________________
316 उत्तराध्ययन ततः प्रतिलेखनानन्तरं गुरुं आचार्यादिकम् ॥ ८ ॥ 'पुच्छेजत्ति' पृच्छेत् प्राअलिपुटो भालस्थलयोजितकरसम्पुटः किं कर्त्तव्यं मया ? इहास्मिन् समय इति गम्यते एतदेव व्यनक्ति, 'इच्छंति' इञ्छामि 'निओइउंति' अन्तर्भूतणिगर्थत्वा नियोजयितुं प्रवर्त्तयितुं युष्माभिरात्मानमिति शेषः, हे भदन्त ! वैयावृत्त्ये ग्लानादिसम्बन्धिनि खाध्याये वा वाचनादौ ॥९॥ एवं पृष्ट्वा यत्कार्य तदाह- . मूलम्-वेआवच्चे निउत्तेणं, कायवं अगिलायओ। सज्झाए वा निउत्तेणं, सबदुक्खविमोक्खणे ॥१०॥
व्याख्या--वैयावृत्त्ये नियुक्तेन कर्त्तव्यं प्रक्रमाद्वैयावृत्त्यं, 'अगिलायओत्ति' अग्लान्यैव शरीरश्रममविचिन्त्यैव । खाध्याये या नियुक्तेन सर्वदुःखविमोक्षणे खाध्यायोप्यग्लान्यैव कार्य इति गम्यमिति सूत्रत्रयार्थः ॥ १० ॥ एवं सकलौघसामाचारीमूलत्यात्प्रतिलेखनायास्तत्कालं सदा विधेयत्वाद्गुरुपारतन्त्र्यं चाभिधायौत्सर्गिकै दिनकृत्यमाह
मलम-दिवसस्स चउरो भाए. कज्जा भिक्ख विअक्खणो।
तो उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ॥ ११ ॥ व्याख्या-'तोत्ति' ततचतुर्भागकरणानन्तरं उत्तरगुणान् स्वाध्यायादीन् कुर्यात् ॥ ११ ॥ कथमित्याहमूलम्-पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ। तइआए गोअरकालं, पुणो चउस्थिए सज्झायं
व्याख्या-प्रथमा पौरुषी खाध्यायं वाचनादिकं कुर्यादिति शेषः, द्वितीयायां ध्यानं ध्यायेत्, धातुनामनेकार्थत्वात् कुर्यात् , ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषये एव मानसादिव्यापारणमुच्यते । तृतीयायां मिक्षाचर्यामुपलक्षणत्वाभोजनवहिर्गमनादि । चतुर्थी पुनः खाध्यायं, इहापि प्रतिलेखनादिकमुपलक्षणाद्वारामिति ॥ १२ ॥ यदुक्तं प्रथमां पौरुपीमित्यादि, तज्ज्ञानार्थमाहमूलम्-आसाढे मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ॥१३॥ ___ व्याख्या-'दुप्पयत्ति' यदा पुरुपादेरूद्धस्थितस्य दक्षिणकर्णनिवेशिततरणिमण्डलस्य आषाढपूर्णिमादिने जानुच्छाया द्विपदा स्यात्तदा पौरुषी, एवं सर्वत्रापीति ॥ १३ ॥ इदं च पौरुपीमानमाषाढादिपूर्णिमासु ज्ञेयं, तदनु तु वृद्धिहानी एवम्मूलम्-अंगुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वड्डए हायए आवि, मासेणं चउरंगुलं ॥ १४ ॥
व्याख्या--अङ्गुलं सप्तरात्रेणेति दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रेण वर्धते दक्षिणायने, हीयते उत्तरायणे । इह च सप्सरात्रेणेत्यत्र सार्द्धनेति शेषो द्रष्टव्यः, पक्षणाङ्गुलद्वयवृद्धरुक्तत्वात् । अन्यच केषुचिन्मासेषु दिनचतुर्दशके. नाऽपि पक्षः सम्भवति, तत्र च सप्तरात्रेणाप्यङ्गुलवृद्धिहान्या न दोषः ॥ १४ ॥ केषु पुनर्मासेषु चतुर्दशभिर्दिनैः पक्ष इत्याह-- मूलम्-आसाढबहुलपक्खे, भद्दवए कत्तिए अपोसे अ।फग्गुण-वइसाहेसु अ, नायवा ओमरत्ताओ१५
व्याख्या-'ओमत्ति' अवमा न्यूना एकेनेति शेषः, 'रत्तत्ति' उपलक्षणत्वादहोरात्राः । एवं च एकैदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेषु मासेविति भावः ॥ १५॥ एवं पौरुषीज्ञानोपायमभिधाय पूर्वमुक्तायाः पादोनपौरुप्या ज्ञानोपायमाह-- ___ मूलम्-जेट्टामूले आसाढ-सावणे, छहिं अंगुलेहिं पडिलेहा।
अट्टहिं वीअतिअम्मि, तइए दस अहहिं चउत्थे ॥ १६ ॥ व्याख्या--ज्येष्ठामूले ज्येष्ठे आपाढश्रावणे च पइभिरङ्गुलैः प्रत्यहं पूर्वोक्तपौरिषीमाने प्रक्षिप्तैरिति गम्यं, प्रतिलेखा-पात्रप्रतिलेखनाकालः । अष्टभिरङ्गलैर्द्वितीयत्रिके, भाद्रपदाश्विनकार्तिकरूपे । तथा तृतीये त्रिके मार्गशीर्षपौपमाघरूपे, 'दसत्ति' दशभिरङ्गुलैः । अष्टभिश्चतुर्थे त्रिके, फाल्गुनचैत्रवैशाखरूपे । इति सूत्रपटूकार्थः ॥ १६ ॥ इत्थं दिनकृत्यमुक्त्वारात्री यद्विधेयं तदाह- . मूलम्-रतिपि चउरो भाए, भिक्खू कुजा विअक्खणो।तओ उत्तरगुणे कुजा, राईभागेसु चउसुवि १७॥ व्याख्या-रतिपित्ति' राग्निमपि न केवलं दिनमित्सपिशब्दार्थः ॥ १७ ॥
मूलम्--पढमं पोरिसि सज्झायं, विइअं झाणं झिआयइ।
तइआए निदमोखं तु, चउत्थीए भुज्जोवि सज्झायं ॥ १८ ॥