________________
314
उत्तराध्ययन व्याख्या-'जइअत्ति' यष्टारः यूयं वेदविदो हे विदः ! हे यथास्थिततत्त्वज्ञाः ! ॥ ३७॥ मूलम्-तुब्भे समत्था उद्धत्तुं, परं अप्पाण मेव यातमणुग्गहं करेहा, भिक्खेणं भिक्खउत्तमा ॥३८॥
व्याख्या-'तमणुग्गहंति' तत्तस्मात् अनुग्रहं कुरुतास्माकं 'भिक्खेणंति' भैक्ष्येण भिक्षाग्रहणेन हे मिस्त्तम ! इति सूत्रचतुष्कार्थः ॥ ३८ ॥ एवं द्विजेनोक्ते मुनिराह
मूलम्-न कजं मज भिक्खेणं, खिप्पं निक्खमसू दिआ।
मा भमिहिसि भयावत्ते, घोरे संसारसागरे ॥ ३९ ॥ व्याख्या-न कार्य मम भैक्ष्येण किन्तु क्षिप्रं निष्काम प्रव्रज हे द्विज ! मा भ्रमीः भयानि इहलोकभयादीनि आवर्ता इव आवर्ता यस्मिन् स तथा तस्मिन् घोरे संसारसागर ॥ ३९॥ मूलम्-उवलेओ होइ भोगेसु, अभोगी नोवलिप्पइ । भोगी भमइ संसारे, अभोगी विप्पमुच्चइ ॥४०॥
व्याख्या--उपलेपः कर्मोपचयरूपो भवति भोगेषु भुज्यमानेष्विति शेषः, अभोगी नोपलिप्यते कर्मणेति शेषः, ततश्च भोगीत्यादि स्पष्टम् ॥ ४० ॥ भोगिनामुपलेपमन्येषां च तदभावं दृष्टान्तद्वारेणाह
मुलम्-उल्लो सुक्को अ दो छुढा, गोलया महिआमया।
दोवि आवडिआ कुड्डे, जो उल्लो सोऽत्थ लग्गइ ॥४१॥ व्याख्या-आर्द्रः शुष्कश्च द्वौ क्षिप्तौ गोलको मृत्तिकामयौ, द्वावप्यापतितौ प्राप्तौ कुड्ये मित्तौ, यः आर्द्रः सो 'अत्यत्ति' अनयोर्मध्ये लगति श्लिष्यति ॥ ४१ ॥ दार्टान्तिकयोजनामाहमूलम्-एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उ न लग्गति, जहा सुक्के उ गोलए ॥४२॥
व्याख्या-'लग्गति' श्लिष्यन्ति संसार इति शेषः, इति सूत्रचतुष्कार्थः ॥ ४२ ॥ एवमुक्तो यत्स चक्रे तदाहमूलम्-एवं सो विजयघोसो, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सोच्चा अणुत्तरं ४३
व्याख्या-अत्र एवमनेन प्रकारेण धर्म श्रुत्वेति योज्यम् ॥ ४३ ॥ अथाध्यनार्थमुपसंहरननयोर्निष्क्रमणफलमाहमूलम-खवित्ता पूचकम्माई, संजमेण तवेण य।जयघोसविजयघोसा, सिद्धिं पत्ता अणुत्तरंति बेमि ४४
व्याख्या-स्पष्टम् ॥ ४४ ॥ യ
യായവയറുകട്ട का इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायत्रीमुनिविमलगणिशिष्योपाध्याय दि
24 श्रीभावविजयगणिसमर्थिताया श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चविंशमध्ययनं सम्पूर्णम् ॥ २५॥ பலலல்லலலலலலம்
॥ अथ षड्विंशमध्ययनम् ॥
॥ॐ॥उक्तं पञ्चविंशमध्ययनं अथ सामाचारीसंज्ञं पड़िशमारभ्यते अस्य चायं सम्बन्धोऽनन्तराध्ययने त्रसगुणा उक्ताः ते च यतेरेव स्युः, तेन चावश्यं सामाचारी समाचरणीया, सा चास्मिन्नुच्यत इत्येवं सम्बन्धस्यास्पदमादिसूत्रम्मूलम्-सामायारी पवक्खामि, सव्वदुक्खविमोक्खणि।जं चरित्ताण निग्गंथा, तिण्णा संसारसागरं ॥१॥
व्याख्या सामाचारी साधुजनकर्त्तव्यरूपां 'जं चरित्ता णत्ति' यां चरित्वाऽऽसेव्य 'तिण्णत्ति' तीणाः, उपलक्षणत्वात्तरन्ति तरिष्यन्ति चेति सूत्रावयवार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥१॥ यथाप्रतिज्ञातमाह
मूलम्-पढमा आवस्सिआ नाम १, बिइआ य निसीहिआ २॥
आपुच्छणा य तइआ ३, चउत्थी पडिपुच्छणा ४ ॥२॥ पंचमा छंदणा नाम ५, इच्छाकारो अ छडओ ६ ॥ सत्तमो मिच्छकारो उ ७, तह कारो अ ८ अट्ठमो ॥३॥