________________
291 उत्तराध्ययन राहे, तयोश्चाभवतां प्रिये ॥ ४ ॥ विश्वभूतिर्वेश्ममार-मारोप्य सुतयोस्तयोः॥प्रपद्य प्रायमन्येधु-विपद्य त्रिदिवं ययौ ॥५॥ भार्याप्यनुद्धरा तस्य, तद्वियोगज्वरातुरा ॥ शोपयित्वा वपुः शोक-तपोभ्यां मृत्युमासदत् ! ॥ ६ ॥ चक्रतुः सोदरौ तौ च, खपित्रोरौद्धदेहिकम् ॥ पुरोहितपदं त्वाप, कमठः स हि पूर्वजः॥७॥ व्रताय स्पृहयन्नन्त-विषयेभ्यः पराशुखः ॥ बभूव मरुभूतिस्तु, धर्मकर्मरतो भृशम् ॥ ८ ॥ रमणीयाकृति तस्य, रमणी नवयौवनाम् ॥ इष्ट्वा वसुन्धरां क्षोभ, बभाज कमठोऽन्यदा ॥९॥ ततः स तो प्रकृत्याऽपि, परस्त्रीलम्पटो विटः ॥ आलापयप्रियालापै-मन्मथगुमदोहदैः॥१०॥तां चेत्यूचे स्मरव्याधि-लुप्तलज्जाविलोचनः ॥ भोगान् विना मुधा मुग्धे!, वयः किं गमयस्यदः १ ॥ ११ ॥ निःसत्वः सेवते न त्वां, यदि मूढो ममानुजः ॥ तत्किं तेन मया साकं, रमख त्वं मनोरमे ! ॥ १२ ॥ तेनैवमुदिता खांके, सादरं विनिवेशिता ॥ भोगेच्छुः पूर्वमप्यु वैः, प्रपेदे तद्वसुन्धरा ! ॥ १३ ॥ ततो विवेकं मर्यादा, अपां चावगणय्य तौ ॥ सेवेते स्म रहो नित्यं, पशुकल्पौ पशुक्रियाम् । ॥ १४ ॥ कथञ्चित्तष विज्ञाय, वरुणा कमठागना ॥ असूयाविवशा सर्व-मुवाच मरुभूतये ॥ १५॥ असम्भाव्यमदाऽप्रेक्ष्य, खयं प्रत्येति कः सुधीः ॥ ध्यायन्निति ततोऽगच्छ-न्मरुभूतिरुपाप्रजम् ॥ १६ ॥ यामि नामान्तरं भ्रात-रित्युदीर्य बहिर्ययौ ॥ कृत्वा वेषान्तरं चाभू-जन्मकार्पटिकोपमः ॥ १७ ॥ नक्तं चोपेत्य कमठ-मित्यूचे भाषयाऽन्यया ॥ शीतत्राणक्षम देहि, स्थानं दूराध्वगाय मे ॥ १८ ॥ अज्ञातपरमार्थस्तं, कमठोऽप्येवमब्रवीत् ॥ भोः कार्पटिक ! तिष्ठ त्व-मिहगर्भगृहान्तिके ॥ १९ ॥ भरभूतिस्ततस्तत्र, सुष्वापालीकनिद्रया ॥ कामं कामान्धयोर्द्रष्टु-फामो दुश्रेष्टितं तयोः ॥ २०॥ मरुभूतिर्गतोऽस्तीति, निदशंकं रममाणयोः ॥ वसुन्धराकमठयो-स्तमन्यायं ददर्श च ! ॥ २१ ॥ अक्षमोऽपि स तद्रष्टुं, भीरर्लोकापवादतः ॥ चकार न प्रतीकारं, निरगाच ततो द्रुतम् ॥ २२ ॥ गत्वा चोवाच तत्स4-मरविन्दमहाभुजे ॥ मापोऽप्यादिक्षदारक्षा-स्तनिवासयितुं पुरात् ॥ २३ ॥ तेऽपि गईभमारोप्य, रसद्विरसडि
वजीर्णपनद्धा-मालामालितकन्धरम् ॥ २४ ॥ उच्चैरुपोषिताकार्य, रक्षामूत्रविलेपनम् ॥ कमठं भ्रमयित्वान्त-नगरं निरवासयत् ! ॥ २५ ॥[युग्मम् ] एवं विडम्बितो जात-वैराग्यो विपिनं गतः ॥ कमटस्तापसीभूया-ऽऽरभे बालतपो भृशम् ॥ २६ ॥ मरुभूतिस्ततो जात-पश्चात्तापो व्यचिन्तयत् ॥ धिग्मां राज्ञे गृहच्छिद्रं, प्रोच्याग्रजविडम्बकम् ! ॥ २७ ॥ गृहदुश्चरितं जातु, प्रकाश्यं नैव कस्यचित् ॥ इति नीतिवचोऽप्यद्य, व्यसा हि रुषाकुलः ! ॥ २८ ॥ क्षमयामि तदद्यापि, मन्तुमेनं निजाग्रजम् ॥ ध्यात्वेति तद्वनं गत्वा, सोऽपतत्तस्य पादयोः ॥ २९ ॥ कमठो दुर्धियामेक-भठो दुष्कर्मकर्मठः ॥ विडम्बनां तां तन्मूलां, मृत्योरप्यधिकां स्मरन् ॥३०॥ मूर्भि प्रणमतो भ्रातु-सदोरिक्षप्याऽक्षिपच्छिलाम् ॥ दुष्टस्य सान्त्वनं नूनं, शान्तस्याः प्रदीपनम् । ॥ ३१॥ [ युग्मम् ] तत्प्रहारक्षुण्णमौलि-म॒त्वाऽऽर्तध्यानयोगतः ॥ मरुभूतिरभूद्विन्ध्या-चले यूथाधिपो द्विपः ॥ ३२॥ ___ इतश्च शरदि क्रीडन् , समं स्त्रीभिहोपरि ॥ अरविन्दनृपोऽपश्य-क्षणालब्धोदयं धनम् ॥ ३३ ॥ शकचापा. श्चितं तं च, गर्जन्तं हृद्यविद्युतम् ॥ अहो रम्योयमित्युच्चे-वर्णयामास भूधवः ! ॥ ३४ ॥ मेघः स तु क्षगायोनि, व्यानशे तैलवजले ॥ क्षणाचाऽपुण्यवान्छाव-द्वातोद्भूतो न्यलीयत !॥ ३५ ॥ ततो दध्यौ नृपो यथातथा विश्वेऽपि विश्वेऽमी, भावास्तत्तेषु का रतिः ॥३६॥ ध्यायन्नित्यादि तत्काल-मवधिज्ञानमाप सः॥राज्ये न्यस्याङ्गजं पार्थे, सद्गुरोश्चाददे व्रतम् ॥ ३७॥ क्रमाच श्रुतपारिणो, विहरन्सोऽन्यदाऽचलत्॥समसागरदत्तेभ्य-सार्थेनाष्टापदम्प्रति ॥ ३८ ॥ तं नत्वा सार्थपोऽ पृच्छत् ,क वो गम्यं ? प्रभो! इति ॥ गन्तव्यं तीर्थयात्रार्थ, ममेति यतिरप्यवक् ॥ ३९ ॥ सार्धेशः पुनरप्यूचे, धर्मः को भवतामिति ॥ ततः सविस्तरं तस्मै, जैन धर्म मुनिर्जगी ॥४०॥ तञ्चाकर्ण्य सकर्णो द्राक्, श्राद्धत्वं प्रत्यपादि सः ॥ सुक्षेत्रे बीजयदक्षे, झुपदेशो महाफलः ! ॥ ४१ ॥ सोऽथ सार्थोऽटवीं प्राप, मरुभूतिगजाश्रिताम् ॥ तस्यां च सरसस्तीरे, भोजनावसरेऽवसत् ॥४२॥ तदा च मरुभूतीभो, वृतो भूरिकरेणुभिः ॥ तत्रागत्य तटाकेऽम्भो-ऽम्भोदोऽम्भोधाविवापिबत् ॥४३॥ करिणीभिः समं तत्र, क्रीडित्वा पालिमाश्रयत् ॥ दिशः पश्यन्नपश्यच, तं सार्थ तत्र संस्थितम् ॥ ४४ ॥ तद्वधाय च सोधावत् , क्रुधाऽन्तक इवापरः ॥ तं चायान्तं वीक्ष्य सर्वे, प्रणेशुः सार्थिका द्रुतम् ॥ ४५ ॥ तं चावबुध्य बोधाहे-मवधेः स तु सन्मुनिः ॥ कायोत्सर्गेण तस्थौ त-मार्गेऽचल इवाचलः ॥ ४६॥ धावन्कुम्भी तु तमभि, क्रुधा तत्पार्धमागतः ॥ तं पश्यन्प्राप शान्तत्वं, स्थिरः तस्थौ च तत्पुरः ॥४७॥ उत्सर्ग पारयित्वाऽथ, तस्योपकृतये व्रती ॥ इत्यूचे भोः स्मरसि तं, मरुभूतिभवं न किम् ? ॥ ४८ ॥ मां चारविन्दभूपालं, न किं जानासि ? सन्मते ! ॥ प्राग्भवे चाटतं श्राद्ध-धर्म किं व्यस्मरः? कृतिन् !॥४९॥ इति तद्वचसा जाति-स्मरणं प्राप्य स द्विपः॥उदश्चितकरो भूमि-न्यस्तमद्धोन ॥५०॥ तेनोक्त साधुना श्राद्ध-धर्म च प्रतिपद्य सः ॥ नत्वा मुनिं गुणास्थानं, स्वस्थाने खस्थधीयेयी ॥५१॥