________________
283
उत्तराध्ययन
नाम सः ॥ ८४ ॥ यशोमतीमंत्रिमुनि - युक्तः शङ्खमुनीश्वरः ॥ प्रान्ते प्रायं प्रपद्यागा - द्विमानमपराजितम् ॥ ८५ ॥
इतात्रैव भरते, पुरे शौर्यपुरेऽभवत् ॥ ज्येष्ठ भ्राता दशार्हाणां, समुद्रविजयो नृपः ॥ ८६ ॥ शिवाभिधाऽभवत्तम्य, राज्ञी विवशिवङ्करा ॥ च्युत्वाऽपराजिताच्छङ्ख - जीवस्तत्कुक्षिमागमत् ॥ ८७ ॥ सुखसुप्ता तदा देवी, महाखप्नांश्चतुईश ॥ वीक्ष्याधिकां रिटन - नेमिं चाख्यन्महीभुजे ॥ ८८ ॥ पृष्टास्तदर्थं राज्ञाऽथ, तज्ज्ञाः प्रातरिदं जगुः ॥ चक्री वा धर्मचक्री वा, युष्माकं भविता सुतः ॥ ८९ ॥ पूर्णे कालेऽथ साऽसूत, राज्ञी विश्वोत्तमं सुतम् ॥दिकुमार्योऽभ्ये तस्य, सूतिकर्माणि चक्रिरे ॥ ९० ॥ तस्येन्द्रा निखिलाश्रकु - मेरौ त्रात्रमहोत्सवम् ॥ पार्थिवोऽपि मुदा चक्रे, पुरे जन्ममहोत्सवम् ॥ ९१ ॥ स्वप्ने दृष्टो रिष्टनेमि - र्मात्रास्मिन्गर्भमागते । इति तस्यारिष्टनेमि - रिति नामाऽकरो नृपः ॥ ९२ ॥ वासवादिष्टधात्रीभि-र्लाल्यमानो जगत्पतिः ॥ समं जगन्मुदा वृद्धिं दधदष्टाब्दिकोऽभवत् ॥ ९३ ॥ अथान्यदा यशोमत्या, जीवश्युत्वाऽपराजितात् ॥ उग्रसेनधराधीश - धारिण्योस्तनयाऽभवत् ॥ ९४ ॥ राजीमतीति संज्ञा सा, प्राप्ता वृद्धिमनुक्रमात् ॥ कलाकलापमासाद्य, पुण्यं तारुण्यमासदत् ॥ ९५ ॥
इतश्च मथुरापूर्या, वसुदेवाङ्गजन्मना ॥ विष्णुना निहते कंसे, जरासन्धसुतापतौ ॥ ९६ ॥ क्रुद्धाद्भीता जरासन्धा - त्सङ्गत्य यदवोऽखिलाः ॥ पश्चिमाम्भोनिधेस्तीरं जग्मुर्दैवज्ञशासनात् ॥ ९७ ॥ [ युग्मम् ] तत्र श्रीदोऽच्युताराद्धो, नवयोजनविस्तृताम् ॥ द्वादशयोजनायाम, निर्ममे द्वारकापुरीम् ॥ ९८ ॥ जात्यखर्णमयीं तां च, लङ्काशङ्काविधायिनीम् ॥ रामकृष्णदशार्हाद्या, यदवोऽध्यवसन्समे ॥ ९९ ॥ जरासन्धं प्रतिहरिं हत्वा रामाच्युतौ क्रमात् ॥ भरतार्द्ध साधयिता - भुतां राज्यमुत्तमम् ॥ ३०० ॥ भगवान्नेमिनाथोऽपि तत्र क्रीडन् यथासुखम् ॥ प्राप्तोऽपि पुण्यतारुण्यं, तस्थौ भोगपराङ्मुखः ! ॥ ३०१ ॥ तस्य च प्रभोः रूपादिस्वरूपं प्ररूपयितुमाह सूत्रकारःमूलम् — सो रिट्ठनेमिनामो उ, लक्खणस्सरसंजुओ। अट्ठसहस्स लक्खणधरो, गोअमो कालगच्छवी ॥५॥
व्याख्या—अत्र ‘लक्खणस्सरसंजुओत्ति' खरलक्षणानि माधूर्यगाम्भीर्यादीनि तैः संयुतो यः स तथा । अष्टसह - त्रलक्षणधरः, अष्टोत्तरसहस्र संख्यशुभसूचक रेखात्मकचक्रा दिधारी । गौतमो गौतमगोत्रः, कालकच्छविः कृष्णत्वक् ॥५॥ मूलम् - वज्जरि सहसंघयणो, समचउरंसो झसोदरो । तस्स राइमई कण्णं, भज्जं जाएइ केसवो ॥ ६ ॥ व्याख्या- 'झसोदरो' झपो मत्स्यस्तदाकार मुदरं यस्य सः तथा, तस्यारिष्टनेमेर्भार्या, कर्तुमितिशेषः, राजीमतीं कन्यां । याचते केशवस्तत्पितरमिति प्रक्रमः ॥ ६ ॥ सा च कीदृशी ? इत्याह
मूलम् - अहसा रायवर कण्णा । सुसीला चारुपेहिणी ॥ सबल खणसंपन्ना, विज्जुसोआमणिप्पहा ॥७॥ व्याख्या - अथेत्युपन्यासे राज्ञ उग्रसेनस्य वरकन्या राजवरकन्या, सुशीला, चारुप्रेक्षिणी, नाऽधोदृष्टित्वादिदोपदुष्टा 'विजुस आमणिप्पत्ति' विशेषेण द्योतते विद्युत्सा चासौ सौदामिनी च विद्युत्सौदामिनी तत्प्रभा तद्वर्णेति सूत्रत्र्यार्थः ॥ ७ ॥ राजीमतीयाचनं चैवम्
अथान्यदा विभुः क्रीडन्, शस्त्रशालां हरेर्ययौ ॥ शार्ङ्गश्च धनुरादित्सु - रारक्षेणैवमोच्यत ॥ ३०२ ॥ विना विष्णुमिदं चापं, नान्योऽधिज्ययितुं क्षमः ॥ गिरीशमन्तरा को वा, नागेन्द्रं हारतां नयेत् ॥ ३ ॥ तत्कुमार ! विमुञ्चास्य, श्वापस्य ग्रहणाग्रहम् || अनारम्भो हि कार्यस्य, श्रेयानारभ्य वर्जनात् ! ॥ ४ ॥ तदाकर्ण्य प्रभुः स्मित्वा, द्रुतमादाय तद्धनुः ॥ वेत्रवन्नमयन्नुच्चै - लीलयाऽधिज्यमातनोत् ॥ ५ ॥ तेनेन्द्रचापकल्पेन, शोभितो नेमिनीरदः ॥ टङ्कारध्वनि गर्जाभि-र्विश्वं विश्वमपूरयत् ॥ ६ ॥ त्यक्त्वाथ चापमादाय, चक्रं भाचक्रभासुरम् ॥ अङ्गुल्याऽभ्रमयद्धर्म-चक्री चाक्रिकचक्रवत् ॥ ७ ॥ जनार्द्दनोऽपि यां गृह्णन्नायासं लभते भृशम् ॥ हित्वा चक्रं गदां ताम-प्युद्दधौ यष्टिवद्विभुः ! ॥८॥ तां च मुक्त्वा पाञ्चजन्यः खामिना योजितो मुखे ॥ स्मेरनीलारविन्दस्थ - राजहंसश्रियं दधौ ॥ ९ ॥ ध्माते च खामिना तस्मिन्, विश्वं बधिरतां दधौ ॥ चकंपिरेऽचलाः सर्वे - ऽचलाप्यासीच्चलाचला ॥ १० ॥ चुक्षुभुर्वार्द्धयो वीरा, अयुर्व्या मूर्च्छयाऽपतन् ॥ किमन्यत्तस्य शब्देन वित्रेसुस्त्रिदशा अपि ! ॥ ११ ॥ क्षुभितस्तद्धनेः सिंह- नादाद्गज इवाच्युतः ॥ इति दध्यावयं कम्बु- धर्मातः केन महौजसा ? ॥ १२ ॥ सामान्यभूस्पृशां क्षोभः, शंखे ध्माते मयाप्यभूत् ॥ ध्वानेनानेन तु क्षोभो, ममाप्युच्चैः प्रजायते ॥ १३॥ तद्वज्री चक्रवर्त्ती वा, विष्णुर्वान्यः किमागतः १ ॥ तत्किं कार्यमदो राज्यं, रक्षणीयं कथं मया ॥ १४ ॥ ध्यायन्नित्यायुधारक्षे - रेत्योदन्तं यथास्थितम् ॥ विज्ञप्तो विष्णुरित्यूचे,
१ क्षुब्धो ध्वानारतः सिंह - इति "घ" पुस्तके प्रथमपादः ॥