________________
317
उत्तराध्ययन
व्याख्या- 'बिइअंति' द्वितीयायां ध्यानं धर्मध्यानं, तृतीयायां निद्रायाः पूर्वरुद्धाया मोक्षो मुत्कलनं निद्रामोक्षः तं कुर्यात्, वृषभापेक्षं चैतत्, सामस्त्येन तु प्रथमचरमयामजागरणमेव । तथा चागमं - " सच्चेऽवि पढमजामे, दोणि उबराहाण आइमा जामा ॥ तइओ होइ गुरूणं, चउत्थओ होइ सधेसिं" इति ॥ १८ ॥ अथ रात्रिभागचतुष्कज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाह --
मूलम् - जं नेइ जया रत्तिं, नक्खत्तं तम्मि नहचउभाए । संपत्ते विरमिज्जा, सज्झाय पओसकालंमि १९
व्याख्या --- यन्नयति प्रापयति समाप्तिमिति गम्यते, यदा रात्रिं क्षपां नक्षत्रं, यस्मिन् दिने यस्मिन्नक्षत्रेऽस्तमिते रात्रपर्यन्तो भवतीतिभावः । तच्च नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्द्दशं भवतीति वृद्धाः । तस्मिन्नक्षत्रे नभश्चतुर्भागे सम्प्रा विरमेत् निवर्त्तत, 'मज्झायत्ति' स्वाध्यायात्प्रदोषकाले रात्रिमुखे प्रारब्धादिति शेषः ॥ १९ ॥
मूलम् -तम्मेव य नक्खत्ते, गयण चउब्भाग सावसेसंमि । वेरत्तिअंपि कालं, पडिलेहित्ता मुणी कुज्जा २०
व्याख्या--तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते 'गयणति' गगने, कीदृशे ? चतुर्भागेन गन्तव्येन सावशेषं चतुर्भागसावशेषं तस्मिन् वैशत्रिकं तृतीयं, अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं, 'पडिले हित्तत्ति' प्रत्युपेक्ष्य प्रतिजागर्य मुनिः कुर्यात् करोतेः सर्वेधात्वर्थव्यासत्वाद्गृहीयात् । इह च प्रथमादिषु नमचतुर्भागेषु सम्प्रासे रात्रिसमायके नक्षत्रे रात्रेः प्रथमाद्याः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रचतुष्कार्थः ॥ २० ॥ इत्थं सामान्येन दिननिशाकृत्यमुपदर्श्य पुनर्विशेषात्तदेव दर्शयन्नादौ दिनकृत्यं सार्द्धसप्तदशसूत्रैराह -
मूलम् - पुविलंमि चउन्भागे, पडिले हित्ताण मंडगं । गुरुं वंदित्तु सज्झायं, कुज्जा दुक्ख विमोक्खणं ॥ २१ ॥ व्याख्या - पूर्वस्मिंश्चतुर्भागे प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य साध्यायं कुर्यादितियोगः, किं कृत्वेत्याह- प्रत्युपेक्ष्य भाण्डक वर्षाकल्पादिकमुदधिं सूर्योदयसमये इति शेषः ॥ २१ ॥
व्याख्या--'
मूलम् - पोरिसीए चउन्भागे, वंदिताण तओ गुरुं । अपडिकमित्ता कालस्स, भावणं पडिलेहए ॥ २२ ॥ -- पौरुप्याश्चतुर्भागे अवशिष्यमाण इति शेषः, ततः पादोनपौरुष्यामित्यर्थः । अप्रतिक्रम्य कालस्य, चतुर्धपौरुप्यामपि स्वाध्यायस्य विधास्यमानत्वात् कालप्रतिक्रमणं च खाध्यायसमाप्तौ स्यादित्यप्रतिक्रम्येत्युक्तम् ॥ २२ ॥ प्रतिलेखनाविधिमाह-
मूलम् - मुहपोत्तिअं पडिलेहित्ता, पडिले हिज्ज गोच्छगं । गोच्छगलइअंगुलिओ, स्थाई पडिलेहए ॥ २३ ॥
व्याख्या -- मुखवत्रिकां प्रतिलिख्य प्रतिलेखयेत् 'गोच्छगं' पात्रकोपरिवर्त्ति उपकरणं, ततश्च 'गोछगलइ अंगुलियोति' प्राकृतत्वादङ्गुलिभितो गृहितो गोच्छको येन सोऽङ्गुलिलातगोच्छकः, वाणि पटलकरूपाणि प्रतिलेखयेत् प्रस्तावात्प्रमार्जयेदित्यर्थः ॥ २३ ॥ इत्थं तथास्थितान्येव पटलानि गोच्छकेन प्रमृज्य गुनर्यत्कुर्यात्तदाहमूलम् - उड्डुं थिरं अतुरिअं पुत्रं ता वत्थमेत्र पडिलेहे। तो बिइयं पप्फोडे, तइअं च पुणो पभजिजा ॥२४॥
व्याख्या -- ऊकायतो वस्त्रतश्च तत्र कायत उत्कुटुको वस्त्रतस्तु तिर्यक्प्रसारितवस्त्रः । स्थिरं दृढग्रहणेन, अत्वरितं अद्भुतं यथाभवत्येवं पूर्व प्रथमं 'ता इति' तावद्वत्रं पटलकरूपं जातावेकवचनं । अत्र व पटलकक्रमेपि यमिति सामान्यशब्दाभिधानं तद्वर्षाकल्पादिप्रतिलेखनायामप्ययमेव विधिरिति ख्यापनार्थ एवशब्दो भिन्नकमस्ततः प्रत्युपेक्षेतैव, आरतः परतश्च निरीक्षेतैव, न तु प्रस्फोटयेत् । तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र सङ्क्रमयति । 'तो इति' ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात् किमित्याह यत् शुद्धं सत् प्रस्फोटयेत् । तृतीयं च पुनरिदं कुर्यात्, प्रमृज्यात प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः ॥ २४ ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याह
मूलम् - अणचाविअं अवलियं, अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणीपाणिविसोहणं
व्याख्या -- अनातं, वस्त्रं वपुर्वा यथा नर्त्तितं न भवति । अवलितं यथाऽऽत्मनो वस्त्रम्य च वलितं मोटनं न स्यात् । अननुबन्धि, अनुबन्धेन नैरन्तर्यरूपेण युक्तमनुबन्धि, न तथा अननुबन्धि, कोऽर्थी ? लक्ष्यमाणविभागं यथा भवति तथा । 'अमोसलित्ति' सूत्रत्वादमर्शवत् तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शयुक्तं यथा न स्यात्तथा । किमित्याह - 'छप्पुरमत्ति' पट् पूर्वाः, पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मका: क्रियाविशेषा येषां ते षटू