________________
281 उत्तराध्ययन भविष्यति ? ॥ ९६ ॥ ध्यायन्तमिति तं प्रोचे, भावज्ञः कोऽपि धीसखः ॥ विषादेन कृतं नाथ !, बहुरना हि भूरियम् ॥ ९७ ॥ राजा राजाङ्गजोऽन्यो वा, वादे यो निर्जयेदिमाम् ॥ स एव भर्ता स्वादस्या, इतीहोरोष्यतां विभो । ॥९८ ॥ ओमित्युक्त्या नृपोऽप्युच-स्तत्तथैवोदघोषयत् ॥ आगादुपप्रीतिमति, तथाकाऽपराजितः ॥१९॥ दुर्वेषमपि तं प्रेक्ष्य, पूर्वप्रेम्णा जहर्ष सा ॥ नानन्दरति किं भानु-रभ्रच्छन्नोऽपि पभिनीम् १॥ २०॥ पूर्ववत्पूर्वपक्षं च, चक्रे प्रीतिमती कनी ॥ तां चापराजितोऽजैपी-द्वादे काप्यपराजितः ॥ १॥ खयंवरस्रजं साथ, तत्कण्ठे क्षिप्रमक्षिपत् ॥ ततः सर्वे नृपाः कुद्धा, युद्धायासज्जयन्भटान् ! ॥२॥ कोऽसौ वराको पाकशूरो-ऽस्मासु सत्सूद्वहेदिमाम् १॥ पदन्त इति सामर्ष, घोरमारेभिरे रणम् ॥ ३॥ हत्या कंचित्कुमारस्तु, गजस्थं तद्गजस्थितः ॥ युयुधे रथिनं हत्त्वा क्षणाच स्यन्दनस्थितः ॥४॥ एवं सादी रथी पत्ति-निपादी च मुहुर्भवन् ॥ युध्यमानोऽमानशक्तिः, सोऽभांक्षीन्मक्षु विद्विषः ! ॥५॥ शास्त्रैः स्त्रिया जिताः शस्त्रै-स्त्यनेनेति प्रपातुराः ॥ भूयः सम्भूय जन्याय, राजन्यास्ते डुढौकिरे ! ॥ ६ ॥राज्ञः सोमप्रभस्सेभ-मारुरोहाथ भूगभूः ॥ प्रत्यभिज्ञातवांस्तं च, स भूपस्तिलकादिना ॥ ७॥जामेयामेयवीर्य ! यां, दियाऽवेदमिति झुवन् ॥ सोमः सोममियोदन्या-न्मुदा तं परिपखजे! ॥८॥ तस्वरूपेऽथ तेनोक्ते, नृपाः सर्वे जहुर्युधम् ॥ कुमारोऽपि निजं रूप-माविश्चक्रे मनोरमम् ॥९॥ सोविलभैर्वर्ण्य-मानरूपपराक्रमः॥प्रीतः प्रीति
१ उदन्वान् सागरः॥ मती सोऽथ, परिणिन्ये शुभेऽहनि ॥ १०॥ व्यसृजजितशत्रुस्ता-नृपान् सत्कृत्य कृत्ययित् ॥ प्रीतिमत्या रमन्त्रीत्या, तस्थौ तत्रापराजितः ॥ ११॥ हरिणन्दिमहीभर्तु-र्दूतस्तत्रागतोऽन्यदा ॥ पित्रोः कुशलमस्तीति, तं चालिंग्य स पृष्टवान् ॥ १२ ॥ दूतोऽवादीत्तयोरस्ति, कुशलं देहधारणात् ॥ तव प्रवासदिवसा-नतद्वान्ति शस्तयोः ॥ १३ ॥ ववृत्तान्तमिमं श्रुत्वा, पितृभ्यां प्रहितोऽस्म्यहम् ॥ तन्निजं दर्शनं दत्वा, तावद्यापि प्रमोदय ॥ १४ ॥ तदाकयोंत्सुकः पित्रो-दर्शनायापराजितः ॥ आपृच्छय श्वशुरं प्रीति-मत्या सह ततोऽचलत् ॥ १५ ॥ तेन पूर्वमुढा या-स्ता आदाय खनन्दनाः ॥ नृपाः समे समाजग्मु-स्तत्समीपं तदा मुदा ॥ १६ ॥ खेचरैर्भूचरैश्चापि, स सैन्यार्थिवैर्वृतः ॥ भार्याभिः शोभितः षड्भिः, सोऽगासिंहपुरं क्रमात् ॥ १७ ॥ हरिणन्दी तमायान्तं. श्रुत्वाभ्यागात्प्रमोदभाक् ॥ तं चानमन्तमालिंग्य, चुम्बन्मौलौ मुहुर्मुहुः ॥ १८ ॥ नमन्तं तं च मातापि, पाणिभ्यामस्पृशन्मुहुः ॥ स्नुषाश्च प्रीतिमत्याद्या, नेमुः श्वशुरयोः क्रमान् ॥ १९ ॥ उक्तं विमलवोधेन, श्रुत्वा तदृत्तमादितः ॥ पितरौ प्रापतुहर्प, तत्संगोस्थमुदोऽधिकम् ॥ २०॥ विससर्ज कुमारोऽथ, भूपान्भूचरखेचरान् ॥ तं च न्यस्यान्यदा राज्ये, राजा प्रव्रज्य सिद्धपान् ॥ २१ ॥ तुजैरहद्हैर्भूमि, भूपयन्भूपणैरिव ॥ ततोऽपराजितो/श-श्चिरं राज्यमपालयत् ॥ २२ ॥ स राजाऽन्येधुरुधाने, गतो मूर्त्या जितस्मरम् ॥ वृतं मित्रर्वधूभिश्च, महेभ्यं कश्चिदेक्षत ॥ २३ ॥ गीतासक्तं ददानं च, दानमत्यर्थमर्थिनाम् ॥ तं वीक्ष्य मापतिः कोऽसा-विति पप्रच्छ सेवकान् ? ॥ २४ ॥ असौ समुद्रपालस्य, सार्थेशस्य सुतः प्रभो ! ॥ अनङ्गदेवो नामेति, प्रोचिरे तेऽपि भूभुजे ॥ २५ ॥ वाणिजा अपि यस्यैव-मुदाराः परमर्द्धयः ॥ सोऽहं धन्य इति ध्यायं-स्ततोऽगाधवो गृहम् ॥ २६ ॥ द्वितीये च दिने वीक्ष्य, शवं यान्तं जनैप॒तम् ॥ राज्ञा कोऽसौ मृत इति, पृष्टा भृत्या इदं जगुः ॥ २७ ॥ क्रीडन्नदर्शि यः काम-मुद्याने ह्यस्तने दिने॥स एवानङ्गदेवोऽसौ, द्राग विशूचिकया मृतः! ॥ २८ ॥ अहो! अशाश्वतं विश्वं, विश्वेऽस्मिन् सान्ध्यरागवत् ॥ ध्यायन्निति ततोऽध्यास्त, वैराग्यं परमं नृपः ॥ २९ ॥ इतश्च यः कुण्डपुरे, पुरा दृष्टः स केवली ॥ तत्रागादन्यदा दीक्षा-योग्यं ज्ञानेन तं विदन् ॥ ३० ॥ धर्म श्रुत्वा ततो न्यस्य, राज्यं पुत्रेऽपराजितः ॥ तत्पार्थे प्राबजप्रीति-मतीविमलबोधयुक् ॥३१॥ तपो व्रतं च सुचिरं, तीनं कृत्वा त्रयोपि ते ॥ विपद्यैकादशे कल्पे-ऽभुवन्निन्द्रसमाः सुराः॥३२॥
इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ श्रीषेणाह्वोऽभवद्भपः, श्रीमती तस्य च प्रिया ॥३३॥ स्वप्ने शंखोज्ज्वलं पूर्णचन्द्रं मातुःप्रदर्शयन् ॥ जीवोऽपराजितस्यागा-त्तस्याः कुक्षौ दिवश्युतः॥३४॥सा सुतं समयेऽसूत, पूर्णेन्दुमिव पूर्णिमा॥ तस्योत्सवैः शङ्ख इति, नामधेयं व्यधात्पिता॥३५॥धात्रीमिाल्यमानोऽथ, वृद्धिमासादयन् कमात्॥गुरोः कलाः स जग्राह, वार्द्धरप इवाम्बुदः ॥ ३६ ॥ स्वर्गाद्विमलबोधोऽपि, च्युत्वा श्रीपेणमंत्रिणः ॥ नाम्ना गुणनिधेः पुत्रो, जज्ञे नाम्ना मतिप्रभः ॥ ३७॥ सोऽभूच्छङ्खकुमारस्य, सपांशुक्रीडितः सखा ॥ मधुस्मराविव वनं, यौवनं तौ सहाऽऽमुताम् ॥ ३८॥ अथाऽन्यदा जानपदाः, नृपमेत्यैवमूचिरे ॥ देव ! त्वदेशसीमाद्रा-वति दुर्गोऽस्तिदुर्गमः ॥ ३९ ॥ नाना