Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 308
________________ 303 उत्तराध्ययन भयङ्कराः व्याख्या - रागद्वेषादयः, आदिशब्दान्मोहादिपरिग्रहः, तीत्रा गाढाः तथा 'नेहत्ति' लेहाः पुत्रादिसम्बन्धास्ते पाशा इव पारवश्यहेतुतया पाशा इत्युक्ताः । अतिगाढत्वाच रागान्तर्गतत्वेऽपि लेहानां पृथकथनं अनर्थकारित्वात् । यथाक्रमं क्रमो यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थः ॥ ४३ ॥ मूलम् - साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ ४४ ॥ व्याख्या - [ प्राग्वत् ] ॥ ४४ ॥ मूलम् - अंतोहिअय संभूआ, लया चिट्ठइ गोअमा ! । फलेइ विसभक्खीणं, सा उ उद्धरिआ कहं ? ४५॥ व्याख्या - अन्तर्हृदयं मनोमध्ये सम्भूता उत्पन्ना लता तिष्ठत्यास्ते, हे गौतम ! फलति 'विसभक्खीणंति' आर्षत्वाद्विषवद्भक्ष्यन्ते इति विषभक्ष्याणि पर्यन्तदारुण तथा विषोपमानि फलानि । सा तु सा पुनः उद्धता उन्मूलिता कथं ? त्वयेति शेषः ॥ ४५ ॥ गौतमः प्राह मूलम् -तं लयं सबसो छित्ता, उद्धरितु समूलिअं । विहरामि जहानायं, मुक्कोमि विसभक्खणं ॥ ४६ ॥ व्याख्या - तां लतां 'सबसोत्ति' सर्वा छित्त्वा उद्धृत्योन्मूल्य समूलिकां रागद्वेषादिमूलयुतां मुक्तोऽस्मि 'विसभक्खणंति' विषभक्षणात् बिषफलाहारोपमात् क्लिष्टकर्मणः ॥ ४६ ॥ मूलम् — लयाय इति का वुत्ता, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥ ४७ ॥ व्याख्या - [ प्राग्वत् ] ॥ ४७ ॥ मूलम् - भवतण्हा लया वुत्ता, भीमा भीमफलोदया । तमुद्धित्तु जहानार्य, विहरामि महामुणी ! ॥ ४८ ॥ व्याख्या- - भवे तृष्णा लोभो भवतृष्णा, भीमा भयदा खरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकर्मणामुदयो विपाको यस्याः सा तथेति सूत्रपञ्चकार्थः ॥ ४८ ॥ मूलम् - साहु गोअम ! पण्णा ले, छिन्नो मे संसओ इमो । अण्णोवि संसओ मझं, तं मे कहसु गोअमा ! ॥ ४९ ॥ व्याख्या - [ प्राग्वत् ] ॥ ४९ ॥ मूलम् - संपज्जलिआ घोरा, अग्गी चिट्ठइ गोअमा ! । जे डहंति सरीरस्था, कहं विज्झाविआ तुमे ? ॥५०॥ व्याख्या —– समन्तात्प्रकर्पेण ज्वलिताः सम्प्रज्वलिताः, अत एव घोराः 'अग्गित्ति' अग्नयः 'चिट्ठइत्ति ' तिष्ठन्ति ये दहन्तीव दहन्ति परितापकारित्वाच्छरीरस्था न बहिर्वर्त्तिनः । कथं ते विध्यापितास्त्वया ? ॥ ५० ॥ गौतमः प्राह---_ मूलम् - महामेहप्पसूआओ, गिज्झ वारि जलोत्तमं । सिंचामि सययं ते उ, सित्ता नो अ दहंति मे ॥ ५१ ॥ व्याख्या - महामेघप्रमृतात् श्रोतस इति गम्यते, ' गिज्झत्ति ' गृहीत्वा वारि जलं, जलोत्तमं शेषजलप्रधानं, सिञ्चामि विध्यापयामि सततं ते उत्ति' तानग्नीन्, सिक्तास्तु ते 'नो अत्ति' नैव दहन्ति माम् ॥ ५१ ॥ मूलम् - अग्गी अ इइ के वुत्ते, केसी गोअममब्बवी । तओ केस बुतं तु गोअमो इणमव्यवी ॥ ५२ ॥ व्याख्या – अभिप्रश्नश्चायं महामेघादिप्रश्नोपलक्षणम् ॥ ५२ ॥ मूलम् - कसाया अग्गिणो वुत्ता, सुअसीलतओ जलं । सुअधाराभिहया संता, भिन्ना हुन उति मे ॥ ५३ व्याख्या – कपाया अग्नयः परितापकतया शोषकतया चोक्ता जिनैः । श्रुतं च उपचारात् कषायोपशम हेतवः श्रुतान्तर्गता उपदेशाः, शीलं च महात्रतरूपं, तपश्च प्रतीतं, श्रुतशीलतपः इति समाहारः जलं वारि । अस्य चोपलक्षणत्वान्महामेघो जगदानन्दकतया तीर्थकरः । श्रोतस्तु तत उत्पन्नः आगमः । उक्तमेवार्थमुपसंहरन्नाह - 'सुअत्ति'श्रुतस्य उपलक्षणत्वात् शीलतपसोश्च धारा इव धारास्तत्परिभावनादिरूपास्ताभिरभिहताः श्रुतधाराभिहताः सन्तः प्रक्रमादुरूपा भयो भिन्ना विदारिता धाराभिघातेन लवमात्रीकृताः, हुः पूर्त्तो, नदहन्ति मामिति सूत्रपञ्चकार्थः ॥ ५३ ॥

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424