________________
उत्तराध्ययन
313 व्याख्या-यथा पनं जले जातं नोपलिप्यते वारिणा, एवं पनवदलिप्सः कामैस्तजातोऽपि यस्तं वयं घूमो ब्राह्मणम् ॥ २५ ॥ २६ ॥ इत्थं मूलगुणैस्तमुक्त्वा उत्तरगुणैस्तमाहमूलम्-अलोलु मुहाजीवी, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु, तं वयं ब्रूम माहणं ॥२७॥
व्याख्या-अलोलुपं आहारादावलम्पटं 'मुहाजीवित्ति' मुधाजीविनं अज्ञातोञ्छवृत्तिं, न तु भेषजमन्त्राद्युपदेशकृताजीविक। असंसक्तमसम्बद्धं गृहस्थैः पूर्वसंस्ततपश्चात्संस्ततैः॥ २७॥ मूलम-जहित्ता पूवसंजोगं, नातिसंगे अ बंधवे । जो न सजइ एएसु, तं वयं बूम माहणं ॥२८॥
व्याख्या-हित्वा त्यक्त्वा पूर्वसंयोगं मात्रादिसम्बन्धं, ज्ञातिसङ्गान् खस्रादिसम्बन्धान, चस्स भिन्नक्रमत्वाद्वान्धयांश्च यो न सजति न भूयो रज्यते एतेषु ॥ २८ ॥ अथ वेदाध्ययनं यजनं च त्रायकमिति तद्योगादेव ब्राह्मणो न तु त्वदुक्त इसाशंक्याहमुलम्-पसुबंधा सववेआ, जटुं च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥२९॥
व्याख्या-पशूनां वन्धो विनाशाय नियमनं यैहेतुभिस्ते पशुबन्धाः सर्ववेदा ऋग्वेदादयः, 'जहँ चत्ति' इष्टं यजनं, चः समुचये, पापकर्मणा पापहेतुपशुवधाद्यनुष्ठानेनन तं यष्टारं त्रायन्ते दुश्शीलं दुराचारं भवादिति गम्यते, यतः कर्माणि वलवन्ति दुर्गतिनयनं प्रति समर्थानि इह वेदाध्ययने यजने च जायन्ते, पशुवधादिप्रवर्तकतया तयोः कर्मबलवर्द्धकत्वादिति भावः । ततो नानयोर्योगात् ब्राह्मणः स्यात्किन्तु पूर्वोक्तगुणयुक्त एवेति तत्त्वम् ॥२९॥ अन्यच्च मूलम्-नविमुंडिएण समणो, न ॐकारेण बंभणो। नमुणी रण्णवासेणं, कुसचीरेण न तावसो॥३०॥ ___ व्याख्या-न नैव, अपिः पूतों, मुण्डितेन श्रमणो निर्ग्रन्यो भवतीति शेषः । न 'ॐकारेणत्ति' ॐभूर्भुवःखरित्यादिना ब्रामणः, न मुनिररण्यवासेन, कुशो दर्भविशेषस्तन्मयं बीरं कुशचीरं वल्कलोपलक्षणमिदं तेन न तापसः॥३०॥ तर्हि कथमेत भवन्तीत्याहमूलम्-समयाए समणो होइ, बंभचेरेण बंभणो। नाणेण य मुणी होई, तवेणं होइ तावसो ॥३१॥
व्याख्या-[स्पष्टा ] तथा ॥ ३१ ॥ मूलम्-कम्मुणा भणो होइ, कम्मुणा होइ खत्तिओ। कम्मुणा वइसो होइ, सुदो हवइ कम्मुणा॥३२॥
व्याख्या-कर्मणा क्रियया प्रामणो भवति, यदुक्तं-"क्षमा दानं दमो ध्यान, सत्यं शौचं धृतिघृणा । ज्ञानं विज्ञानमास्तिक्य-मेतद्राह्मणलक्षणम् ॥ १॥" तथा कर्मणा क्षतत्राणलक्षणेन भपति क्षत्रियः, वैश्यः कर्मणा कृषिपाशुपाल्यादिना भवति, शुद्रो भवति कर्मणा शोचनहेतुपादिसम्पादनरूपेण । कर्मनानात्वाभावे हि ब्राह्मणादिव्यपदेशानामभाव एवेति । ब्राह्मणावसरे च यच्छेपाभिधानं तद्याप्तिदर्शनार्थम् ॥ ३२ ॥ किमिदं खबुद्ध्यवोच्यत इत्याह
१ "ॐ भूर्भुवःस्वस्तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् " ॥ मूलम्---एए पाउकरे बुद्धे, जेहिं, होइ सिणायओ । सवसंगविणिमुकं, तं वयं बूम माहणं ॥ ३३ ॥
व्याख्या-ताननन्तरोक्तान् अहिंसादीन अर्थान्प्रादुरकापीत् प्रकटितवान् बुद्धः सर्वज्ञो वैर्भवति सातकः केवली, ततश्च प्रत्यासन्नमुक्तितया सर्वकर्मविनिर्मुक्तमिव सर्वकर्मविनिर्मुक्तं तं स्नातकं वयं ब्रूमो ब्राह्मणम् ॥ ३३ ॥ मूलम्-एवं गुणसमाउत्ता, जे भवंति दिउत्तमा। ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य ॥३४॥
व्याख्या-एवं गुणरहिंसाचैः समायुक्ता ये भवन्ति द्विजोत्तमाः ते समर्थाः, तुः पूरणे । इत्येकोनविंशति सूत्रार्थः ॥ ३४ ॥ इत्युदीर्यावस्थितो मुनिः, ततश्चमूलम-एवं तु संसये छिन्ने, विजयघोसे अमाहणे । समुदाय तओ तं तु, जयघोसं महामुर्णि॥३५॥
व्याख्या-एवमुक्तनीसा, तुर्वाक्यान्तरोपन्यासे, संशये छिन्ने सति विजयघोषश्चः पूरणे ब्राह्मणः, 'समुदायत्ति' समादाय सम्यक गृहीत्वा ममासौ सोदरो भवति इत्युपलक्ष्येत्यर्थः, ततः संशयच्छेदानन्तरं तं, तुः पूरणे, जयघोषमहामुनिम् ॥ ३५ ॥ किं चकारेत्याहमूलम्--तुट्टे अ विजयघोसे, इणमुदाहु कयंजली । माहणत्तं जहाभू, सुहु मे उवदसि ॥ ३६ ॥
व्याख्या-'इणमुदाहुत्ति' इदमुदाहृतवानुवाचेत्यर्थः, 'जहाअंति' यथाभूतं यथास्थितम् ॥ ३६ ॥ मूलम्---तुब्भे जइआ जण्णाणं, तुब्भे वेअविऊ विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ३८