________________
280 उत्तराध्ययन ॥ १५४ ॥ कथञ्चिद्धैर्यमाधाय, तं द्रष्टुं पर्यटन्पुनः ॥ प्रासो नन्दिपुरोधाने, सोऽतिष्ठद्यावदुन्मनाः ॥ १५५ ॥ तावदागत्य तं विद्या-धरौ द्वावेवमूचतुः ॥ विद्याधरेन्द्रो भुवन-भानुनामास्ति विश्रुतः॥१५६ ॥ तस्य च स्तः कमलिनी-कुमुदिन्यावुभे सुते ॥ भर्ता तयोश्च कथितो, ज्ञानिना भवतः सखा ॥१५७॥ खामिनाथ तमानेतुं, प्रहितो तत्र कानने ॥ आवां युवामपश्याव, त्वं चागाः पाथसे तदा ॥१५८॥ हत्वाऽऽवां तव मित्रं चा-ऽनयाव खामिनोऽन्तिके ॥ तं चाभ्युत्थाय भुवन-भानुरासयदासने ॥ १५९ ॥ उद्वोढुं खसुते सोऽथ, प्रोक्तो भुवनभानुना ॥ दक्षी तूष्णीकतामेव, त्वद्वियोगव्यथाकुलः ॥ १६० ॥ त्वामानेतुं ततः प्रोक्ती, प्रभुणाऽऽवामिडागती ॥ दिष्टयाऽपश्याव पश्यन्ती, नष्टखमिव सर्वतः !॥ १६१ ॥ महाभाग ! तदेहि त्वं, सद्योऽस्मत्खामिनोऽन्तिके ॥ विधाय क्रीडया सौधं, भूमिष्ठे तस्थुषो वने ॥ १६२ ॥ तदाकर्ण्य समं ताभ्यां, तुष्टोऽगात्तत्र मंत्रिभूः ॥ कुमारोऽपि कुमार्यों ते, पर्यजैषीत्ततो मुदा ॥ १६३॥ ततस्तो निर्गतौ प्राग्व-द्रती श्रीमन्दिरे पुरे ॥ सूरकान्तार्पितमणि-पूर्णेच्छौ तस्थतुः सुखम् ॥ १६४ ॥ पुरे तत्रान्यदाकर्ण्य, प्रोः कलकलारवम् ॥ किमेतदिति सम्भ्रान्तो-ऽपृच्छन्मित्रं नृपाङ्गजः॥१६५॥ सोऽपीत्यूचे जनाज्जात्या, सुप्रभोत्रास्ति भूप्रभुः ॥ स च प्रविश्य केनापि, शस्त्रयाऽघाति छलान्विषा ॥ १६६ ॥ राज्ञो. स राज्ययोग्यश्च, सुतादिन हि विद्यते ॥ तेनातिन्याकुलैर्लोक-स्तुमुलोऽसौ विधीयते ! ॥ १६७ ॥ तच्छ्रुत्वारातिनाघाति, केनाप्ययमिति ब्रुवन् ॥ व्यषीदद्भपभूः सन्तो, सन्यदुःखेन दुःखिनः। ॥ १६८ ॥ अथोपायैरप्यजाते, स्वास्थ्ये भूपस्य धीसखान् ॥ ऊचे गाणिक्यमाणिक्य-मिति कामलता रहः ॥ १६९ ॥ वैदेशिकः पुमान्कोऽपि, समित्रोत्रास्ति सद्गुणः ॥ सम्पद्यमानसर्वार्थः, सदोपायं विनापि हि ! ॥ १७०॥ तत्पार्थे भेषजं किञ्चि-दापि श्रुत्वेति तद्विरम् ॥ उपभूपं कुमारं तं, मंत्रिणो निन्युरादरात् ॥ १७१ ॥ कृपालुः सोऽपि सख्युस्ते, गृहीत्वा मणिमूलिके ॥ मणिनीरेण घृष्ट्वा त-प्रहारे मूलिकां न्यधात् ॥ १७२ ॥ ततः सजतनू राजा, राजाङ्गजमिदं जगौ ॥ कुतोऽकारणबन्धुस्त्व-मत्रागाः सुकृतैर्मम॥ १७३॥ तन्मित्रेणाथ तद्वत्ते, प्रोक्त भूयोऽभ्यधान्नपः॥ मन्मित्रस्य सुतोऽसि त्वं, दिष्ट्या खगृहमागमः ॥ १७४ ॥ इत्युक्त्वा खसुतां रम्भा-भिधा तस्मै ददौ नृपः ॥ तत्र स्थित्वा चिरं प्राग्य-समित्रो निर्जगाम सः ॥ १७५ ॥ सोऽथ कुण्डपुरोद्याने, गतः खाम्बुजस्थितम् ॥ वीक्ष्य केवलिनं भक्त्या, नत्वा शुश्राव देशनाम् ॥ १७६ ॥ भगवन्नस्मि भव्योह-मभन्यो वेति शंस मे ॥ अथापराजितेनेति, पृष्टः प्रोवाच केवली ॥ १७७ ॥ भव्योऽसि जंबूद्वीपस्य, भरते पंचमे भवे ॥ भावी द्वाविंशो जिनस्त्वं, सखाऽसौ तु गणी तव॥१७८॥ तदाकये सहर्षों तो, भेजतुखं मुनि चिरम् ॥ मुनौ तु विडते प्रामा-दिषु चैत्यानि नेमतुः॥ १७९॥
इतच श्रीजनानन्दे, जनानंदकरे पुरे ॥ जितशत्रुरभूद्भूपः, तस्स राजी तु धारिणी ॥ १८०॥ दिवो रत्नवतीजीवश्युत्वा तत्कुक्षिमाययौ ॥ काले चासूत सा प्रीति-मतीसंज्ञां सुतां शुभाम् ॥ १८१ ॥ क्रमेण बर्द्धमाना सा, खीकृत्य सकलाः कलाः ॥ आससाद जगज्जेत्रं, वैदग्ध्यमिव यौवनम् ॥ १८२ ॥ तस्याः पुरोऽतिविज्ञाया, जजे प्राज्ञोऽपि बालिशः ॥ ततोऽरज्यत सा काऽपि, पुरुषे न मनागपि ॥ ८३ ॥ तां च कस्ते धवोऽभीष्टः ?, इत्यपृच्छ. नृपोऽन्यदा ॥ सा जगौं मां जयति यो, वादे भर्ता ममास्तु सः!॥ ८४ ॥ तत्प्रपद्य नृपोऽन्येयुः, स्वयंवरणमण्डपम् ॥ चारुमञ्चाञ्चितं चित्र-कारिचित्रमचीकरत् ॥ ८५॥ तत्र पुत्रवियोगा, हरिणन्दिनृपं बिना ॥ समं कुमारैरेयुस्त-दूताहूता नृपाः समे ॥ ८६ ॥ अधिमञ्चं निषण्णेषु, तेषु दैवात्परिभ्रमन् ॥ समित्रः सबुधो मित्र, इवागादपराजितः ॥८७॥ मा दृष्टपूर्वी नौ ज्ञासी-दिति तौ गुटिकावशात् ॥ रूपं निर्माय सामान्य-मगातां तत्र मण्डपे ॥८॥ दधाना चारु नेपथ्यं, सखीदासीजनावृता ॥ अथ तत्राययौ प्रीति-मती लक्ष्मीरिवापरा ॥ ८९ ॥ अङ्गुल्या दर्शयन्ती ता-नृपानृपसुतांस्तथा ॥ तदेति मालतीसंज्ञा, तद्वयस्सा जगाद ताम् ॥ ९० ॥ खेचरा भूचराश्चामी, वरीतुं त्वामिहाययुः ॥ तदेषां वीक्ष्य दक्षाणां, दाक्ष्यं घृणु समीहितम् ॥ ९१ ॥ तयेत्युक्ता नृपे यत्र, यत्र प्रायुक्त सा दृशौ ॥ तयोक्त इव कामोपि, तत्र तत्राशुंगाग्निजान् ॥ ९२ ॥ खरेण मधुरेणाथ, पूर्वपक्षं चकार सा ॥ वाग्देवी किमसौ साक्षा-दिति दध्यौ जनस्तदा १ ॥९३ ॥ तस्याः प्रतिवचो दातुं, प्रभुष्णः कोऽपि नाभवत् ॥ विलक्षाः किन्तु सर्वेऽपि, भुवमेव व्यलोकयन् ॥ ९४ ॥ रूपेणैव मनोऽस्माकं, जहारासौ विना तु तत् ॥क शक्तिरुत्तरं दातु-मिति चाहुर्मुहुर्मिथः ॥ ९५ ॥ जितशत्रुस्ततो दध्यौ, सर्वेऽमी सङ्गता नृपाः ॥ योग्यो न चैषु मत्पुत्र्याः, कोऽपि तत्किं १आशुगान् बाणान् ।