________________
290 उत्तराध्ययन मूलम्-तीसे सो वयणं सोचा, संजयाइ सुभासि। अंकुसेण जहा नागो, धम्मे संपडिवाइओ॥४६॥
व्याख्या--अंकुसेणेत्यादि-अडशेन यथा नागो हस्ती मार्गे इतिशेषः, धर्मे चारित्रधर्मे संप्रतिपातितः स्थितः तद्वचसैवेति गम्यते । अत्रचायं वृद्धवादः “नूपुरपण्डिताख्याने रुष्टेन राज्ञा देवीमिण्ठवारणा मारणार्थ गिरिशृङ्गमारोपिताः, तत्र नृपादिष्टमिण्ठनुन्नेन दन्तिना पातार्थ क्रमात्रयः क्रमा आकाशे कृताः, ततः किमयं चिन्तामणिरिव दुरापो द्विपचूडामणिसुधा मार्यत इत्यार्यलोकैर्विज्ञसेन राज्ञा हस्तिरक्षणायोक्तो हस्तिपको राया आत्मनश्चाभयमभ्यर्थ्य तं गजं शनैः शनैः शैलशिखरादुदतारयदिति" यथा चायं तावती भुवं प्राप्तोऽपि द्विषोडशवशात्पथि संस्थितः, एवमयमप्युत्पन्नविश्रोतसिको राजीमतीवाक्येनाहितप्रवृत्तिनिवर्तकतयाङ्कुशदेश्येन धर्मे स्थितः ॥ ४६ ॥ मूलम्-मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। सामण्णं निच्चलं फासे, जावजीवं दढवओ॥४७॥
व्याख्या-'फासेत्ति' अस्पाक्षीदिति सूत्रद्वयार्थः ॥ ४७ ॥ द्वयोरध्युत्तरवक्तव्यतामाह-- मूलम्-उग्गं तवं चरित्ता णं, जाया दुण्णिवि केवली। सवं कम्मं खवित्ता णं, सिद्धिं पत्ता अणुत्तरं ४८
व्याख्या-'दोणिवित्ति' द्वावपि रथनेमिराजीमत्यौ । अनयोश्च चत्वारि वर्षशतानि गार्हस्थ्ये, वर्षमेकं छानस्थ्ये, पञ्चवर्षशतानि केवलित्वे, एकाधिकनववर्षशतानि सर्वायुरभूदिति सूत्रार्थः ॥४८॥ अथाध्ययनार्थमुपसंहरनुपदेशमाहमूलम्-एवं करिति संबुद्धा, पंडिआ पविअक्खणा। विणिअति भोगेसु, जहासे पुरिसुत्तमुत्ति बेमि ४९
व्याख्या-एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, विनिवर्तन्ते कथञ्चिद्विश्रोतसिकोत्पत्तावपि विशेषेण तन्निरोधलक्षणेन निवर्तन्ते मोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ॥४९॥ इति अवीमीति प्राग्वत् ॥इतश्च ॥
भगवान्नेमिनाथोऽपि, विहरनवनीतले ॥ पनानिय सहस्रांशु-भव्यसत्वानबूबुधत् ॥ ४२७ ॥ दशचापोच्छ्यः शङ्ख-लक्ष्माम्भोदप्रभः प्रभुः ॥ दिशो दशाऽऽदिशन् धर्म, दशभेदमपावयत् ॥२८ ॥ अष्टादशसहस्राणि, साधूनां सांधुकर्मणाम् ॥ चत्वारिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ॥ २९ ॥ एकोनसप्ततिसह-स्राग्रं लक्षमुपासकाः॥ लक्षत्रयं च पत्रिंश-त्सहस्राढ्यमुपासिकाः ॥ ३०॥ चतुःपंचाशदिनोना, सप्तवर्पशतीं विभोः ॥ आकेवलाद्विहरतः, संघोऽभूदिति संभवः ॥ ३१ ॥ [त्रिभिर्विशेषकम् ] पर्यन्ते चोजयन्ताद्रौ, प्रपेदेऽनशनं प्रभुः ॥ पत्रिंदशधिकैः सार्द्ध, साधूनां पञ्चभिः शतैः ॥ ३२ ॥ तैः साधुभिश्च सह वर्पसहस्रमान-मायुः प्रर्य जिनभानुररिष्टनेमिः ॥ भासेन निई तिसुखानि ततः प्रपेदे, चक्रे तदा च महिमा सकलैः सुरेशैः ॥ ४३३ ॥ इति श्रीअरिष्टनेमिजिनचरितम् ॥ १साधुधर्मणाम् । इति 'ध' पुस्तके ॥ २ सत्तमः । इति 'ध' पुस्तके । RECORMACORIANRAIGURASHARMACURRROMORROAT
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय शरी श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वाविंशमध्ययनं सम्पूर्णम् ॥ २२॥
॥ अथ त्रयोविंशमध्ययनम् ॥ अहम् ॥ उक्तं द्वाविंशं, अथ केशिगौतमीयं त्रयोविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने हि कथञ्चिदुस्पन्नविश्रोतसिकेनापि रथनेमियद्धर्मेधृतिः कार्येत्युक्तं, अत्र तु परेपामपि मनोविप्लवः केशिगौतमवदपनेय इत्युच्यते। इतिसम्बन्धस्यास्येदमादिसूत्रं-- मूलम्-जिणे पासित्ति नामेणं, अरहा लोगपूइए। संबुद्धप्पा य सवण्णू, धम्मतित्थयरे जिणे ॥१॥
व्याख्या--जिनो रागद्वेषादिजेता पार्थ इति नानाभूदिति शेषः, अर्हन् विश्वत्रयविहितपूजाहः, अत एव लोकपूजितः, सम्बुद्धस्तत्वावबोधवानात्मा यस्य स तथा । स च छमस्थोऽपि स्थादित्याह सर्वज्ञस्तथा धर्म एव भवाब्धितरणहेतुत्वात्तीर्थ धर्मतीर्थ तत्करणशीलो धर्मतीर्थकरो जिनः सकलकर्मजेता, मुक्त्यवस्थापेक्षमेतदिति सूत्रार्थः ॥१॥ अत्र प्रसङ्गागतं श्रीपार्श्वचरितं लेशतो लिख्यते, तथा हि
अत्रैय भरते वासा-वसथे सकलश्रियाम् ॥ गर्भगेहोपमं जज्ञे, पत्तनं पोतनाभिधम् ॥१॥ नीतिवल्लीपनस्तंत्र, गुणालङ्कृतभूघनः ॥ जिनधर्मारविन्दालि-ररविन्दोऽभवन्नृपः ॥ २॥ लब्धशास्त्राधिरोधास्त-पुरोधा जिनधर्मवित् ॥ विश्वभूतिरभूत्तस्य, भार्या चानुद्धराभिधा ॥ ३॥ सुतौ तयोश्च कमठ-मरुभूती बभूवतुः ॥ वरुणावसुन्ध.