशेषणपदैरष्टौ मङ्गाः सूचितास्तेषु च कः शुद्धः को वाऽशुद्धः १ इत्याह-प्रथमं पदं आद्यभङ्गकरूपमिहैवोपदर्शितं प्रशस्तं, शेषाणि तु सप्ताऽप्रशस्तानि ॥ २८ ॥ निर्दोषामप्येनां कुर्वता यत्त्याज्यं तत्काक्कोपदेष्टुमाह मूलम् - पडिलेहणं कुणंतो, मिहो कहं कुणइ जणवय-कहं वा । देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥ २९ ॥ १ गुर्वादे रत्नाधिकस्य चोपधिं यथाक्रमं न प्रतिलेखयति, प्रातः सायं च रजोहरणादिकमुपधिं वा यथोक्तस्थाने न प्रतिलेखयति, इत्येवं पुरुषव्यत्यय उपधिव्यत्ययश्च । स्थापना - ऽऽऽ । ऽऽ-ऽ। ऽ-॥ ऽ-ऽऽ |- |S1-5|| || एवमष्ट भङ्गाः ॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy