Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 322
________________ 317 उत्तराध्ययन व्याख्या- 'बिइअंति' द्वितीयायां ध्यानं धर्मध्यानं, तृतीयायां निद्रायाः पूर्वरुद्धाया मोक्षो मुत्कलनं निद्रामोक्षः तं कुर्यात्, वृषभापेक्षं चैतत्, सामस्त्येन तु प्रथमचरमयामजागरणमेव । तथा चागमं - " सच्चेऽवि पढमजामे, दोणि उबराहाण आइमा जामा ॥ तइओ होइ गुरूणं, चउत्थओ होइ सधेसिं" इति ॥ १८ ॥ अथ रात्रिभागचतुष्कज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाह -- मूलम् - जं नेइ जया रत्तिं, नक्खत्तं तम्मि नहचउभाए । संपत्ते विरमिज्जा, सज्झाय पओसकालंमि १९ व्याख्या --- यन्नयति प्रापयति समाप्तिमिति गम्यते, यदा रात्रिं क्षपां नक्षत्रं, यस्मिन् दिने यस्मिन्नक्षत्रेऽस्तमिते रात्रपर्यन्तो भवतीतिभावः । तच्च नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्द्दशं भवतीति वृद्धाः । तस्मिन्नक्षत्रे नभश्चतुर्भागे सम्प्रा विरमेत् निवर्त्तत, 'मज्झायत्ति' स्वाध्यायात्प्रदोषकाले रात्रिमुखे प्रारब्धादिति शेषः ॥ १९ ॥ मूलम् -तम्मेव य नक्खत्ते, गयण चउब्भाग सावसेसंमि । वेरत्तिअंपि कालं, पडिलेहित्ता मुणी कुज्जा २० व्याख्या--तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते 'गयणति' गगने, कीदृशे ? चतुर्भागेन गन्तव्येन सावशेषं चतुर्भागसावशेषं तस्मिन् वैशत्रिकं तृतीयं, अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं, 'पडिले हित्तत्ति' प्रत्युपेक्ष्य प्रतिजागर्य मुनिः कुर्यात् करोतेः सर्वेधात्वर्थव्यासत्वाद्गृहीयात् । इह च प्रथमादिषु नमचतुर्भागेषु सम्प्रासे रात्रिसमायके नक्षत्रे रात्रेः प्रथमाद्याः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रचतुष्कार्थः ॥ २० ॥ इत्थं सामान्येन दिननिशाकृत्यमुपदर्श्य पुनर्विशेषात्तदेव दर्शयन्नादौ दिनकृत्यं सार्द्धसप्तदशसूत्रैराह - मूलम् - पुविलंमि चउन्भागे, पडिले हित्ताण मंडगं । गुरुं वंदित्तु सज्झायं, कुज्जा दुक्ख विमोक्खणं ॥ २१ ॥ व्याख्या - पूर्वस्मिंश्चतुर्भागे प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य साध्यायं कुर्यादितियोगः, किं कृत्वेत्याह- प्रत्युपेक्ष्य भाण्डक वर्षाकल्पादिकमुदधिं सूर्योदयसमये इति शेषः ॥ २१ ॥ व्याख्या--' मूलम् - पोरिसीए चउन्भागे, वंदिताण तओ गुरुं । अपडिकमित्ता कालस्स, भावणं पडिलेहए ॥ २२ ॥ -- पौरुप्याश्चतुर्भागे अवशिष्यमाण इति शेषः, ततः पादोनपौरुष्यामित्यर्थः । अप्रतिक्रम्य कालस्य, चतुर्धपौरुप्यामपि स्वाध्यायस्य विधास्यमानत्वात् कालप्रतिक्रमणं च खाध्यायसमाप्तौ स्यादित्यप्रतिक्रम्येत्युक्तम् ॥ २२ ॥ प्रतिलेखनाविधिमाह- मूलम् - मुहपोत्तिअं पडिलेहित्ता, पडिले हिज्ज गोच्छगं । गोच्छगलइअंगुलिओ, स्थाई पडिलेहए ॥ २३ ॥ व्याख्या -- मुखवत्रिकां प्रतिलिख्य प्रतिलेखयेत् 'गोच्छगं' पात्रकोपरिवर्त्ति उपकरणं, ततश्च 'गोछगलइ अंगुलियोति' प्राकृतत्वादङ्गुलिभितो गृहितो गोच्छको येन सोऽङ्गुलिलातगोच्छकः, वाणि पटलकरूपाणि प्रतिलेखयेत् प्रस्तावात्प्रमार्जयेदित्यर्थः ॥ २३ ॥ इत्थं तथास्थितान्येव पटलानि गोच्छकेन प्रमृज्य गुनर्यत्कुर्यात्तदाहमूलम् - उड्डुं थिरं अतुरिअं पुत्रं ता वत्थमेत्र पडिलेहे। तो बिइयं पप्फोडे, तइअं च पुणो पभजिजा ॥२४॥ व्याख्या -- ऊकायतो वस्त्रतश्च तत्र कायत उत्कुटुको वस्त्रतस्तु तिर्यक्प्रसारितवस्त्रः । स्थिरं दृढग्रहणेन, अत्वरितं अद्भुतं यथाभवत्येवं पूर्व प्रथमं 'ता इति' तावद्वत्रं पटलकरूपं जातावेकवचनं । अत्र व पटलकक्रमेपि यमिति सामान्यशब्दाभिधानं तद्वर्षाकल्पादिप्रतिलेखनायामप्ययमेव विधिरिति ख्यापनार्थ एवशब्दो भिन्नकमस्ततः प्रत्युपेक्षेतैव, आरतः परतश्च निरीक्षेतैव, न तु प्रस्फोटयेत् । तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र सङ्क्रमयति । 'तो इति' ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात् किमित्याह यत् शुद्धं सत् प्रस्फोटयेत् । तृतीयं च पुनरिदं कुर्यात्, प्रमृज्यात प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः ॥ २४ ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याह मूलम् - अणचाविअं अवलियं, अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणीपाणिविसोहणं व्याख्या -- अनातं, वस्त्रं वपुर्वा यथा नर्त्तितं न भवति । अवलितं यथाऽऽत्मनो वस्त्रम्य च वलितं मोटनं न स्यात् । अननुबन्धि, अनुबन्धेन नैरन्तर्यरूपेण युक्तमनुबन्धि, न तथा अननुबन्धि, कोऽर्थी ? लक्ष्यमाणविभागं यथा भवति तथा । 'अमोसलित्ति' सूत्रत्वादमर्शवत् तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शयुक्तं यथा न स्यात्तथा । किमित्याह - 'छप्पुरमत्ति' पट् पूर्वाः, पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मका: क्रियाविशेषा येषां ते षटू

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424