________________
उत्तराध्ययन
284 शङ्कातङ्काकुलो बलम् ॥ १५ ॥ इत्थं विश्वत्रयस्यापि, क्षोभो यत्क्रीडयाप्यभूत् ॥ स नेमिरावयो राज्यं, गृह्णन्केन निषेत्स्यते ॥ १६ ॥ बभाषे सीरभृद्भात-मर्मा शंकिष्ठा वृथाऽन्यथा ॥ अस्यास्मद्भातुरुक्तं हि, खरूपं प्राग् जिनैरिदम् ॥ १७ ॥ द्वाविंशोऽरिष्टनेम्यर्हन् , यदुवंशाब्धिचन्द्रमाः ॥ अभुक्तराज्यलक्ष्मीकः, प्रव्रज्यां प्रतिपत्स्यते ! ॥ १८॥ किञ्चार्थ्यमानोपि सदा, समुद्रविजयादिभिः ॥ युवाऽपि नो कनीमेका-मप्युद्वहति यः सुधीः ! ॥ १९॥ आददीत स किं राज्य-मिदं नेमिर्महाशयः १ ॥ तेनेत्युक्तोऽपि नाशंकां, हरिस्तत्याज तां हृदः ॥ २० ॥ उद्याने च गतं नेमिमन्यदेति जगाद सः ॥ नियुद्धं कुर्वहे भ्रात-रावां शौर्य परीक्षितुम् ॥ २१॥ ऊचे नेमिर्नियुद्धं नौ, न युक्तं प्राकृतोचितम् ॥ मिथो बलपरीक्षा तु, बाहुयुद्धेन भाविनी ! ॥ २२ ॥ तत्प्रपद्य निजं बाहुं, हरिः परिघमोदरम् ॥ प्रासारयद्वासवेश्म, भरतार्द्धजयश्रियः ॥ २३ ॥ तहोर्मदेन सत्रा तं, नमयित्वाऽजनालवत् ॥ वदोईण्डं विभुर्वज्र-दण्डोहण्डमदीर्घयत् ॥ २४ ॥ तं च न्यञ्चयितुं सर्व, खसामर्थ्य समर्थयन् ॥ विलमः केशवः शाखा-विलनशिशुवद्धभौ ॥२५॥ राज्यमादित्सते यो हि, स सामर्थ्य सतीशे ॥ नेयचिरं विलम्वेत, दध्याविति तदा हरिः ! ॥ २६ ॥ राज्यापहारचिन्तामि-त्यपहाय गृहं गतः ॥ समुद्रविजयेनैव-मन्यदाऽभाणि माधवः ॥ २७ ॥ खस्खस्त्रीभिः समं वीक्ष्य, कुमारान् क्रीडतोऽखिलान् ॥ नेमि चान्यादृशं दृष्ट्वा, भृशं खिद्यामहे वयम् ॥ २८॥ कन्योद्वाहं तदस्मै त्वं, वत्सोपायेन केनचित् ॥ वैद्योऽरोचकिने भोज्यं, भेपजेनेव रोचय ! ॥ २९ ॥ तत्प्रपद्य मुकुन्दोऽपि, दिव्यास्त्राणि मनोभुवः ॥ कार्ये तत्रादिशद्भामा-रुक्मिण्याद्या निजाङ्गनाः!॥३०॥ तदा च कामिनः काम, वर्तयन्कामशासने ॥ विकारकारितां कार-स्कराणामपि शिक्षयन् ॥ ३१ ॥ मधुमत्तैर्मधुकरै-मधुरारवपूर्वकम् ॥ भुज्यमानोत्फुल्लपुष्प-स्तवकव्रततिब्रजः ॥ ३२ ॥ पिकानां पञ्चमोद्गीति-शिक्षणककलागुरुः ॥ मलयानिलकलोल-लोलविरहिमानसः ॥ ३३ ॥ उत्साहितानङ्गवीरो, जगजनविनिर्जये ॥ मधूत्सवः प्रववृते, विश्वोत्सवनिवन्धनम् ॥३४॥[चतुर्भिः कलापकम् ॥] तदा कृष्णोपरोधेना-ऽवरोधे तस्य पारगः॥ ऋतूचिताभिः क्रीडाभि-श्चिक्रीडाऽकामविक्रियः॥३३५॥ व्यतीतेऽथ वसन्तत्तौ, ग्रीष्मर्तुः समवातरत् ॥राज्ञः प्राज्ञ इवामात्यो, भानोस्तेजोऽभिवर्द्धयन् ॥ ३६॥ तत्रापि भगवान्सत्रा, सावरोधेन विष्णुना ॥ क्रीडागिरी रैवतके, विजहार तदाग्रहात् ॥ ३७॥ जलक्रीडादिकाः क्रीडा-स्तत्र कृष्णोपरोधतः ॥ चकार विश्वालङ्कारो, निर्विकारो जगद्गुरुः ॥ ३८ ॥ रामा रामानुजस्याथ, प्राप्यावसरमन्यदा ॥ सप्रश्रयं सप्रणयं, सहासं चेति तं जगुः ॥ ३९ ॥ देवरादो देवराज-जित्वरं रूपमात्मनः ॥ वपुश्चेदं सदारोग्य-सौभाग्यादिगुणाञ्चितम् ॥४०॥ शच्या अपि स्मरोन्माद-करमेतच यौवनम् ॥ अनुरूपवधूयोगा-रसफलीकुरु धीनिधे ! ॥४१॥ [युग्मम् ] विना हि भोगान् विफलं, रूपाद्यमवकेशिवत् ॥ विना नारिं च के भोगाः?, भोगरत्नं हि सुन्दरी ! ॥४२॥ भवेद्विना गनां नाङ्ग-शुश्रुपा मजनादिना ॥ अस्त्रीकस्य मनोभीष्टं, निःखस्येव क भोजनम् ॥४३॥ रत्नानीव विना खानि,
२ भोगान् विना हि विफलं-इति "ध" पुस्तके प्रथमपादः ।। नन्दनाः क विनाङ्गनाम् ? ॥ अस्त्रीकस्यातिथिर्भिक्षो-रिवार्थमपि नाश्नुते ! ॥ ३४४ ॥ यामिन्यपि कथं याति, यूनो युवतिमन्तरा? ॥ चक्रवाकी विना पश्य, चक्रस्याब्दायते निशा !॥३४५॥ विना योग्यवधूयोगं, सकलोपिन शोभते ॥ पश्य श्यामावियुक्तस्य, कान्तिः का नाम शीतगोः!॥ ३४६ ॥ पाणी कृत्य ततः काश्चि-कन्यां गुणगणाम्वुधे।। श्रीदाशार्ह ! दशाादि-यदूनां पूरयेर्हितम् ॥ ३४७ ॥ आजन्मखैरिणा षण्ढे-नेव धूर्भवता वधूः ॥निर्वोढं दुश्शका शङ्के, नोद्वाहं कुरुपे ततः!॥३४८॥ तदप्ययुक्तं निर्योढा, तामप्यस्मानिवाच्युतः ॥ शेषस्याशेषभूधर्नु-नहि भाराय वल्लरी!॥३४९॥ निर्वाणाप्राप्तिभित्यापि, मा भूर्भोगपराङ्मुखः ॥ भुक्तभोगा अपि जिनाः, सिद्धा हि वृषभादयः ॥ ३५० ॥ दद्याः प्रतिवचो मा वा, धाष्टोन्मूकस्य ते परम् ॥ नास्मत्तो भविता मोक्षो, विवाहाङ्गीकृति विना ॥३५१॥ इति ताभिः प्रार्थ्यमान-मुपेत्याहन्तमादरात्॥प्रार्थयन्त तमेवार्थ, रामकृष्णादयोऽपि हि ॥३५२॥ वन्धुभिर्वन्धुरैर्वाक्यैः, स निर्बन्धमितीरितः ॥ जिनोऽनुमेने वीवाहं, भावि भावं विभावयन् ! ॥ ३५३ ॥ तमुदन्तं ततो गत्वा, वैकुण्ठोऽकुण्ठसम्मदः ॥ समुद्रविजयायाख्य-न्मुदमुन्मुद्रयन् पराम् ॥३५४॥ योग्यामस्य कुमारस्य, कन्यां वृणु महामते । ॥ इत्थं समुद्रविजयः, प्रोचे तायध्वजं ततः ॥३५५॥ कनी तदाहों दाशार्हः, सर्वतोऽन्वेषयंस्ततः॥ चिन्ताचान्तोऽन्यदा सत्य-भामयैवमभाष्यत ॥ ३५६ ॥ राजीवनयना राजी-मती सद्गुणराजिनी ॥ नेमेरहोस्ति जामिमें, जयन्तीजयिनी श्रिया।॥ ३५७॥ प्रिये ! साधु ममाहापी-श्चिन्तामिति वदंस्ततः॥ उग्रसेननरेन्द्रस्य, वेश्मो१ शण्ढेन धूरिवाजन्म-खैरिणा भवता वधूः । इति “घ” पुस्तके ॥