________________
उत्तराध्ययन
282 समरकेतुश्च, पलीशस्तत्र वर्त्तते ॥ सोऽम्मान् लुण्टति तस्मात्त्वं, रक्ष रक्ष क्षितीश नः ॥ ४०॥ तन्निशम्य स्वयं तत्र, गन्तुमुत्को महीशिता ॥ इति शजकुमारण, नत्वा व्यज्ञपि साग्रहम् ॥ ४१॥ शिशुनागे पक्षिराज, इवोद्योगः स्वयं प्रभोः ॥ न युक्तस्तत्र पलीशे, तन्मामादिश तजये ॥ ४२ ॥ नृपाज्ञया ससैन्येऽथ, शंखे पल्लीमुपागते ॥ दुर्ग विहाय पल्लीशः, प्राविशत् क्वापि गह्वरे ॥४३॥ सुधीः शंखोऽपि सामन्तं, दुर्गे कंचिदवीविशत् ॥ स्वयं पुनर्निलीयास्था-निकुले कापि सैन्ययुक् ॥ ४४ ॥ छलच्छेकोऽथ पलीशो, यावहुर्ग रुरोध तम् ॥ प्रबलैः खबलस्ताव-त्कुमारस्तमवेष्टयत् ॥ ४५ ॥ दुर्गप्रविष्टसामन्त-कुमारकटकैरथ ॥ स्थितैरुभयतोघानि, मिल्लेशो मध्यगो भृशम् ॥ ४६ ॥ कांदिशीकस्ततः कण्ठे, कुठारमयलम्ब्य सः ॥ कुमारं शरणीचक्रे, प्राञ्जलिश्चैवमत्रवीत् ॥४७॥ मायाजालस्य संहर्ता, त्वमेव मम धीनिधे !॥ तव दासोऽस्मि सवेखं, ममादत्व प्रसीद च ॥४८॥ तेनोपात कुमारोऽथ, दत्वा तत्स्वामिनां धनम्।। पल्लीनाथं सहादाय, न्यवर्तत पुरं प्रति ॥४९॥ मार्गे निवेश्य शिविरं, स्थितो रात्रौ स भूपभूः ॥ श्रुत्वा रुदितमात्तासि-र्ययो शब्दानुसारतः ॥ ५० ॥ किंचिद्गतश्च वीक्ष्याऽर्द्ध-वृद्धां स्त्री रुदतीं पुरः॥ किं रोदिपीति सोऽपृच्छ-त्ततः साप्येवमब्रवीत् ॥५१॥ अस्यंगदेशे चंपायां, जितारिः पृथिवीपतिः ॥ तस्य कीर्तिमतीरायां, जज्ञे पुत्री यशोमती ॥ ५२ ॥ कलाकलापकुशला, सा विभूपितयौवना ॥ सानुरूपमपश्यन्ती, वरं न वाप्यरज्यत ॥ ५३॥ शंखं श्रीषणपुत्रं सा-ऽन्यदा श्रुत्वा गुणाकरम् ॥ पतिर्मे शंख एवेति, प्रत्यौपीद्यशोमती ॥ ५४ ॥ ततः स्थानेऽनुरक्तेय-मित्युच्चैमुमुदे नृपः ॥ अयाचताऽन्यदा तां च, मणिशेखरखेचरः ॥ ५५ ॥ तं जितारिर्जगी नैषा, शङ्खादन्यं वुवूर्पते ॥ ततोऽकनीयःकामासी, कनी ते दीयते कथम् ? ॥ ५६ ॥ सोऽन्यदा तां ततोऽहाी-सह पार्थस्थया मया ॥ असाध्यः कुग्रह इबा-ऽऽग्रहः प्रायो हि रागिणाम् ! ॥ ५७ ॥ मां तु तद्धात्रिकामत्र, हित्वा तामनयत्वचित् ॥ ततो रोदिमि वीराहं, भविष्यति कथं हि सा ? ॥ ५८ ॥ धैर्य स्वीकुरु तं जित्वा-ऽऽने ये तां कन्यकामहम्॥ इत्युक्त्वा गहने भ्राम्यन् , प्रातः सोऽगाद्गिरौ क्वचित् ॥ ५९ ॥ शङ्ख एव विवोढा मे, मूढ ! किं क्लिश्यसे मुधा? ॥ इति खेचरमाख्यांती, सोड पश्यत्तत्र नां कनीम् ॥ ६०॥ ताभ्यामदर्शि शंखोऽपि, स्मित्वा समाहाथ खेचरः ॥ मुमूः सोऽयमत्रागा-चं वुवूपैसि रे जडे ! ॥ ६१ ॥ अमुं त्वदाशया साकं, हत्वा नेष्ये यमौकसि ॥ त्वां च प्रसखोदुह्याशु, मुदा सह निजौकसि ॥ ६२ ॥ तदाकर्ण्य तमूचेथ, शंखोप्युत्तिष्ठ पाप रे! ॥ परनारीरिएंसां ते, हरामि शिरसा समम् ॥ ६३ ॥ खड्गाखङ्गि ततोऽकाष्टी, चिरं तौ घातयश्चिनौ ॥ ज्ञात्वाथ दुर्जयं शंख, विद्यास्त्रैः खेचरो न्यहन् ॥ ६४ ॥ तानि न प्राभवंस्तत्र, पुण्याव्ये वाडवेऽम्बुवत् ॥ कुमारोऽथाऽऽन्छिनचापं, सुद्धश्रान्तान्नभश्चरात् ॥६५॥ तद्वाणेनैव शंखेन, खेचरः प्रहतोय सः ॥ सुमूर्छ तत्कृतैः शीतो-पचारैश्चाभवत्पटुः ॥ ६६ ॥ भूयो युद्धाय शंखेनो-त्साहितश्चैवमब्रवीत् ॥ केनाप्यनिर्जितो दोप्मन् ! , साध्वहं निर्जितस्त्वया ! ॥ ६७ ॥ वीर्यक्रीतोऽस्मि दासस्ते, मंतुमेनं क्षमस्व मे ॥ शंखोप्युवाच त्वद्भक्त्या, तुष्टोऽस्मि बेहि कामितम् ॥६८॥ सोऽवादीन्नित्यचैत्यानां, नत्यै मेऽनुग्रहाय च ॥ एहि पुण्याढ्य ! वैताढ्यं,
पि तदमन्यत ॥ ६९॥ गुणैः समग्रैरुत्कृष्ट, तं च प्रेक्ष्य यशोमती ॥ भर्ता मया वृतः श्रेष्ठ, इत्यन्तर्मुमुदे भृशम ॥ ७० ॥ तदाजग्मुः खेचराश्च, मणिशेखरसेवकाः ॥ तेषु द्वौ प्रेष्य सेनां खां, शंखःप्रैपीनिजे पुरे ॥ ७१॥ आनाय्य खेचरैस्तत्र, प्रारदृष्टां धात्रिकां तु ताम् ॥ धात्रीकनीखेचरयुग, वैताढये भूपभूर्ययौ ॥ ७२ ॥ तत्र शाश्वतचैत्यस्थान्प्रणम्याऽऽनर्च सोऽर्हतः ॥ स्वपुरे तं च नीत्वोचै-रानर्च मणिशेखरः ॥७३॥ परेपि खेचरास्तत्र, प्रीता वैरिजयादिना ॥ पत्तीभूय कुमाराय, ददुर्निजनिजाः सुताः ॥ ७४ ॥ यशोमतीमुदुदैव, परिणेष्यामि वः सुताः ॥ शङ्खस्तानित्यवक् सा हि, तस्य प्राग्भवहिनी ॥ ७५ ॥ स्वखपुत्रीरथादाय, यशोमत्या सहान्यदा॥मणिशेखरमुख्यास्त, चम्पा निन्युनभश्चराः ॥ ७६ ॥ खपुत्र्या खेचरेन्द्रेश्व, सह श्रीषेणनन्दनम् ॥ ज्ञात्वाऽऽयान्तं मुदाऽभ्येत्य, जितारिःखपुरेऽनयत् ॥ ७७॥ यशोमती खेचरीश्च, तत्र शङ्ख उपायत ॥ श्रीवासुपूज्यचत्यानां, भक्त्या यात्रां च निर्ममे ॥ ७८ ॥ विसृज्य खेचरांस्तत्र, स्थित्वा कांश्चिदिनांश मः ॥ पत्नीभिः सह सर्वाभि-हस्तिनापुरमीयिवान् ॥७९॥ शंखं राज्येऽन्यदा न्यस्या-ऽऽददे श्रीपेणरा व्रतम् ॥ ततः सोऽपालयद्राज्यं, वज्रीव प्राज्यवैभवः ॥ ८० ॥ तत्र श्रीपेणराजर्षिरन्यदा प्राप्तकेवलः ॥ विहरन्नागमत्तं च, गत्वा शङ्खनृपोऽनमत् ॥ ८१ ॥ श्रुत्वा च देशनां मोह-पङ्कप्लावनवाहिनीम्॥ मुक्तिकल्पलतावीजं, वैराग्यं प्राप शङ्कराट् ॥ ८२ ॥राज्यं प्रदाय पुत्राय, तत्पार्थे प्राव्रजच सः ॥ मतिप्रभेणामायेन, यशोमत्या च संयुतः ॥८३॥ क्रमाच श्रुतपारीणः, कुर्वाणो दस्तपं तपः ॥ स्थानैरहद्भक्तिमुख्य-राजेयजिन