Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 298
________________ 293 उत्तराध्ययन ग्रैवेयकात्ततः ॥ चतुर्द्दशमहाखन - सूचितोऽभूत्सुतस्तयोः ॥ ९५ ॥ सुवर्णवाहुरित्याहां, व्यधात्तस्योत्सवैर्नृपः ॥ सोऽथ क्रमेण ववृधे, जगन्नेत्रसुधाअनम् ॥ ९६ ॥ धात्रिभिरिव धात्री - सत्सौभाग्यवशीकृतैः ॥ अङ्कादङ्कं नीयमानः, स व्यतीयाय शैशवम् ॥ ९७ || सुगमाः प्राग्भवाभ्यासा-दादाय सकलाः कलाः ॥ यौवनं प्राप ललना-नेत्रालिनलिनीवनम् ॥ ९८ ॥ राज्ये निधाय तं राजा, प्रवत्राजान्यदा सुधीः ॥ सदयं स्वर्णबाहुश्चा - मुक्त बालामिव क्षमाम् ॥ ९९ ॥ सोऽथ वाहयितुं वाहान्, वाहकेलीं गतोऽन्यदा ॥ अनायि हत्वाऽरण्यानीं, वक्रशिक्षितवाजिना ॥ १००॥ l तत्र चैकं सरो वीक्ष्य, तृषितोऽस्थात्स्वयं हयः ॥ तत्र तं स्त्रपयित्वाऽथ, पार्थिवोऽपाययत्पयः ॥ १०१ ॥ स्वयं स्नात्वा पयः पीत्वा तीरे विश्रम्य च क्षणम् ॥ ततः पुरो व्रजन् राजा - ऽपश्यदेकं तपोवनम् ॥ १०२ ॥ तत्र प्रविशतो राज्ञो ऽस्फुरद्दक्षिणमीक्षणम् ॥ श्रेयः श्रेयोऽथ मे भाषी - यन्तर्भूपोऽप्यचिन्तयत् ॥ १०३ ॥ पुरो प्रजंश्च सोऽपश्य-तत्रैका मुनिकन्यकाम् ॥ सिञ्चन्तीं शाखिनः सख्या -ऽनुगतां गजजिद्गतिम् ॥ १०४ ॥ द्रुमान्तरस्थो निध्यायं - स्तामध्यायत्ततो नृपः ॥ सर्वायासादिमां नूनं, त्रिज्ञानी विदधे विधिः ॥ १०५ ॥ विकाराणामुपाध्यायो, न ध्यायोऽप्सरसामपि ॥ काऽयं रूपगुणोऽमुष्याः, केदं कर्मेतरोचितम् ! ॥ १०६ ॥ नृदेवे चिन्तयत्येवं तच्छ्वासामोदमोहितः ॥ आस्ये तस्याः पपाताज-भ्रमेण भ्रमरो भ्रमन् ! ॥ १०७ ॥ भृङ्गान्मां रक्ष रक्षास्मा-दित्यूचे सा सखीं तदा ॥ विना सुवर्णबाहुं त्वां कोऽन्यः पातीति साप्यवक् ॥ १०८ ॥ सुवर्णवाहौ पाति क्ष्मा - मुपद्रवति कोऽत्र वः ? ॥ इत्युञ्चरुञ्चरन्प्रादु - रासीद्राजा तयोस्तदा ॥ १०९ ॥ तं चाकस्माद्वीक्ष्य जात-क्षोभे ते तस्थतुः क्षणम् ॥ धृतधैर्याथ तं तस्याः, सख्याऽऽचख्याविदं सुधीः ॥ ११० ॥ वज्रबाहुसुते वज्रि - जैत्रतेजसि पार्थिवे ॥ नेश्वरोऽपीश्वरः कर्त्तु, तापसानामुपद्रवम् ॥ १११ ॥ मुग्धासौ तु कजभ्रान्त्या, षट्पदादशतो मुखम् ॥ वित्रस्ता रक्ष रक्षेति, व्याजहार सखी मम ! ॥ ११२ ॥ त्वं पुनः कामजिद्रूपः कोऽसीति ब्रूहि सन्मते ! ॥ तयेत्युक्तोऽवदद्भूपः, स्वयं स्वं वक्तुमक्षमः ॥ ११३ ॥ सुवर्णबाहुभूजाने - मं जानीहि वशंवदम् ॥ आश्रमोपद्रवं हन्तु - मिह त्वागां तदाज्ञया ॥ ११४ ॥ किञ्च पृच्छाम्यहं भद्रे !, कुतोऽसौ कमलेक्षणा ॥ रूपस्याननुरूपेण, क्लिश्यतेऽनेन कर्मणा ? ॥ ११५ ॥ साऽवादीत्खेचरेन्द्रस्य, सुता रत्नपुरप्रभोः ॥ रत्नावलीकुक्षिरत्न-मियं पद्माभिधा कनी ॥ ११६ ॥ तातो विपेदे जाताया-ममुष्यां तत्सुतास्ततः ॥ मिथोऽयुध्यन्त राज्यार्थ, ततोऽभूद्विवरो महान् ! ॥ ११७ ॥ रत्नावली विमा वाला-मादायागादिहाश्रमे || निजभ्रातुः कुलपते-गलिवाह्नस्य मन्दिरम् ॥ ११८ ॥ ववृधेऽसौ ततोऽत्रैव, लाल्यमाना तपोधनैः ॥ कामकारस्कराङ्कुर - जीवनं चाए यौवनम् ॥ ११९ ॥ अत एवार्षिकन्यानां कर्मादः क्रियतेऽनया ॥ artaः किल संवासः, स्यादभ्यासोऽपि तादृशः ॥ १२० ॥ साधुरेकोऽन्यदा ज्ञाना - लोकभानुरिहाययौ ॥ पद्मायाः कः पतिर्भावी-त्यपृच्छत्तं च गालवः ॥ १२१ ॥ ऊचे साधुरिहायात - चक्रभृद्वाजिना हृतः ॥ सुवर्णबाहुर्भाव्यस्याः, त्रिवोढा वज्रबाहुजः ॥ १२२ ॥ ततो दध्यौ मुदा क्ष्मापो, हयेनोपकृतं मम ॥ हत्वाहं यदिहानिन्ये, सङ्गमोऽस्याः नचेत्क्क मे १ ॥ १२३ ॥ इत्यूचे च नृपो ब्रूहि, भद्रे कुलपतिः क्व सः १ ॥ तं द्रष्टुमहमुत्कोऽस्मि, रथाङ्ग इव भास्क रम् ॥ १२४ ॥ सा प्रोचे सोऽद्य चलित-मनुयातोऽस्ति तं मुनिम् ॥ किंचिद्गत्वा तं च नत्वा, समागन्ताऽधुनाश्रमम् ॥ १२५ ॥ तदा तत्राययौ राज्ञः सैन्यमश्वपदानुगम् ॥ सुवर्णबाहुरेवाय - मिति ते दध्यतुस्ततः ॥ १२६ ॥ कुलपत्यागमकालं, शङ्कमानाऽथ तत्सखी ॥ पद्मां सद्माऽनयद्भूप-दर्शनासक्तदर्शनाम् ॥ १२७ ॥ वार्त्ता सुवर्णवाहोस्तां, गालवस्यैयुषो गृहम् ॥ रत्नावल्याश्च सानन्दा - न्नन्दाख्या तत्सखी जगौ ॥ १२८ ॥ ततो रत्नावली पद्मा - नन्दाभिः सह गालवः ॥ ययावुपनृपं हृष्टः सोऽपि तं वह्नमानयत् ॥ १२९ ॥ अथोचे गालवो राजन्!, पद्मां मे जामिजामिमाम् ॥ पाणी गृहाण प्रोक्ता हि भार्याऽसौ ज्ञानिना तब ॥ १३० ॥ तच्छ्रुत्वा दृष्टसुखन - इवोच्चैर्मुदितो नृपः ॥ गान्धर्वेण विवाहेन, तामुपायंस्त रागिणीम् ॥ १३१ ॥ वैमात्रेयोऽथ पद्माया - स्तदा पद्मोत्तराह्वयः ॥ विमानैश्छादयन् व्योम, तत्रागात्खेचरेश्वरः ॥ १३२ ॥ रत्नावल्या ज्ञापितस्तं नृपं नत्वैवमब्रवीत् ॥ देवायातोऽस्मि सेवायै, ज्ञात्वोदन्तममुं तब ॥ १३३ ॥ प्रभो ! पुनीहि त्वं स्वीय- पादपद्मसमागमात् ॥ वैताढ्य पर्वते रल - पुरं नाम पुरं मम ॥ १३४ ॥ तत्प्रपद्यापृच्छ्य रत्ना-वलीं कुलपतिं तथा ॥ भूमान् विमानमारोह -तस्याशु सपरिच्छदः ॥ १३५ ॥ नत्वा मातुलमम्बां च, सखेहं तदनुज्ञया । पद्माप्यश्रुजलक्लिन्न- भूतला पतिमन्वगात् ॥ १३६ ॥ ततः पद्मोत्तरः पद्मा-संयुतं तं धराधवम् ॥ सद्यो वैताढ्य शिखरि - शेखरे खपुरेऽनयत् ॥ १३७ ॥ दत्वा च रतप्रासादं दिव्यं स्नानाशनादिना ॥

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424