________________
312
उत्तराध्ययन
कार्या, दीक्षितेनामिकारिका ॥ १॥” इत्यादिरूपा गृह्यते, तदेव मुखं प्रधानं येषां ते अग्निहोत्रमुखा वेदाः॥ वेदानां हि दभ इव नवनीतमारण्यकं प्रधान, तत्र च "सत्यं तपश्च सन्तोषः, क्षमा चारित्रमार्जवम् ॥ श्रद्धा धृतिरहिंसा च, संवरश्च तथापरः ॥ १७ ॥” इति दशप्रकार एव धर्मःप्रोचे । तदनुसारि चोक्तरूपमेवामिहोत्रमिति । तथा यज्ञो भावयज्ञः संयमरूपस्तदर्थी वेदसा यागानां मुखमुपायः, यज्ञा हि सत्येव यज्ञार्थिनि प्रवर्तन्ते । नक्षत्राणां मुखं प्रधानं चन्द्रः । धर्माणां काश्यपो युगादिदेवो मुखमुपायस्तस्यैव प्रथमतस्तत्प्ररूपकत्वात् ॥ १६ ॥ काश्यपस्यैव माहात्म्यप्रकाशनेन धर्ममुखत्वं समर्थयितुमाहमूलम्-जहा चंद गहाईआ, चिट्ठति पंजलीउडा । वंदमाणा नमसंता, उत्तम मणहारिणो ॥ १७ ॥
व्याख्या-यथा चन्द्र ग्रहादिकाः 'पंजलिउडत्ति' कृतप्राञ्जलयः वन्दमानाः स्तुवन्तो नमस्यन्तो नमस्कुर्वन्तः उत्तम प्रधानं यथा स्यात् तथा मनोहारिणोऽतिविनीततया चित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैव वृषभमपि भगवन्तं देवेन्द्रमुख्या इत्युपस्कारः ॥ १७ ॥ अनेन प्रश्नचतुष्कोत्तरमुक्तं, पञ्चमप्रश्नमधिकृत्याहमूलम्-अजाणगा जण्णवाई, विजा माहणसंपया।गूढा सज्झायतवसा, भासछन्ना इवऽग्गिणो॥१८॥
व्याख्या--'अजाणगत्ति' अज्ञाः के ते १ यज्ञवादिनो ये तव पात्रत्वेनाभिमताः, कासामज्ञा इत्याह-'विजामाणसंपयत्ति' विद्याब्राह्मणसम्पदा, तत्र विद्या आरण्यकब्रह्माण्डपुराणादिधर्मशास्त्ररूपास्ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदः । तात्विकब्राह्मणानां हि निष्किञ्चनतया विद्या एव सम्पदः स्युः तद्विज्ञत्वे च कथममी बृहदारण्यकादिप्रोक्तं दशविधधर्म विदन्तोऽपि यज्ञमेव कुर्युरिति १ तथा गूढा बहिः संवरवन्तः, केन हेतुना ? खाध्यायतपसा वेदाध्ययनोपवासादिना । अत एव 'भासछन्ना इवग्गिणोत्ति' भस्मच्छन्ना अग्नय इव । यथा हि ते बहिरुपशममाज इवाभान्ति, अन्तः पुनर्जाज्वल्यमाना एव । एवमेतेप्यन्तःकषायवत्तया ज्वलिता एव स्युरेवं च भवदभिमतब्राह्मणानां खपरोद्धरणक्षमत्वं दुरापास्तमेवेत्यर्थः ॥ १८ ॥ कस्तर्हि भवन्मते ब्राह्मणो यः पात्रमित्याहमूलम्-जोलोए बंभणो वुत्तो,अग्गी वा महिओ जहा । सया कुसलसंदिटुं, तं वयं बूम माहणं ॥ १९ ॥
व्याख्या-यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, 'अग्गी वा महिओ जहत्ति' वा पूरणे, यथेतिभिन्नक्रमस्ततो यथामियत्तदोर्नित्याभिसम्बन्धात् तथा महितः पूजितः सन् , सदा कुशलैः तत्त्वज्ञैः सन्दिष्टं कथितं कुशलसन्दिष्टं तं वयं ब्रूमो ब्राह्मणम् ॥ १९ ॥ इत उत्तरसूत्रः कुशलसन्दिष्टवालणखरूपमाहमूलम्-जो न सजइ आगंतुं, पत्वयंतो न सोअइ । रमए अजवयणमि, तं वयं बूम माहणं ॥ २० ॥
व्याख्या-यो न सजति नाभिष्वङ्गं करोति आगन्तुं प्राप्तुं खजनादिस्थानमिति गम्यते, आगत्य च प्रव्रजन् तत एव स्थानन्तरं गच्छन्न शोचति, यथाहं कथमेनं विना स्थास्थामीति ? अत एव रमते आर्यवंचने तीर्थकृवचसि ॥२०॥ मूलम्-जायरूवं जहामढे, निद्धंतमलपावगं । रागद्दोसभयाइअं, तं वयं बूम माहणं ॥ २१॥
व्याख्या-जातरूपं वर्ण यथा आमृष्टं तेजःप्रकर्षार्थ मनःशिलादिना परामृष्टं, अनेनाऽस्य बायो गुण उक्तः । 'निद्धतमलपावगंति' प्राकृतत्वात् पावकेनामिना निर्मातं दग्धं मलं किहें यस तत्पावकनिर्मातमलं, अनेन
रस्ततो जातरूपवद्वाह्यान्तरगुणान्वितः। अत एव रागद्वेषभयातीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ॥२१॥ मूलम्-तसे पाणे विआणित्ता, संगहेण यथावरे । जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ॥२२॥
व्याख्या-त्रसप्राणिनो विज्ञाय सङ्ग्रहेण संक्षेपेण चशब्दाद्विस्तरेण च तथा स्थावरान् यो न हिनस्ति त्रिविधेन योगेनेति गम्यते ॥ २२ ॥ मूलम्-कोहा वा जइ वा हासा, लोहा वा जइ वा भया ।मुसं न वयई जो उ, तं वयं बूम माहणं२३
चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं। न गिण्हइ अदत्तं जो, तं वयं बूम माहणं ॥२४॥ व्याख्या-[स्पष्टे नवरम् ] चित्तवद्विपदादि, अचित्तं सुवर्णादि ॥ २३ ॥ २४ ॥ मूलम्-दिवमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मणसा काय वक्केणं, तं वयं बूम माहणं ॥२५॥
जहा पउमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहि, तं वयं बूम माहणं ॥२६॥