________________
292
उत्तराध्ययन
दृष्ट्वा तदद्भुतं पूर्व-नष्टान्ते सार्थिका अपि ॥ उपेय तं यतिं नत्वा, श्राद्धधर्म प्रपेदिरे ॥ ५२ ॥ सार्थेशोऽपि ततोऽत्यन्तं, जिनधर्मेोऽभवत् ॥ अष्टापदेऽर्हतो नत्वा, मुनिरप्यन्यतोऽगमत् ॥ ५३ ॥ सोऽपि स्तम्बेरमश्राद्ध-श्वरन्मुनिवदीर्यया ॥ षष्टादिकं तपः कुर्वन्, शुष्कपत्रादिपारणः ॥ ५४ ॥ भानुभानुभिरुत्तसं, पल्वलादिजलं पिबन् ॥ तस्थौ शुभाशयस्त्यक्त-वशा के लिरसोऽनिशम् ! ॥ ५५ ॥ [ युग्मम् ]
इतन कमटोऽशान्त - कोपो हत्वापि सोदरम् ॥ विन्ध्याटव्यामभून्मृत्वा - इत्युत्कटः कुक्कुटोरगः ॥ ५६ ॥ स श्रमब्रेकदाऽपश्य-न्मरुभूतिमतङ्गजम् ॥ प्रविशन्तं सरस्यम्भः पातुं नतापितम् ॥ ५७ ॥ सोऽनेकपस्तदा पक्के मज दैवनियोगतः ॥ कुक्कुटाहिः स तं सद्यो, ददंशोडीय मस्तके ॥ ५८ ॥ ज्ञात्वाऽन्तं तद्विपावेशाद्विधायाऽनशनं द्विपः ॥ वेदनां सहमानस्तां स्मरन् पञ्चनमस्त्रियः ॥ ५९ ॥ सप्तदशसागरायु-विपद्य त्रिदशोऽभवत् ॥ सहस्रारे सहलाशु-सहस्रांशुजयी रुचा ॥ ६० ॥ [ युग्मम् ] मृत्वा कुक्कुटनागोऽपि, सोऽन्यदा पञ्चमावनौ ॥ बभूव नारकः सप्तदशसागरजीवितः ॥ ६१ ॥
"इतश्च" जंबूद्वीपे प्राविदेहे, सुकच्छविजयेऽभवत् ॥ वैताढ्याद्रौ पुरी नाम्ना, तिलका विजितालका ॥ ६२ ॥ नाना विद्युतिस्तत्राऽभवत्खेचरभूधरः ॥ राज्ञी तु तस्य कनक-तिलका कनकच्छविः ॥ ६३ ॥ सोऽय जीवः सामयोने-रष्टमस्वर्गतथ्युतः । जज्ञे किरणवेगाहू-स्तयोः सूनुर्महाबलः ॥ ६४ ॥ क्रमादृद्धिं गतो विद्याः, कलाथाभ्यस्य सोऽखिलाः ॥ वैदग्ध्यैककलाचार्य, वयो मध्यममध्यगात् ॥ ६५ ॥ राज्ये स चान्यदा न्यस्तः, पित्रा स्वीकुता व्रतम् ॥ न्यायेनापालयलोकं, लोकपाल इवापरः ॥ ६६ ॥ गुरोर्नाम्ना सुरगुरो - रन्यदाकर्ण्य देशनाम् ॥ प्रात्राजीजातसंवेगा-वेगः किरणवेगराट् ॥ ६७ ॥ गीतार्थः स्वीकृतैकाकि - विहाराभिग्रहः क्रमात् ॥ नभोगत्या मुनिः सोऽगात्पुष्करद्वीपमन्यदा ॥ ६८ ॥ तत्र तस्थौ च कनक- गिरिनानोऽन्तिके गिरेः ॥ कायोत्सर्गेण स मुनि - र्विदधद्विविधं तपः ॥ ६९ ॥
इतोद्धृत्य नरका - जीवः कुक्कुटभोगिनः ॥ गहरे तस्य शैलस्य, भुजगोऽभून्महाविपः ॥ ७० ॥ स चाद्रिं निकषा भ्राम्यन् ध्यानस्थं वीक्ष्य तं मुनिम् ॥ क्रुद्धः प्राग्भववैरेण सर्वेष्वंगेषु दष्टवान् ॥ ७१ ॥ ततः किरणवेगर्वि-विहितानशनः सुधीः ॥ सर्पोऽसौ मे सुहृत्कर्म - क्षयकारीति भावयन् ॥ ७२ ॥ मृत्वा जंबूदुमावर्त्ते, विमानेऽच्युतकल्पगे ॥ द्वाविंशत्य वायुको -ऽभूद्विभाभासुरः सुरः ॥ ७३ ॥ भोगी स तु भ्रमन् शैल-मूले दग्धो दवाग्मिना ॥ भूयोऽभून्ना रको ज्येष्ठ-स्थितिकः पञ्चमावनौ ॥ ७४ ॥
इतश्च जंबुद्धीपेऽत्र, प्रत्यग्विदेहमण्डने || सुगन्धिविजये रम्या, शुशुभे पूः शुभङ्करा ॥ ७५ ॥ वर्यवीर्योऽभवत्तत्र, वज्रवीर्याऽभिधोनृपः ॥ तस्यासीन्महिपी लक्ष्मी-वती लक्ष्मीरिवापरा ॥ ७६ ॥ जीवः किरणवेगर्पे - रन्येद्युः प्रच्युतोऽच्युतात् ॥ वज्रनाभाह्वयो वज्रि - जैत्रोऽभूत्तनयस्तयोः ॥ ७७ ॥ वर्द्धमानः क्रमाद्र-नाभोऽधीयाखिलाः कलाः ॥ नैपुण्यमिव पुण्यात्मा, पुण्यं तारुण्यमासदत् ॥ ७८ ॥ तस्मै दत्वाऽन्यदा राज्यं, वज्रवीर्योऽग्रहद्रतम् ॥ वज्रनाभस्ततो राज्य - मन्त्रशा दुग्रशासनः ॥ ७९ ॥ विरक्तः सोऽन्यदा राज्ये, न्यम्य चक्रायुधं सुतम् ॥ क्षेमङ्करार्हतोऽभ्यर्णे, दक्षो दीक्षामुपाददे ॥ ८० ॥ तप्यमानस्तपस्तीत्रं, सहमानः परीपहान् ॥ स साधुरा सदलब्धी - राकाशगमनादिकाः ॥८१॥ गुरोरनुज्ञयेकाकी, विहरन् सोऽन्यदा मुनिः ॥ सुकच्छविजयेऽगच्छ-त्समुत्पत्य विहायसा ॥ ८२ ॥ विहरंस्तत्र सोs - न्येद्युर्भीमकान्तारमध्यगम् ॥ ज्वलनाद्रिं ययावस्ता चलं च तरणिस्तदा ॥ ८३ ॥ ततस्तस्य गिरेः क्वापि, कन्दरे स महामुनिः ॥ सत्वशाली निसर्गेण कायोत्सर्गेण तस्थिवान् ॥ ८४ ॥ प्रातश्च मणिज्योति - द्योतितं धरणीतलम् ॥ जीवरक्षाकृते पश्यन् विहर्तुमुपचक्रमे ॥ ८५ ॥ उद्धृत्योरगजीवोऽपि नरकात्पर्यटन् भवे ॥ गिरेस्तस्यान्तिके भिलोऽभवन्नाम्ना कुरङ्गकः ॥ ८६ ॥ पापः पापर्द्धिविहिता - जीवो जीवक्षयोद्यतः ॥ मृगयायै व्रजन्पूर्व, सोऽपश्यत्तं मुनिं तदा ॥ ८७ ॥ अमात्रमङ्गलमिति, क्रुद्धः प्राग्रतोऽथ सः ॥ आकर्णाकृष्टमुक्तेन पृपक्केन न्यहन्मुनिम् ॥ ८८ ॥ वदनमोहद्भय इति, प्रहारार्त्ता प्रती तु सः ॥ उपविश्य भुवि त्यक्त-भक्तप्राणवपुःस्पृहः ॥ ८९ ॥ क्षमयित्वाऽखिलान् जन्तून, शुभध्यानी विषद्य न ॥ मध्ययैवेयके देवो, ललिताङ्गाभिघोऽभवत् ॥ ९० ॥ [ युग्मम् ] मृतमेकप्रहारेण, तमुदीक्ष्य कुरङ्गकः ॥ महावलोऽहमस्मीति मुमुदे दुर्मदो भृशम् ! ॥ ९१ ॥ कालान्तरे च कालेन, स भीलः कवलीकृतः ॥ वासे रौरवाऽभू-नारकः सप्तमावनी ॥ ९२ ॥
इतच जम्बुदीपेऽत्र, प्राग्विदेहविभूषणम् ॥ पुराणपुरमिलासी - त्परमर्द्धिभरं पुरम् ॥ ९३ ॥ भूपोऽभूत्तत्र कुलिश-त्राहुनामा महाबलः ॥ सुदर्शनाभिधा तस्य, कान्तासीत्कान्तदर्शना ॥ ९४ ॥ वज्रनाभस्य जीवोऽथ, च्युत्वा