________________
285 उत्तराध्ययन पेन्द्रः स्वयं ययौ ॥ ३५८ ॥ दृष्टः प्रेक्ष्य हपीकेश-मभ्युत्थाय स पार्थिवः ॥ दत्वासनमपन्याजं, व्याजहार कृताञ्जलिः ॥ ३९ ॥ किमियानयमायासः, कृतोऽद्य खामिना खयम् ॥ नाहूतः किमहं प्रेष्य--प्रेपणेन खकिङ्करः १॥ ३६० ॥ इदं गृहमियं लक्ष्मी-रिदं वपुरियं सुता ॥ सर्व विद्धि खसानाथ !, येनार्थस्तन्निवेद्यताम् ॥ ३६१ ॥ ऊचे मुकुन्दः कुन्दाभ-रदाभाभासुराधरः॥ मद्धातुर्देहि नेमेस्त्वं, राजन् ! राजीमतीमिमाम् ॥ ३६२ ॥ इत्थं हरिणा याचितायां राजीमत्यां धन्यंमन्यः प्रमोदभरमेदुर उग्रसेननृपो यदूचे तदाह सूत्रकृत्मूलम्-अहाह जणओ तीसे, वासुदेवं महिड्डिअं। इहागच्छउ कुमारो, जासे कन्नं दलामहं ॥८॥
व्याख्या-अथ याचानन्तरमाह जनकस्तस्या राजीमत्याः 'जासेत्ति' सुव्यत्ययायेन तस्मै कन्यां ददामि विवाहविधिना उपढौकयाम्यहम् ॥ ८॥ इत्थं तेनोक्ते, कृते च द्वयोरपि कुलयोर्वर्धापने, आसन्ने च क्रोप्लुक्यादिष्टे विवाहलग्ने यदभूत्तदाहमूलम्-सवोसहिहिं ण्हविओ, कयकोउअमंगलो। दिवजुअलपरिहिओ, भूसणेहिं विभूसिओ॥९॥
व्याख्या-सर्वोपधयो जयाविजयर्द्धिवृद्धिप्रमुखास्ताभिः स्नपितोऽभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र ललाटमुशलस्पर्शनादीनि कौतुकानि, मङ्गलानि च दध्यक्षतादीनि । दिधेत्यादि-परिहितं दिव्यं युगलमिति देवदूष्ययुगलं येन स तथा, सूत्रे व्यत्ययः प्राकृतत्वात् ॥९॥ मूलम्-मत्तं च गंधहत्यि, वासुदेवस्स जिट्टगं । आरूढो सोहई अहिअं, सिरे चूडामणी जहा ॥१०॥
व्याख्या-यासुदेवस्य सम्बधिनं ज्येष्ठकमतिशयप्रशस्वं पट्टहस्तिनमित्यर्थः, आरूढः शोभतेऽधिकं, शिरसि यथा चूडामणिः ॥१०॥ मूलम्-अह ऊसिएण छत्तेण, चामराहि अ सोहिओ। दसारचक्केण य सो, सबओ परिवारिओ ॥११॥
व्याख्या-उच्छ्रितेन उपरि धृतेन, दसारेत्यादि-दशाहोः समुद्रविजयादयो वसुदेवान्ता दश भ्रातरस्तेषां चक्रेण समूहेन ॥११॥ मूलम्-चतुरंगिणीए सेणाए, रइआए जहक्कम । तुडिआणं सन्निनाएणं, दिवेणं गयणंफुसे ॥ १२॥
व्याख्या-'रइआएत्ति' रचितया न्यस्तया यथाक्रम, तूर्याणां सन्निनादेन गाढध्वनिना, दिव्येन प्रधानेन, गगनस्पृशा नभोङ्गणव्यापिना उपलक्षितः ॥ १२ ॥ मूलम्-एआरिसीए इड्डीए, जुत्तीए उत्तमाए य । नियगाओ भवणाओ, निजाओ वह्निपुंगवो ॥१३॥
व्याख्या-एतादृश्या पूर्वोक्तया ऋद्ध्या विभूत्या, धुत्या च दीप्त्या उत्तमया उपलक्षितः सन् निजकाद्भवनान्निर्यातो निष्क्रान्तो वृष्णयोऽन्धकवृष्णिसन्तानीया यदवस्तेषु पुङ्गवः प्रधानो भगवानरिष्टनेमिर्गतश्च जगजनमनोहरैर्महामहै। मण्डपासन्नप्रदेशमिति सूत्रपदकार्थः ॥ १३ ॥ तदा च___ वीक्ष्यायान्तं गवाक्षस्था, नेमि राजीमती कनी ॥ वचोऽगोचरमापन्ना-ऽऽनन्दमेवमचिन्तयत् ॥३६३॥ किमाश्चिनोऽसौ सूर्यो वा, स्मरो वा मघवाऽथवा ॥ मर्त्यमूत्ति श्रितः पुण्य-प्राग्भारोऽसौ ममैव वा ? ॥ ३६४ ॥ भर्ता मे विदधे येन, वेधसाऽसौ सुमेधसा ॥ कां प्रत्युपक्रियां तस्मै, करिष्येऽहं महात्मने ? ॥ ३६५ ॥ काहं किं जायते कोऽसौ, कालस्तिष्ठाम्यहं व वा ? ॥ इत्यज्ञासीन्न सा नेमि-दर्शनोत्थमुदा तदा!॥ ३६६ ॥ अत्रान्तरे स्फुरत्तस्या, मंच दक्षिणमीक्षणम् ॥ तच्चोद्विग्नमनाः सद्यः, सा सखीनां न्यवेदयत् ॥ ३६७ ॥ ऊचुः सख्यो हतं पापं, मा खिद्यख महाशये ! ॥ इयती भुवमायातो, न हि नेमिलिष्यते ! ॥ ३६८॥राजीमती जगौ जाने, स्वभाग्यप्रत्ययादहम् ॥ इहागतोऽपि गन्ताय-मुद्वोढा न तु मां प्रभुः ! ॥ ३६९ ॥ अत्रान्तरे च यदभूत्तत्सूत्रकृदेव दर्शयतिमूलम्-अह सो तत्थ निजतो, दिस्स पाणे भयदुए। वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदक्खिए॥१४॥
व्याख्या-अथानन्तरं सोऽरिष्टनेमिस्तत्र मण्डपासन्ने प्रदेशे निर्यन्नधिकं गच्छन् 'दिस्सत्ति' दृष्ट्वा, प्राणान् प्राणिनो मृगादीन् , भयद्रुतान् भयत्रस्तान् , वाटैटिकैः, पञ्जरैश्च सन्निरुद्धान् गाढनियंत्रितान् , अत एव सुदुःखितान् १४॥॥ मूलम्-जीवीअंतं तु संपत्ते, मंसहा भक्खिअवए । पासित्ता से महापण्णे, सारहिं पडिपुच्छइ ॥१५॥
व्याख्या-जीवितान्तं मरणावसरं सम्प्राप्तान् , मांसाथै मांसोपचयनिमित्तं भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्तत्ति' उक्तविशेषणविशिष्टान् हदि निधाय भगवान्, महती प्रज्ञा ज्ञानत्रयात्मिका यस्य स तथा, सारथि हस्तिनः प्रवर्तकं हस्तिपकमित्यर्थः प्रतिपृच्छति ॥ १५॥