________________
286 उत्तराध्ययन मूलम्-कस्स अट्ठा इमे पाणा, एए सवे सुहेसिणो। वाडेहिं पंजरेहिं च, सन्निरुद्धे अ अच्छहि ॥१६॥
व्याख्या-कस्यार्थाद्धेतोरिमे प्राणाः प्राणिन एते सर्वे, इमे इत्यनेनैव गते एते इति पुनः कथनमतिसम्भ्रमख्यापकं, 'सन्निरुद्धे अत्ति' सन्निरुद्धाश्चः पूरणे 'अच्छहिति' तिष्ठन्ति ॥ १६ ॥ एवं भगवतोक्तेमूलम्-अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुभविवाहकजंमि, भुंजावेउं बहुं जणं१७ _ व्याख्या-'भद्दाउत्ति' भद्रा एव कल्याणा एव, न तु शृगालादिकुत्सिताः । तव विवाहकार्य गौरवादी भोजयितुं बहुं जनं रुद्धाः सन्तीति शेषः १७ ॥ इत्थं सारथिनोक्ते यत्प्रभुश्चक्रे तदाहमूलम्-सोऊण तस्स सो वयणं, बहुपाणविणासणं। चिंतेइ से महापण्णे, साणुक्कोसे जिए हि उ॥१८॥ _ व्याख्या-बहुपाणेत्यादि-बहूनां प्राणानां प्राणिनां विनाशनं वाच्यं यस्य तद्वहुप्राणविनाशनं, स प्रभुः सानुक्रोशः सकरुणः, 'जिएहि उत्ति' जीवेषु, तुः पूत्तौ ॥ १८॥ मूलम्-जदि मज्झ कारणा एए, हम्मति सुबहू जिआ।न मे एअंतु निस्सेसं, परलोए भविस्सइ १९ __ व्याख्या-यदि मम कारणात् हेतोः 'हम्मंतित्ति' हनिष्यन्ते सुबहवो जीवाः, न मे एतजीवहननं निःश्रेयसंकल्याणं परलोके भविष्यति ! भवान्तरेषु परलोकभीरुत्वस्य भृशाभ्यासादेवमभिधानं, अन्यथा चरमदेहत्वादतिशयज्ञानित्वाच भगवतः कथमियं चिन्ता स्यात् ? ॥१९॥ ततश्च ज्ञातजिनाशयेन सारथिना मोचितेषु तेषु परितोषाधत्प्रभुश्चक्रे तदाहमूलम्-सो कुंडलाण जुअलं, सुत्तगं च महायसो। आहरणाणि अ सवाणि, सारहिस्स पणामए ॥२७॥
व्याख्या-'सुत्तगं चत्ति' कटीसूत्रं, आभरणानि च सर्वाणि शेषाणि 'पणामएत्ति' अर्पयतीति सूत्रसप्तकार्थः॥२०॥ ततो यदभूत्तदुच्यते__अवलिष्ट ततः स्वामी, सद्यो वक्र इव ग्रहः ॥ करुणारसपाथोधि-विश्वजन्तुहितावहः ! ॥ ३७० ॥ शिवासमुद्रविजयौ, पुरो भूय तदा प्रभुम् ॥ इत्यूचतुरजस्राश्रु-धारामेघायितेक्षणौ !॥ ३७१ ॥ किं वत्सास्मत्प्रमोददु-मुन्मूलयसि मूलतः ॥ किं खेदयसि कृष्णादीन् , स्वीकृतत्यागतो यदून् ? ॥ ३७२ ॥ भवत्कृते स्वयं गत्वा, वृतपूर्वी तदजजाम् ॥ अथोग्रसेनस्य कथं, हरिदर्शयिता मुखम् ? ॥ ३७३॥ कथं वा भाविनी जीव-न्मृता राजीमती कनी॥ भत्तेहीना हि नाभाति, स्त्री विनेन्दुमिव क्षपा!॥ ३७४ ॥ कृत्वोद्वाहं तदस्माकं, दर्शय खवधूमुखम् ॥प्रथमप्रार्थनामेना, सफलीकुरु वत्स ! नः ॥ ३७५ ॥ वभाण भगवान्पूज्याः 1, श्लथयन्त्वेनमाग्रहम् ॥ प्रवर्त्यते हितेऽर्थे हि, खाभीष्टो नाऽपरे पुनः ॥३७६॥ यत्पाणिपीडनेप्येवं, भवति प्राणिपीडनम् ॥ अचिराद्यासु चासक्तः, प्राणी प्राप्नोति दुर्गतिम् । ॥ ३७७ ॥ तासां स्त्रीणां सङ्गमेन, मुक्तिकामस्य मे कृतम् ॥ कृती हि यतते प्रेत्य-हिते नाऽऽपातसु. न्दरे ! ॥ ३७८ ॥ [युग्मम् ] वदन्तमिति तं साचे, सर्वे कम्पितविष्टराः ॥ तीर्थ प्रवर्तयेत्यूचु-रेत्य लोकान्तिकामराः ॥ ३७९ ॥ समुद्रविजयादींश्च, ते देवा एवमूचिरे ॥ शुभवन्तो भवन्तः किं, विषीदन्ति मुदः पदे ? ॥ ३८० ॥ अयं हि भगवान् दीक्षा-भादायोत्पन्नकेवलः ॥ चिरं मोदयिता विश्व-त्रयं तीर्थ प्रवर्तयन् ! ॥ ३८१ ॥ मुदितेषु तदाकये, समुद्रविजयादिषु ॥ गृहं गत्वाऽऽब्दिकं दानं, दातुं खामी प्रचक्रमे ॥ ३८२॥ __इतश्च वलितं वीक्ष्य, नेमि शोकभरातुरा ॥ राजीमती क्षितौ वज्रा-हतेवाचेतनाऽपतत् ॥३८३॥ वयस्याः विहितैः शीतो-पचारैश्चाप्तचेतना ॥ दुःखोद्गारोपमांश्चक्रे, विलापानिति दुःश्रवान् !॥३८४॥ दोषं विनापि रक्तां मां, त्यक्त्वा नाथ ! कुतोऽगमः १ ॥ त्वादशां हि विशां भक्त-जनोपेक्षा न युज्यते । ॥ ३८५ ॥ सन्त्यजन्ति महान्तो हि, सदोषमपि नाश्रितम् ॥ जहात्यङ्कमृगं नेन्दु-नचाब्धिर्वडवानलम् ! ॥ ३८६ ॥ सत्यप्येवं यदि त्याज्यां, मामज्ञासीर्जगप्रभो।। तदा किमर्थ स्वीकृत्य, विवाहं मां व्यडम्बयः ॥ ३८७ ॥ यद्वा ममैवासी दोषो-ऽरज्यं यत्त्वयि दुर्लभे॥ काक्या एव हि दोषोऽयं, यद्रज्यति सितच्छदे 1॥ ३८८॥ रूपं कला कुशलता, लावण्यं यौवनं कुलम् ॥ त्वया खीकृत्य मुक्तायाः, सर्व में विफलं विभो!॥ ३८९ ॥ निर्यान्तीवाऽसवो वक्षः, स्फुटतीव ममोच्चकैः ॥ ज्वलतीव वपुः कान्त 1, त्वद्वियोगव्यथाभरैः ॥ ३९॥ पशुष्वासीः कृपालुस्त्वं, यथा मयि तथा भव ॥ त्वाशा हि महात्मानः, पंक्तिभेदं न कुर्वते । ॥ ३९१ ॥ दशा गिरा च मां रक्तां. विभो । सम्भावयैकशः॥ को हि वेत्ति विनाऽऽखादं, मधुरं कटु वा फलम् ? ।। ३९२ ॥ यद्वा सिद्विवधूत्कस्य, तव सापि पुलोमजा ॥ मनो हरति नो तर्हि, क्वार्ह मानुषकीटिका ? ॥ ३९३ ॥ इत्युचैर्विलपन्तीं तां, कनी सख्योऽवदन्नदः ॥मा रोदः सखि ! यात्वेप, नीरसो निष्ठुराग्रणीः ॥ ३९४ ॥ भूयांसोऽन्येपि विद्यन्ते, हृद्या यदुकुमारकाः ॥ खानुरूपं वरं तेषु, वृणुयास्त्वं मनोहरम् ॥३९५॥