SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 304 उत्तराध्ययन मूलम्साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। __ अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ ५४॥ व्याख्या-[प्राग्वत् ] ॥ ५४॥ मूलम्-अयं साहसिओ भीमो, दुहस्सो परिधावइ ।जसि गोअममारूढो, कहं तेण न हीरसि ? ॥ ५५॥ व्याख्या-अयं प्रत्यक्षः, सहसा अविमृश्य प्रवर्तत इति साहसिको भीमो दुष्टाश्वः परिधावति, 'जंसित्ति' यस्मिन् हे गौतम ! त्वं आरूढः, कथं तेन न हियसे नोन्मार्ग नीयसे ? ॥ ५५ ॥ गौतमः प्राह मूलम् -पहावंतं निगिण्हामि, सुअरस्सीसमाहितं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ ॥५६॥ व्याख्या-प्रधावन्तं उन्मार्गाभिमुखं गच्छन्तं निगृह्णामि श्रुतरश्मिसमाहितं आगमरजुनिबद्धं, ततो न मे दुष्टाश्चो गच्छत्युन्मार्ग, मार्ग च प्रतिपद्यते ॥ ५६ ॥ मूलम्-आसे अ इति के वुत्ते, केसी गोअममब्यवी। केसीमेवं बुवंतंतु, गोअमो इणमब्बवी ॥५७॥ व्याख्या-[प्राग्वत् ] ॥ ५७॥ मूलम्-गणो साहसिओ भीमो, दुटुस्सो परिधाव। तं सम्मं निगिण्हामि,धम्मसिक्खाह कथगं ५८ व्याख्या-धम्मेत्यादि-धर्मशिक्षायै धर्माभ्यास निमित्तं कन्धकमिव जात्याश्चमिव निगृह्णामि, दुष्टाश्वोऽपि निग्रहण. योग्यः कन्थककल्प एवेति भाव इति सूत्रपञ्चकार्थः ॥ ५८ ॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!॥ ५९ ॥ व्याख्या-[प्राग्वत् ] ॥ ५९॥ मूलम्-कुप्पहा बहवो लोए, जेहिं नासंति जंतुणो। अद्धाणे कह वéतो, तं न नस्ससि गोअमा?६०॥ व्याख्या--कुपथा उन्मार्गा बहयो लोके यैः कुपथैनश्यन्ति सन्मार्गाश्यन्ति जन्तवः, ततश्चाध्वनि प्रस्तावात्सन्मार्गे 'कहत्ति' कथं वर्तमानस्त्वं न नश्यसि ? न सत्पथाझ्यवसे ? हे गौतम ! ॥ ६॥ गौतमः प्राहमूलम्-जे अमग्गेण गच्छंति, जे अ उमग्गपहिआ।ते सवे विइआ मज्झं, तोन नस्सामहं मुणी ! ॥६१॥ __ व्याख्या-ये च मागंण गच्छन्ति ये चोन्मार्गप्रस्थिताः ते सर्वे विदिता मम, न चामी मार्गोन्मार्गज्ञानं विना ज्ञायन्ते । ततो मार्गोन्मार्गज्ञानान्न नश्याम्यहं मुने ! ॥ ६१॥ मूलम्-मग्गे अइति के वुत्ते, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥२॥ व्याख्या-'मग्गे अत्ति' मार्गश्चशब्दादुन्मार्गाश्च ॥ ६२॥ मूलम्-कुप्पावयणपासंडी, सवे उम्मग्गपहिआ। सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे॥६॥ व्याख्या-कुप्रवचनपापण्डिनः कपिलादिदर्शनदर्शनिनः सर्वे उन्मार्गप्रस्थिताः, अनेन कुप्रवचनानि कुपथा इत्युक्तं । सन्मार्ग तु सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातं धर्ममिति गम्यं, कुत इत्याह-एष माग्र्गो हि यस्मादुत्तमोऽन्यमार्गेभ्यः प्रकृष्ट इति सूत्रपञ्चकार्थः ॥ ६३॥ मूलम्साहु गोअस ! पण्णा ते, छिन्नो मे संसओ इमो। ___ अन्नोवि संसओ मज्झं, तं में कहसु गोअमा! ॥ ६४ ॥ व्याख्या-[प्राग्वत् ] ॥ ६४ ॥ मूलम्-महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा य, दीवं कं मन्नसी मुणी !॥६५॥ व्याख्या-'वुज्झमाणाणत्ति' वाह्यमानानां नीयमानानां प्राणिनां शरणं तनिवारणक्षम अत एव गम्यमानत्वाद्गतिं तत एव प्रतिष्ठां च स्थिरावस्थानहेतुं द्वीपं कं मन्यसे ? मुने ! ॥ ६५ ॥ गौतमः प्राह-- मूलम्-अस्थि एगो महादीवो, वारिमज्ञ महालओ।महाउदगवेगस्स, गति तत्थ न विजई ॥६६॥ न्याख्या'महालओत्ति' उचैस्त्वेन विस्तीर्णत्वेन च महान् महोदकवेगस्य गतिर्गमनं तत्र न विद्यते ॥ ६६ ॥
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy