________________
303
उत्तराध्ययन
भयङ्कराः
व्याख्या - रागद्वेषादयः, आदिशब्दान्मोहादिपरिग्रहः, तीत्रा गाढाः तथा 'नेहत्ति' लेहाः पुत्रादिसम्बन्धास्ते पाशा इव पारवश्यहेतुतया पाशा इत्युक्ताः । अतिगाढत्वाच रागान्तर्गतत्वेऽपि लेहानां पृथकथनं अनर्थकारित्वात् । यथाक्रमं क्रमो यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थः ॥ ४३ ॥ मूलम् - साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ ४४ ॥
व्याख्या - [ प्राग्वत् ] ॥ ४४ ॥
मूलम् - अंतोहिअय संभूआ, लया चिट्ठइ गोअमा ! । फलेइ विसभक्खीणं, सा उ उद्धरिआ कहं ? ४५॥ व्याख्या - अन्तर्हृदयं मनोमध्ये सम्भूता उत्पन्ना लता तिष्ठत्यास्ते, हे गौतम ! फलति 'विसभक्खीणंति' आर्षत्वाद्विषवद्भक्ष्यन्ते इति विषभक्ष्याणि पर्यन्तदारुण तथा विषोपमानि फलानि । सा तु सा पुनः उद्धता उन्मूलिता कथं ? त्वयेति शेषः ॥ ४५ ॥ गौतमः प्राह
मूलम् -तं लयं सबसो छित्ता, उद्धरितु समूलिअं । विहरामि जहानायं, मुक्कोमि विसभक्खणं ॥ ४६ ॥
व्याख्या - तां लतां 'सबसोत्ति' सर्वा छित्त्वा उद्धृत्योन्मूल्य समूलिकां रागद्वेषादिमूलयुतां मुक्तोऽस्मि 'विसभक्खणंति' विषभक्षणात् बिषफलाहारोपमात् क्लिष्टकर्मणः ॥ ४६ ॥
मूलम् — लयाय इति का वुत्ता, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥ ४७ ॥ व्याख्या - [ प्राग्वत् ] ॥ ४७ ॥
मूलम् - भवतण्हा लया वुत्ता, भीमा भीमफलोदया । तमुद्धित्तु जहानार्य, विहरामि महामुणी ! ॥ ४८ ॥ व्याख्या- - भवे तृष्णा लोभो भवतृष्णा, भीमा भयदा खरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकर्मणामुदयो विपाको यस्याः सा तथेति सूत्रपञ्चकार्थः ॥ ४८ ॥
मूलम् - साहु गोअम ! पण्णा ले, छिन्नो मे संसओ इमो । अण्णोवि संसओ मझं, तं मे कहसु गोअमा ! ॥ ४९ ॥
व्याख्या - [ प्राग्वत् ] ॥ ४९ ॥
मूलम् - संपज्जलिआ घोरा, अग्गी चिट्ठइ गोअमा ! । जे डहंति सरीरस्था, कहं विज्झाविआ तुमे ? ॥५०॥ व्याख्या —– समन्तात्प्रकर्पेण ज्वलिताः सम्प्रज्वलिताः, अत एव घोराः 'अग्गित्ति' अग्नयः 'चिट्ठइत्ति ' तिष्ठन्ति ये दहन्तीव दहन्ति परितापकारित्वाच्छरीरस्था न बहिर्वर्त्तिनः । कथं ते विध्यापितास्त्वया ? ॥ ५० ॥ गौतमः प्राह---_
मूलम् - महामेहप्पसूआओ, गिज्झ वारि जलोत्तमं । सिंचामि सययं ते उ, सित्ता नो अ दहंति मे ॥ ५१ ॥
व्याख्या - महामेघप्रमृतात् श्रोतस इति गम्यते, ' गिज्झत्ति ' गृहीत्वा वारि जलं, जलोत्तमं शेषजलप्रधानं, सिञ्चामि विध्यापयामि सततं ते उत्ति' तानग्नीन्, सिक्तास्तु ते 'नो अत्ति' नैव दहन्ति माम् ॥ ५१ ॥
मूलम् - अग्गी अ इइ के वुत्ते, केसी गोअममब्बवी । तओ केस बुतं तु गोअमो इणमव्यवी ॥ ५२ ॥ व्याख्या – अभिप्रश्नश्चायं महामेघादिप्रश्नोपलक्षणम् ॥ ५२ ॥
मूलम् - कसाया अग्गिणो वुत्ता, सुअसीलतओ जलं । सुअधाराभिहया संता, भिन्ना हुन उति मे ॥ ५३ व्याख्या – कपाया अग्नयः परितापकतया शोषकतया चोक्ता जिनैः । श्रुतं च उपचारात् कषायोपशम हेतवः श्रुतान्तर्गता उपदेशाः, शीलं च महात्रतरूपं, तपश्च प्रतीतं, श्रुतशीलतपः इति समाहारः जलं वारि । अस्य चोपलक्षणत्वान्महामेघो जगदानन्दकतया तीर्थकरः । श्रोतस्तु तत उत्पन्नः आगमः । उक्तमेवार्थमुपसंहरन्नाह - 'सुअत्ति'श्रुतस्य उपलक्षणत्वात् शीलतपसोश्च धारा इव धारास्तत्परिभावनादिरूपास्ताभिरभिहताः श्रुतधाराभिहताः सन्तः प्रक्रमादुरूपा भयो भिन्ना विदारिता धाराभिघातेन लवमात्रीकृताः, हुः पूर्त्तो, नदहन्ति मामिति सूत्रपञ्चकार्थः ॥ ५३ ॥