________________
315 उत्तराध्ययन
अन्भूहाणं नवमं ९, दसमा उपसंपया १०॥
एसा दसंगा साहणं, सामायारी पवेइआ ॥ ४॥ व्याख्या-व्रतादारभ्य विना कारणं गुरोरवग्रहे न स्थेयमाशातनाशकातः, किन्तु ततो निर्गन्तव्यं, न धावश्यकी विना निर्गमनमिति प्रथमाऽऽवश्यकी ॥१॥ निर्गस चावस्थानस्थाने नैपेधिकी गमनादिनिपेषरूपा कार्येति तदनु नैषेधिकी ॥२॥ तत्र च तिष्ठता भिक्षाटनादिकार्योत्पत्तौ गुरूनापृच्छयैव प्रवर्तितव्यमिति तदनन्तरमाऽऽप्रच्छना ॥ ३॥ तस्यां च कृतायां गुरुनियुक्तेनाऽपि प्रवृत्तिकाले पुनः प्रष्टव्या एव गुरवः इति तत्पृष्ठतः प्रतिप्रच्छना ॥ ४ ॥ कृत्वा च भिक्षाटनं नात्मम्भरिणा भाव्यं, किन्तु शेषमुनीनां निमन्त्रणारूपा छन्दना कार्येति तदनु छन्दना ॥५॥ तत्रापि इच्छाकार एव प्रयोक्तव्य इति तदनु सः॥६॥ इत्थं क्रियमाणेऽपि कथञ्चिदतिचारसम्भवे मिथ्यादुष्कृतं कार्यमिनि तदनु मिथ्याकारम् ॥७॥ महति चापराधे गुरोरालोचिते गुरुवचनं तपेति खीकार्यमिति तत्पृष्ठतस्तथाकारः ॥ ८॥ तथेति खीकृत्य च सर्वकृत्येधूद्यमः कार्य इति तदनु अभ्युत्थानम् ॥९॥ उद्यमवता च ज्ञानाद्यर्थं गणान्तरेऽपि गत्वोपसम्पदायेति तदनु उपसम्पदुक्तेति सूत्रत्रयार्थः ॥ ४ ॥ एनामेष विषयविभागेनोपदर्शयितुमाहमूलम्-गमणे आवस्सिअंकुज्जा, ठाणे कुजा णिसीहि।आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा
व्याख्या-गमने तथाविधहेतुना बहिनिस्सरणे, आवश्यकेषु अवश्यकर्त्तव्यव्यापारेषु भवा आवश्यकी तां कुर्यात् । स्थाने उपाश्रयादौ प्रविशन्निति शेषः, कुर्यान्नैपेधिकीं गमनादिनिषेधरूपां। आप्रच्छना इदमहं कुर्यां न वेत्यादिरूपां, खयमात्मनः करणं कस्यापि कार्यम्य निर्वर्तनं स्वयं करणं तस्मिन्कार्येति शेषः । तथा परकरणेऽन्यकार्यविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले पृच्छत्येव गुरुं । इह च खकृत्यपरकृत्ययोरुपलक्षणत्यात्सामान्येन खपरस्खम्बन्धिषु सर्वकार्येष्वपि प्रथमतो गुरूणां प्रच्छनमापृच्छा, गुरुनियुक्तेनापि प्रवृत्तिकाले भूयस्तत्प्रच्छनं प्रतिपृच्छेति क्षेयं । आह च नियुक्तिकृत्-"आपुच्छणा उ कजे पुवनिउत्तेण होइ पडिपुच्छत्ति" ॥५॥ मूलम्-छंदणा दबजाएणं, इच्छाकारो अ सारणे। मिच्छाकारोअ निंदाए, तहकारो पडिस्सुए ॥६॥
व्याख्या-छन्दना शेपमुनिनिमन्त्रणा द्रव्यजातेन द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते, उक्तं च "पुबगहिएण छंदणत्ति"। इच्छया स्वाभिप्रायेण न तु बलात्कारेण करणं तत्तत्कार्यनिवर्त्तनमिच्छाकारः, सारणे आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने । तत्रात्मसारणे यथा 'इच्छाकारेण युप्मचिकीर्पितमिदं कार्य करोमीति, अन्यसारणे च यथा 'मम पात्रलेपादिकार्यमिच्छाकारेण कुरुतेति' । मिथ्याकरणं मिथ्या इदमिति प्रतिपत्तिमिथ्याकारः, स
। वितथाचरणे धिगिदं मिथ्या मया कृतमित्यादिरूपायां। तथाकार इदमित्यमेवेत्यभ्युपगमः, प्रतिश्रुते प्रतिश्रवणे गुरौ वाचनादिकं प्रयच्छत्येवमेवेदमित्यङ्गीकाररूपे ॥६॥ मूलम्-अब्भुट्टाणं गुरुपूआ, अच्छणे उपसंपया। एवं दुपंचसंजुत्ता, सामायारी पवेइआ ॥ ७॥
व्याख्या-अभीयाभिमुख्येनोत्थानं अभ्युत्थानं उद्यमः ‘गुरुपूअत्ति' आषत्वानुरुपूजायां गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्पादनरूपायां । इह च सामान्याभिधानेपि अभ्युत्थानं निमन्त्रणारूपमेव ग्रावं, अत एव नियुक्तिकृता अस्य स्थाने निमन्त्रणेवोक्ता "छंदणा य निमंतणत्ति"। तथा 'अच्छणेत्ति' अवस्थाने प्रक्रमादपराचा
र्यादेः समीपे, उपसम्पदियन्तं कालं युष्मत्पार्थे मया वसितव्यमित्येवंरूपा, कार्येति सर्वत्रापि शेषः। एवमुक्तनीत्या 'दुपंचसंजुत्तत्ति' द्विपञ्चकसंयुक्ता दशसंख्यायुता सामाचारी प्रवेदिता कथितेति सूत्रत्रयार्थः॥ ७ ॥ एवं दशविधां सामाचारीमुदी?घसामाचारीमाहमूलम्-पुविलंमि चउब्भागे, आइञ्चमि समुहिए । भंडगं पडिलेहिता, वंदिता य तओ गुरुं ॥८॥
पुच्छिज्जा पंजलीउडो, किं कायवं मए इह । इच्छं निओइउं भंते, वेआबच्चे व सज्झाए ॥ ९ ॥ व्याख्या-पुर्वसिंश्चतुर्भागे नभस इति शेषः, आदित्ये समुत्थिते समुद्ते प्राप्त इत्यर्थः । अत्र हि किश्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तस्ततोऽयमर्थः । बुद्ध्या नभश्चतुर्द्धा विभज्यते, तत्र पुर्वदिकसम्बद्धकिञ्चिदूननभश्चतुर्भागे पदाऽऽदित्यः समेति तदा, पादोनपौरुष्यामित्यर्थः । भाण्डमेव भाण्डकं पतगृहाधुपकरणं प्रतिलिख्य वन्दित्वा च