________________
278 उत्तराध्ययन तच ज्ञात्वाऽनङ्गासिंहः, क्रुधाऽधावत सिंहवत् ! ॥ ६९ ॥ ततस्तयोरभूद्युद्धं, दारुणेभ्योऽपि दारुणम् ॥ चित्रं च दुर्जयं ज्ञात्वा-ऽनङ्गस्तं खङ्गमस्मरत् ॥ ७० ॥ ज्वालामालाकुलं देव-दत्तं शत्रुमदापहम् ॥ तत्वहरत्नं तत्पाणा-वापपात ततो द्रुतम् ॥ ७१॥ अनङ्गोऽथ जगौ मूर्ख !, किं मुमूर्षसि याहि रे ! ॥ नो चेदेकोऽपि पञ्चत्वं, गन्ता त्वमसिनाsमुना ॥ ७२ ॥ ऊचे चित्रगतिर्लोह-खण्डेनानेन यो मदः ॥ स ते स्वबलहीनत्व-मेव सूचयति स्फुटम् ! ॥७३ ॥ इत्युक्त्वा विद्यया चक्रे, तमस्कायोपमं तमः ॥ पाणिस्थमपि नापश्य-स्कोऽपि तलुप्तलोचनः॥ ७४ ॥ तमसिं तमसि व्याप्ते, सद्य आच्छिद्य तत्करात् ॥ सुमित्रजामि चादाय, ययौ चित्रगतिस्ततः ॥ ७५ ॥ क्षणाच तिमिरे क्षीणे, नृसिंहोऽनङ्गसिंहराद ॥ पश्यन्नापश्यत्कृपाणं, पाणौ तं च रिपुं पुरः ॥७६ ॥ क्षणं व्यपीदत्स्मृत्वा त-ज्ज्ञानिवाक्यं तुतोष च ॥ ज्ञेयः शाश्वतचैत्येऽसौ, ध्यायंथेति गृहं ययौ ॥ ७७ ॥ सुमित्रायाखण्डशीलां, जामि चित्रगतिर्ददौ ॥ भगिनीहरणोत्पन्न-दुःखात्स तु विरक्तवान् ॥ ७८ ॥ राज्ये न्यस्य ततः पुत्रं, समीपे सुयशोमुनेः ॥ सुमित्रः प्रात्रजचित्र-गतिस्तु खपुरेऽव्रजत् ॥ ७९ ॥ नवपूर्वी किञ्चिदूना-मधित्यानुज्ञया गुरोः ॥ विहरनेकदैकाकी, सुमित्रो मगधेष्वगात् ॥ ८॥ तत्र प्रामादहिः कापि, कायोत्सर्गेण तं स्थितम् ॥ भ्रमंस्तत्रागतोऽपश्य-त्पमाह्वस्तद्विमातृजः ॥ ८१॥ आकर्ण बाणमाकृष्य, मुनिं हृदि जघान सः ॥ मुनिस्तु तस्मै नाकुप्य-दिति चान्तरचिन्तयत् ! ॥ ८२॥ दोषो ममैव यन्नाह-मस्मै राज्यमदां तदा ॥ तदेष क्षमयाम्येन-मन्यांश्वासुमतोऽखिलान् ॥ ८३ ॥ ध्यायन्नितिसुमित्रर्षि-विहितानशनः सुधीः ॥ विपद्य वासवसमो, ब्रह्मलोके सुरोऽभवत् ॥८४॥ पमस्तु निशि तत्रैवा-हिदटोडगात्तमस्तमाम् ! ॥ सुमित्रं च मृतं ज्ञात्वा, न्यषीदत्सूरसूर्भशम् ॥ ८५ ॥ यात्रामहोत्सवे सिद्धा-पतने सोऽन्यदा ययौ ॥ परेऽपि मिमिलस्तत्र, भयांसः खेचराधिपाः ॥८६॥ रखवत्या समं तत्रा-उनासिंहोऽप्यपागमत ॥ तत्र चित्रगतिर्भक्त्या, जिनानभ्यर्च्य तुष्टुवे ॥ ८७॥ मित्रं द्रष्टुं सुमित्रोऽपि, सुरतत्रागतस्तदा ॥ चित्रां चित्रगतेर्मि, पुष्पवृष्टिं व्यधान्मुदा ॥ ८८ ॥ विवेदानसिंहोऽपि, तमेव दुहितुः पतिम् ॥ प्रत्यक्षीभूय देवोऽपि, किं मा वेत्सीत्युवाच तम् ॥ ८९ ॥ देवो महर्द्धिस्त्वमिति, प्रोक्ते सूरभुवा सुरः ॥ प्रत्यभिज्ञाकृते पूर्व-भवरूपमदर्शयत् ॥९॥
या धर्मो, लेभेऽसौ त्वत्प्रसादतः ॥ ९१ ॥ दवा दियं लक्ष्मी-स्तदा मे जीवितार्पणात् ॥ त्वयाऽदायि न चेत्तत्र, मृत्यौ देवगतिः क मे? ॥९२ ॥ उपकारमिति प्राच्यं, वदन्तौ वीक्ष्य तो मिथः ॥ सूरचक्रीप्रभृतयः, सर्वेऽमोदन्त खेचराः ॥९३॥ चित्रो नेत्राध्वना रत्न-पत्याश्चित्तेऽविशत्तदा ॥ तत्स्पर्द्धयेव कामोऽपि, तत्रैव विदधे पदम् ॥ ९४ ॥ लजांशुकमपाकृत्य, साथ काममहाकुला ॥ भावमाविश्वकार खं, चेष्टितैर्विविधैर्दुतम् ॥ ९५ ॥ तां च कामातुरां वीक्ष्या-ऽनङ्गसिंहो न्यचिन्तयत् ॥ ममासिमिव जहेऽसौ, मनोऽप्यस्या महामनाः॥ ९६॥ ददे तदेनामात्रैव, कालक्षेपण किं मुघा?॥ धर्मस्थानेऽथवा कार्यमिदं नार्हति धीमताम् ! ॥ ९७ ॥ ध्यात्वेति खगृहं सोऽगा-द्विसृज्याथ सुहृत्सुरम् ॥ पित्रा समं चित्रगति-रपि खसदनं ययौ ॥ ९८ ॥ अनङ्गोऽथ सुतां दातुं, प्रैषीन्मंत्रिणमात्मनः ॥ सोऽपि गत्वा प्रणम्यैव-मब्रवीत्सूरचक्रिणम् ॥ ९९ ॥ अयं चित्रगती रत्न-वती चेयं गुणाधिकौ ॥ वर्णरने इव खामिन् !, मिथो योगाद्विराजताम् ॥ १०॥ प्रपद्य तन्मुदा सूर-तां सुतेनोदवाहयत् ॥ सोऽपि भेजे यथाकालं, धर्मसौख्ये तया समम् ॥ १.१॥ राज्यं चित्रगतेदत्वा-ऽन्यदा सूरमहीपतिः ॥ आदाय सद्गुरोर्दीक्षां, क्रमात्प्राप परं पदम् ॥१०२॥ ततश्चित्रगतिश्चित्र-कारिविद्याबलोर्जितः ॥ चिरं खेचरचक्रित्व-मन्वभूचण्डशासनः ॥१.३॥ खसामन्तसुतौ राज्य-कृते युद्धा मृति गतौ ॥ वीक्ष्याऽन्यदा चित्रगतिः, प्राप वैराग्यमुत्तमम् ॥ १०४ ॥ ततो निधाय तनयं, राज्ये चित्रगतिर्नृपः ॥ पर्यब्राजीहमचरा-चार्यपार्थे प्रियायुतः ॥१०५॥ चिरं विहत्य प्रान्ते चा-ऽनशनेन विपद्य सः ॥ रत्नवत्या समं तुर्यकल्पे देवत्वमासदत् ॥ १०६ ॥ __ अथापरविदेहेषु, विजये पद्मसंज्ञके ॥ पुरे सिंहपुरे नाम्ना, हरिणन्दी नृपोऽभवत् ॥१०७॥ तस्य सान्वर्थनामासीद्राज्ञी तु प्रियदर्शना ॥ च्युत्वा चित्रगतेर्जीव-स्तत्कुक्षाववतीर्णवान् ॥ १०८ ॥काले चासूत सा पुत्रं,रत्नमाकरभूरिव ॥ तस्याऽपराजित इति, नामधेयं व्यधान्नृपः ॥१०९ ॥ क्रमेण कलयन् वृद्धि-मादाय सकलाः कलाः ॥ स प्राप पुण्यं तारुण्यं, पूर्णत्वमिव चन्द्रमाः ॥११०॥ सपांशुक्रीडितस्तस्य, वयस्यः सचिवाङ्गजः ॥ जज्ञे विमलबोधाख्यो, द्वितीयमिव तन्मनः ॥ १११ ॥ कुमारावन्यदा वाजि-हतौ तौ प्रापतुर्वनम् ॥ तदाऽपराजितो मित्रं, मंत्रिपुत्रमदोऽवदत्