________________
279 उत्तराध्ययन ॥ ११२ ॥ दिष्ट्याऽश्वाभ्यां हृतावावां, पित्राज्ञावशयोन चेत् ॥ कथं स्वादावयो रम्यं, देशान्तरविलोकनम् । ॥११॥ पितृभ्यामावयोः सेहे, विरइः साम्प्रतं ततः ॥ न यास्यावो गृहं किन्तु, द्रक्ष्यावः कौतुकं भुवः । ॥ ११४ ॥ एषमस्त्विति तं याव-प्रत्यूचे सचिवात्मजः ॥ पाहि पाहीतिगिस्ताव-तत्रागात्कोऽपि पूरुषः ॥ ११५ ॥ मा भैषीरिति सं भीतं, कुमारो यावदब्रवीत् ॥ कृपाणपाणयस्ताव-दागुस्तंत्रोद्भटा भटाः ॥ ११६ ॥ मुषितास्मत्पुरममुं, हनिष्यामो अयं ध्रुवम् ॥ रे पान्थौ । तधुवां यात-मिति ते प्रोचिरे च तौ ॥ ११७ ॥ शक्रोऽपि मां श्रितं हन्तुं, न शक्तः के पुनः परे ? ॥ इत्युक्तेऽथ कुमारेणा-ऽधावंस्ते हन्तुमुच्चकैः ॥ ११८ ॥ आकृष्टासिः कुमारस्ता-न्मृगान् सिंह इव न्यहन् ॥ ततो नंष्ट्वा तदूचुस्ते, खविभोः कोशलेशितुः ॥११९ ॥ सैन्यं प्रैपीनृपोऽजैपी-रकुमारस्तदपि द्रुतम् ॥ कृपीटयोनेः स्फुरतः, पुरः को हि तृणोत्करः १ ॥ १२० ॥आगात्ततः खयं भूप-चतुरङ्गचमूवृतः॥ दत्वाथ सुहृदो दस्यु, सजोऽभूद्भपभूयुधे ॥ १२१ ॥ उत्लुत्य दत्तदन्ताभिः, कश्चिदारुण दन्तिनम् ॥ हत्वा धोरणमारेभे, स रणं पारणं गतः! ॥ १२२ ॥ राज्ञेऽमात्योऽथ कोप्यूचे, दृष्टपू[पलक्ष्य तम् ॥ ततः सैन्यानृपो जन्या-निपीध्येति जगाद तम् ॥१२॥ वत्स ! पुत्रोसि सख्युर्मे, हरिणन्दिक्षमाभुजः ॥ विक्रमेणामुना वीर !, न पिता हेपितस्त्वया ! ॥ १२४ ॥ दियाsतिथिस्त्वमायासी-र्दिष्ट्या दृष्टोऽसि शिष्ट हे ! ॥ उक्त्वेति तं नृपः खेभ-मारोप्य परिषखजे ॥१२५॥ मंत्रिपुत्रान्वित तं च, नीत्वा निजगृहं नृपः ॥ मुदा व्यवाहयत्पुत्र्या, खया कनकमालया ॥ १२६ ॥ तत्र स्थित्वा दिनान्कांश्चि-न्मिप्रयुक्तोऽपराजितः ॥ विघ्नो मा भूत्प्रयाणस्ये-त्यनुक्त्वा निरगानिशि ॥ १२७ ॥ गच्छंश्च विपिने हा! हा !, निर्जीरोति रोदनम् ॥ आकर्ण्य करुणं वीर-तं शब्दमनु सोऽगमत् ॥ १२८ ॥ अप्रै चैका ज्वलज्ज्वाला-जिह्योपान्ते स्थितां स्त्रियम् ॥ नरं चैकं समाकृष्ट-करवालं ददर्श सः॥ १२९ ॥ योऽत्र वीरः स मामस्मा-त्पातु विद्याधराधमात्॥ इति भूयस्तदाक्रम्दत् , श्येनात्ता वर्तिकेव सा ! ॥ १३० ॥ अथेत्यूचे कुमारस्त-मरे ! सज्जो भवाजये ॥ अबलायां बलमदः, किं दुर्मद करोषि रे । ॥१३१॥ सार्थः प्रेत्यगतौ भीरो-रस्यास्त्वं भवितासि रे ! ॥ ब्रुवन्निति ततः सोऽपि, बुढौके योद्धमुद्धतः ॥ १३२ ॥ खड्गाखनि चिरं कृत्वा, तो मिथो घातवञ्चिनौ ॥ दोयुद्धेन न्ययुध्येतां, कम्पयन्तौ
मानपि ॥ १३३॥ नागपाशैर्बबन्धाथ, तं पुन्नागं स खेचरः॥ तांश्च सोऽत्रोटयत्तर्ण, जीर्णरजरिव द्विपः॥ १३४॥ विद्याधरोऽथ विद्यास्त्रैः, प्रजहारापराजितम् ॥ तानि न प्रामवन्पुण्य-बलाढ्ये तत्र किंचन ! ॥ १३५ ॥ अथोदिते रखौ मूर्भि, कुमारेणासिना इतः ॥ पपात मूछितः पृथ्व्यां, सद्यो विद्याधराग्रणीः ॥ १३६ ॥ खस्थीकृत्य पुनर्योबु, कुमारणोदितस्ततः ॥ उवाच खेचरः साधु, मामजैषीमहाभुज ! ॥ १३७ ॥ विद्यते मित्र ! वस्त्रान्त-ग्रन्थौ मे मणिमूलिके ॥ पृष्ट्वाऽम्बुना मणेर्देहि, प्रहारे मम मूलिकाम् ॥ १३८ ॥ कुमारोऽपि तथा चक्रे, खेचरोऽप्यभवत्पटुः ।। वृष्टोऽपराजितेनेति, खवृत्तान्तं जगाद च ॥ १३९ ॥ असावमृतसेनस्य,सुता विद्याधरप्रभोः ॥ रत्नमालाभिधा शालिगुणरजालिमालिनी ॥ १४॥ रक्ताऽपराजिते भावि-भर्तरि ज्ञानिनोदिते ॥ अभ्यर्थिता मयाऽन्येधु-विवाहायैवमब्रवीत् ॥ १४१॥ [युग्मम् ] भर्ताऽपराजितो मे स्या-दहेन्मां दहनोऽथवा ! ॥ तदाकर्पोऽकुपं सूर-कान्तः श्रीषेणसूरहम् ॥ १४२ ॥ विद्या बह्वीः कृतेऽमुष्या, दुःसाधा अप्यसाधयम् ॥ एनां च बहुधाऽयाचं, न त्वियं माममानयत् ॥ १४३ ॥ अथास्याः पूर्यतां वह्नि-दाहात्सन्धेतिधीः क्रुधा ॥ एनामिहानयं हत्वा, हत्वाऽनौ क्षेप्तुमुद्यतः! ॥ १४४ ॥ अस्या मम च पुण्योघे-राकृष्टेन त्वया पुनः॥ मत्तोऽसौ रक्षिताऽहं च, स्त्रीहत्याभाविदुर्गतेः । ॥१४५॥ परं परोपकारिन् ! त्वं, कोऽसीति ब्रूहि सन्मते ! ॥ तेनेत्युक्तेऽवदद्भप-भुवो नामादि मंत्रिसूः ॥ १४६ ॥ तदाकर्ण्य तदा रन-मालाऽन्तर्मुमुदेऽधिकम् ॥ कामं कामषक्तानां, गोचरत्वमियाय च ॥ १४७ ॥ गवेषयन्तौ तां तत्रा-5गातां तत्पितरौ तदा ॥ यथावृत्तमथावादी-त्पृच्छन्तो मत्रिसूस्तयोः ॥ १४८ ॥ ततस्तो मुदितौ भूप-भुषेऽदत्तां निजातजाम् ॥ अभयं सूरकान्ताया-ऽपेयतां तद्विरा पुनः॥॥१४९॥ते मणीमूलिके वेषान्तरदा गुटिकास्तथा । कुमारे निःस्पृहे सूर-कान्तो मंत्रिभुवे ददौ ॥ १५०॥ गते मयि निजं स्थान-मानेयाऽसौ खनन्दना ॥ इत्युक्त्वाऽमृतसेनाय, भूपभूः पुरतोऽचलत् ॥ १५१ ॥ तं कुमारं स्मरन्तस्ते, खस्थानं खेचरा ययुः ॥ कुमारोऽपि पुरो गच्छबटव्यां तृषितोऽभवत् ॥ १५२ ॥ निवेश्य तं च चूताधो-अमात्यभूरम्भसे गतः ॥ प्रत्यायातस्तदादाय, तत्र मित्रं न इष्टवान् ॥ १५३ ॥ सोऽथ शोकाकुलो मित्र-मन्वेष्टुं सर्वतो भ्रमन् ॥ मूछितो न्यपतल्लब्ध-संज्ञस्तु व्यलपभृशम्
१ परोपकारी 'घ' पुस्तके ॥ २ कामबाणानाम् ॥