________________
289 उत्तराध्ययन व्याख्या-भीता च सा, माऽसौ मे प्रसह्य शीलभङ्गं कार्षीदिति प्रस्ता, तत्रैकान्ते संयतं तकं दृष्ट्वा बाहुभ्या कृत्या संगोफं स्तनोपरि मर्कटबन्धं वेपमाना शीलभगभयादेव निषीदति । तत्परिष्वङ्गादिपरिहारायेति ॥ ३५ ॥
मूलम्-अह सोवि रायपुत्तो, समुदविजयंगओ। भीअं पवेइअं दङ, इमं वक्कमुदाहरे ॥ ३६॥ न्याख्या-[स्पष्टम् ] ॥ ३६ ॥ मूलम्-रहनेमी अहं भद्दे, सुरूवे चारुभासिणि । ममं भयाहि सुतणू , न ते पीला भविस्सइ ॥३७॥
व्याख्या-मममित्यादि-मां भजख सुतनो ! न ते पीडा भविष्यति, पीडाशङ्कया हि त्वं कम्पसे ! न च पीडाहेतुर्विषयसेवा ! किन्तु सुखहेतुरेवेयमिति भावः ॥ ३७॥
मूलम्-एहि ता भुजिमो भोए, माणुस्सं खु सुदुल्लहं ।
भुत्तभोगी तओ पच्छा, जिणमग्गं चरिस्सिमो ॥ ३८॥ व्याख्या-एहि आगच्छ 'ता इति तस्मात् ॥ ३८ ॥ सतो राजीमती किं चकारेत्याहमूलम्-दहुण रहनेमि तं, भग्गुज्जोअपराइअं । राईमई असंभंता, अप्पाणं संवरे तहिं ॥ ३९ ॥ व्याख्या-'भग्गुज्जो'इत्यादि-भमोद्योगोऽपगतोत्साहः प्रस्तावात्संयमे, स चासौ पराजितश्च वीपरीपण भमोद्योगपराजितस्तं । असम्भ्रान्ता नाऽयं बलादकार्य कर्तेत्याशयादत्रस्ता । आत्मानं समवारीदाच्छादयवीवरेरिति शेषः ॥ ३९॥ मूलम्-अह सा रायवरकन्ना, सुडिआ निअमवए। जाइं कुलं च सीलं च, रक्खमाणी तयं वए॥४०॥
व्याख्या-'निअमचएत्ति' नियमे इन्द्रियनियमने, व्रते दीक्षायां 'वएत्ति' अवादीत् ॥ ४०॥ मूलम्-जइसि रूवेण वेसमणो, ललिएणं नलकूबरो।तहाविते न इच्छामि, जइसि सक्खं पुरंदरो ४१ ___ व्याख्या--'ललिएणंति' ललितेन सविलासचेष्टितेन नलकूबरो देवविशेषः, 'ते इति' त्वां 'जइसित्ति' यद्यसि साक्षात्पुरन्दरः ॥ ४१ ॥ अन्यच्चमूलम्-धीरत्थु तेजसो कामी, जोतं जीविअकारणा। वंतं इच्छसिआवेडं, सेअंते मरणं भवे! ॥४२॥
व्याख्या--धिगस्तु ते तव यशो महा कुलसम्भवोद्भवं हे कामिन् !, यहा धिगस्तु ते इति त्वां हे अयशस्कामिन् । अकीलैभिलापिन् !, यस्त्वं जीवितकारणादसंयमजीवितार्थ वान्तमपि व्रतादानेन भोगसुखमिच्छस्यापातुमुपभोक्तुं । इत्यतः श्रेयः कल्याणं ते मरणं भवेत् ! न तु वान्तापानं, तस्यातिदुष्टत्वादुक्तं हि-"विज्ञाय वस्तु निन्धं, त्यक्त्वा गृहन्ति किं क्वचित्पुरुषाः । वान्तं पुनरपि भुंक्ते, न हि सर्व सारमेयोपि" इति ॥४२॥ मूलम्-अहं च भोगरायस्स, तं चऽसि अंधगवह्निणो। मा कुले गंधणा होमो, संजमं निहुओ चर ४३
व्याख्या-अहं चः पूर्ती भोजराजयोग्रसेनस्य, त्वं चासि अन्धकवृष्णेः कुले जात इति शेषः। अतो मा कुले 'गंधणत्ति' गन्धनानां 'होमोत्ति' भविष्यावस्तचेष्टितकारितयेति भावः । गन्धना हि वान्तमपि विषं मंत्राकृष्टा ज्वलदनलपातभीरुत्वेन पुनरापिबन्ति, न त्वगन्धनाः । तर्हि किं कार्यमित्याह-संयमं निभृतः स्थिरश्चर सेवख ॥४३॥ मूलम्--जइतं काहिसि भावं, जा जा दिच्छसि नारिओ। वायाविद्धुव्व हडो, अहिअप्पा भविस्ससि ४४ ___ व्याख्या-यदि त्वं फरिष्यसि भावं प्रक्रमानोगेच्छारूपं, या या द्रक्ष्यसि नार्यस्तासु ताखिति गम्यते । ततः किमित्याह-वाताविद्धो वायुप्रेरितो हठो वनस्पतिविशेषः स इव अस्थितात्मा अस्थिराशयो भविष्यसि । हठो सदृढमूलतया यतो यतो वातो याति ततस्ततो नमतीत्यस्थिरो भवति, तथा चञ्चलचित्ततया स्त्रियं त्रियं प्रति स्पृहां कुवस्त्वमपीति ॥४४॥ मूलम्-गोवालोभंडवालो वा, जहा तद्दवणिस्सरो। एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि४५
व्याख्या--गोपालो यः परस्य गाः पालयति, भण्डपालो वा यः परस्य भाण्डानि भाटकादिना पालयति स यथा तव्यस्य गवादेरनीश्वरोऽप्रभुः, एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि ! भोगाभिलाषितया तत्फलस्याभावादिति सूत्रषोडशकार्थः ॥ ४५ ॥ एवं तयोक्ते रथनेमिः किं चकारेत्याह